रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
| ६८ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—'तथा' इति गां उक्तवते हरये सद्यः प्रतिस्तम्भविवुक्तबाहुः सः दिलीपः न्यस्तशस्त्रः स्वदेहम् आमिषस्य पिण्डम् इव उपानयत् ।
तथेतीति । तथेति गामुक्तवते हरये सिंहाय । 'कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः' इति शाश्वतः । सद्यस्तत्क्षणे प्रतिस्तम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य स दिलीपः । न्यस्तशस्त्रस्त्यक्तायुधः सन् । स्वदेहम् । आमिषस्य मांसस्य । 'पललं क्रव्यमामिषम्' इत्यमरः । पिण्डं कवलमिव । उपानयत्समर्पितवान् । एतेन निर्गतमत्वमुक्तम् ।
भाषार्थ—'अच्छा' इस वाणी को कहने वाले सिंह के लिए तत्काल मुक्त हाथ वाला अस्त्र छोड़कर उस दिलीप ने अपने शरीर को मांस के लोथ के समान अर्पण कर दिया ॥ ५९ ॥
तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६० ॥
**अन्वयः—**तस्मिन् क्षणे उग्रं सिंहनिपातं उत्पश्यतः अवाङ्मुखस्य प्रजानां पालयितुः उपरि विद्याधरहस्तमुक्ता पुष्पवृष्टिः पपात ।
तस्मिन्निति । तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत : उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्य 'स्यादवाङप्यधोमुखः' इत्यमरः । प्रजानां पालयितु राज्ञ उपर्युपरिष्टात् । 'उपर्युपरिष्टात्' इति निपातः । विद्याधराणां देवयोनिविशेषाणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ।
**भाषार्थ—**उसी समय क्रूर सिंह के झपटने की राह देखने वाले, नीचे मुँह किये प्रजाओं का पालन करने वाले राजा दिलीप के ऊपर विद्याधरों के हाथ से छूटी हुई पुष्प-वर्षा हुई ॥ ६० ॥
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्स्रविणीं न सिंहम् ॥ ६१ ॥
**अन्वयः—**राजा अमृतायमानम् उत्थितं 'हे वत्स ! उत्तिष्ठ' इति वचः निशम्य उत्थित, सन् अग्रतः प्रस्स्रविणीं गां स्वां जननीम् इव ददर्श सिंहं न ( ददर्श ) ।
उत्तिष्ठेति । राजा अमृतमिवाचरतीत्यमृतायमानं तत् 'उपमानादाचारे' इति क्यङ् । ततः शानच् । उत्थितमुत्पन्नं 'हे वत्स ! उत्तिष्ठ' इति वचो निशम्य श्रुत्वा । उत्थितः सन् । अस्तेः शतृप्रत्ययः । अग्रतोऽग्रे प्रस्स्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्स्रविणीं गां स्वां जननीमिव ददर्श सिंहं न ददर्श ।
द्वितीयः सर्गः ६१
भावार्थ— 'हे पुत्र ! उठो' ऐसा नन्दिनी के मुँह से निकले हुए अमृतमय वचन को सुनकर उठते ही राजा ने सामने टपकते हुए दूध वाली नन्दिनी गौ को अपनी माता के समान देखा, शेर को नहीं ॥ ६१ ॥
तं विस्मितं धेनुरुवाच साधो ! मायां मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ ६२ ॥
अन्वयः— विस्मितं तं धेनुः उवाच । हे साधो ! मया मायां उद्भाव्य परीक्षितः असि ऋषिप्रभावात् मयि अन्तकः अपि प्रहर्तुं न प्रभुः किमुत अन्यहिंस्रा ।
तमिति । विस्मितमाश्चर्यं गतम् । कर्त्तरि क्तः । तं दिलीपं धेनुरुवाच । किमित्यत्राह हे साधो ! मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि । ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुनं समर्थः अन्ये हिंस्रा घातुकाः । 'शरारुर्घातुको हिंस्रः' इत्यमरः । 'नमिकम्पि०' इत्यादिना रप्रत्ययः । किमुत सुष्ठु न प्रभव इति योज्यम् । 'वलवत्सुष्ठु किमुत स्वत्यतीव च निर्भर' इत्यमरः ।
भावार्थ— आश्चर्य में पड़े हुए राजा से नन्दिनी ने कहा हे—राजन् ! मैंने माया रचकर तेरी परीक्षा ली है । महर्षि वसिष्ठ के प्रताप से यमराज भी मुझ पर प्रहार करने में समर्थ नहीं है, फिर दूसरे हिंसकों की तो क्या ताकत ? ।
भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्रं ! वरं वृणीष्व ।
न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥ ६३ ॥
अन्वयः— हे पुत्र ! गुरौ भक्त्या मयि अनुकम्पया च ते प्रीता अस्मि, वरं वृणीष्व । मां केवलानां पयसां प्रसूतिं न अवेहि । किंतु प्रसन्नां कामदुघाम् (अवेहि)
भक्त्येति । हे पुत्र ! गुरौ भक्त्या मय्यनुकम्पया च ते तुभ्यं प्रीताऽस्मि । 'क्रियाग्रहणमपि कर्त्तव्यम्' इति चतुर्थी । वरं देवेभ्यो वरणीयमर्थम् । 'देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक् प्रिये' इत्यमरः । वृणीष्व स्वीकुरु । तथाहि—मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धि । किन्तु प्रसन्नां माम् । कामान्दोग्धीति कामदुधा तामवेहि । 'दुहः कप्घश्च' इति कप्प्रत्यः ।
भावार्थ— महर्षि वसिष्ठ में भक्ति और मेरे ऊपर दया करने से मैं तुम्हारे ऊपर प्रसन्न हूँ । पुत्र ! वर मांगो । मुझे निरी दूध देनेवाली गौ न समझो अपितु प्रसन्न हुई मुझे इच्छित फल देने वाली जानो ॥ ६३ ।
ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारमनन्तकीर्ति सुदक्षिणायां तनयं ययाचे ॥ ६४ ॥
७० | रघुवंशमहाकाव्ये
अन्वयः—ततः मानितार्थी स्वहस्तस्तार्जितवीरशब्दः सः हस्तौ समानीय वंशस्य कर्तारम् अनन्तकीर्ति सुदक्षिणायां तनयं ययाचे ।
तत इति । ततो मानितार्थी । स्वहस्तार्जितो वीर इति शब्दो येन एतेनास्य दातृत्वं दैन्यरहित्यं चोक्तम् । स राजा हस्तौ समानीय संघाय । अञ्जलि बद्ध्वेत्यर्थः । वंशस्य कर्तारं प्रवर्त्तयितारम् । अत एव रघुकुलमिति प्रसिद्धिः । अनन्तकीर्ति स्थिरयशसं तनयं सुदक्षिणायां ययाचे ।
भाषार्थ—तब अतिथियों को सम्मानित करने वाले अपने बाहुबल से अर्जित किये हुए 'वीर' शब्द वाले राजा दिलीप ने सुदक्षिणा में वंश को चलानेवाले, स्थिर यशस्वी पुत्र होने की याचना की ॥ ६४ ॥
सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥ ६५ ॥
अन्वयः—सा पयस्विनी सन्तानकामाय राज्ञे तथा इति कामं प्रतिश्रुत्य 'हे पुत्र ! मदीयं पयः पत्रपुटे दुग्ध्वा उपभुङ्क्ष्व' इति तम् आदिदेश ।
सन्तानेति । पयस्विनी गोः । सन्तानं कामयत इति सन्तानकामः । 'कर्मण्यण्' । तस्मै राज्ञे तथेति काम्यत इति कामो वरः । कर्मार्थे घञ्प्रत्ययः । तं प्रतिश्रुत्य प्रतिज्ञाय 'हे पुत्र ! मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व' । 'उपयुङ्क्ष्व' इति वा पाठः । 'पिब' इति तमादिदेश ज्ञापितवती ।
भाषार्थ—उस नन्दिनी गौ ने पुत्र चाहने वाले राजा दिलीप से 'वैसा ही होगा' इस वरदान की प्रतिज्ञा करके 'हे पुत्र ! मेरे दूध को पत्ते के दोने में दुहकर पी जाओ' ऐसी उनको आज्ञा दी ॥ ६५ ॥
वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मात: ! ।
औधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥ ६६ ॥
अन्वयः—हे मात: वत्सस्य च होमार्थविधेः शेषम् तव औधस्यं रक्षितायाः षष्ठांशभागम् इव ऋषेः अनुज्ञाम् अधिगम्य उपभोक्तुम् इच्छामि ।
वत्सस्येति । हे मात: ! वत्सस्य वत्सपीतस्य शेषम्, वत्सपीतावशिष्टमित्यर्थः। होम एवार्थः, तस्य विधिरनुष्ठानम्, तस्य च शेषम् । होमावशिष्टमित्यर्थः । तव ऊधसि भवमौधस्यं क्षीरम् । 'शरीरावयवाच्च' इति यत्प्रत्ययः । रक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव । ऋषेरनुज्ञामधिगम्य उपभोक्तुमिच्छामि ।
भाषार्थ—हे माता ! बछड़े के पीने से और होम करने से बचे हुए तुम्हारे
द्वितीयः सर्गः
द्वितीयः सर्गः ७१
तुम्हारे दूध को ऋषि वसिष्ठ की आज्ञा पाकर पालन की गई पृथ्वी के छठे हिस्से के समान पीना चाहता हूँ ॥ ६६ ॥
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६७ ॥
अन्वयः—क्षितीशेन इत्थं विज्ञापिता वसिष्ठधेनुः प्रीततरा बभूव । तदन्विता वसिष्ठधेनुः हैमवतात् कुक्षेः सकाशात् अश्रमेण आश्रमं प्रत्याययौ च ।
इत्थमिति । इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुः प्रीततरा पूर्वं शुश्रूषया प्रीता सम्प्रत्यनया विज्ञापना प्रीतिराजतिसन्तुष्टा बभूव । तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्सम्बन्धिनः कुक्षेर्गुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ।
भाषार्थ—इस तरह राजा दिलीप की प्रार्थना से महर्षि वसिष्ठ की गौ नन्दिनी बहुत प्रसन्न हुई । और राजा के साथ हिमालय की गुफा से विना परिश्रम के आश्रम के प्रति लोटी ॥ ६७ ॥
तस्या प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥ ६८ ॥
अन्वयः—प्रसन्नेन्दुमुखः नृपाणां गुरुः प्रहर्षचिह्नानुमितं तस्याः प्रसादं पुनरुक्तया वाचा इव गुरवे निवेद्य प्रियायै शशंस ।
तस्या इति । प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमूर्हितं तस्या धेनोः प्रसादम नुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तमेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति । किन्तु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेत्युत्प्रेक्षा ।
भाषार्थ—निर्मल चन्द्रमा के समान मुख वाले, राजाओं में श्रेष्ठ दिलीप ने हर्ष के चिह्नों से अनुमित होने वाले नन्दिनी के वरदानरूपी अनुग्रह की दुबारा कही हुई के समान वाणी द्वारा गुरु से निवेदन कर रानी से कहा ॥ ६८ ॥
स नन्दिनीस्तन्यमनिन्दितात्मा सद्द्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातिसृष्णः ॥ ६६ ॥
अन्वयः—अनिन्दितात्मा सद्दत्सलः वसिष्ठेन कृताभ्यनुज्ञः सः (सन्) वत्सहुतावशेषं नन्दिनीस्तन्यं शुभ्रं मूर्तं इव अतितृष्णः पपौ ॥ ६९ ॥
स इति । अनिन्दितात्माऽगर्हितस्वभावः । सत्सु वत्सलः प्रेमवान्सद्वत्सलः ।
७२ रघुवंशमहाकाव्ये
'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजावतंस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरं शुभ्रं परिच्छिन्नं यश इव, अतितृष्णः सन् पपौ ।
**भावार्थ—**प्रशंसनीय स्वभाव वाले, सज्जनों पर दयालु, महर्षि वसिष्ठ की आज्ञा पालन कर राजा दिलीप ने अतितृषित हो बछड़े के पीने और हवन से बचे हुए नन्दिनी के दूध को उज्ज्वल मूर्तिमान् यश के समान पिया ॥ ६९ ॥
प्रातर्यथोक्तव्रतपारणाऽन्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥ ७० ॥
**अन्वयः—**वशी वसिष्ठः यथोक्तव्रतपारणाम्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य तौ दम्पती स्वां राजधानीं प्रति प्रस्थापयामास ।
प्रातरिति । वशी वसिष्ठः प्रातः यथोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवं तत्कालोचितमित्यर्थः । 'कालाट्ठञ्' इति ठञ्प्रत्ययः । 'यथा कथञ्चिद् गुणवृत्त्याऽपि काले वर्त्तमानत्वात् प्रत्यय इष्यते' इति वृत्तिकारः । ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशी- र्वादं प्रयुज्य तौ दम्पती स्वां राजधानीं प्रस्थापयामास ।
**भावार्थ—**प्रातः काल जितेन्द्रिय महर्षि वसिष्ठ ने विधिपूर्वक गोसेवा रूपी व्रत की पारणा करने के बाद यात्रा के समय समुचित स्वस्तिवाचन कर, उन दोनों राजा-रानी को उनकी राजधानी की ओर भेजा ॥ ७० ॥
प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे स मङ्गलोदग्रतरप्रभावः ॥ ७१ ॥
**अन्वयः—**नृपः हुतं हुताशं च भर्तुः अनन्तरम् अरुन्धतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य सन्मङ्गलोदग्रतरप्रभावः (सन्) प्रतस्थे ।
प्रदक्षिणीकृत्येति । नृपो हुतं तर्पितं, हुतमश्नातीति हुताशोऽग्निः । 'कर्मण्यण्' । तं भर्त्तुमुनेरनन्तरम् प्रदक्षिणामन्तरमित्यर्थः । अरुन्धतीं च सवत्सां धेनुं च प्रदक्षि- णीकृत्य प्रागतो दक्षिणम् । 'तिष्ठद्गुप्रभृतीनि च' इत्यव्ययीभावः । ततश्च्चिः । अप्रदक्षिणं प्रदक्षिणं सम्पद्यमानं कृत्वा प्रदक्षिणीकृत्य सद्भिर्मङ्गलाचारैरुदग्रतर- प्रभावः सन् प्रतस्थे ।
**भावार्थ—**राजा दिलीप ने प्रज्वलित अग्नि और मुनि की प्रदक्षिणा के बाद अरुन्धती और बछड़े के साथ नन्दिनी की प्रदक्षिणा करके अच्छे मङ्गलाचारों से प्रवर्धित प्रताप वाला होते हुए प्रस्थान किया ॥ ७१ ॥
द्वितीयः सर्गः ७३
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥
अन्वयः—धर्मपत्नीसहितः सहिष्णुः सः श्रोत्राभिरामध्वनिना अनुद्घातसुखेन रथेन स्वेन पूर्णेन मनोरथेन इव मार्गं ययौ ।
श्रोत्रेति । धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामं ध्वनिना कर्णाल्हादकरस्वनेनानुद्घातः । पाषाणादिप्रतिघातरहितः । अत एव सुखयतीति सुखः, तेन रथेन स्वेन पूर्णेन सफलेन मनोरथेनैव मार्गमध्वानं ययौ । मनोरथपक्षे-ध्वनिः श्रुतिः ! अनुद्घातः प्रतिबन्धकनिवृत्तिः ।
भावार्थ—रानी सुदक्षिणा के साथ-साथ व्रतादि दुःखों को सहन करने वाले उस राजा ने कर्णसुखद-ध्वनि-युक्त, मार्ग के झटकों से रहित रथ से प्रतिबन्धरहित अतएव सुखप्रद सफल मनोरथ के समान मार्ग को तय किया ॥ ७२ ॥
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजाऽर्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवोषधीनाम् ॥ ७३ ॥
अन्वयः—अदर्शनेन आहितौत्सुक्यं प्रजार्थव्रतकर्शिताङ्गं प्रजाः तृप्तिम् अनाप्नुवद्भिः नेत्रैः नवोदयम् ओषधीनां नाथम् इव पपुः ।
तमिति । अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्य जनितदर्शनोत्कण्ठयम् । प्रजार्थेन सन्तानार्थेन व्रतेन नियमेन कशितं कृशीकृतमङ्गं यस्य तम् । नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः । ओषधीनां नाथं सोममिव तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः । चन्द्रपक्षे—अदर्शनं कलाक्षयनिमित्तं प्रजाऽर्थं लोकहितार्थं व्रतं देवताभ्यः कलादाननियमः “तं च सोमं पपुर्देवा पर्ययेणानुपूूर्वंशः” इति व्यासः । उदय आविर्भावः । अन्यत्समानम् ।
भावार्थ—(वसिष्ठाश्रम में रहने के कारण) न दिखाई पड़ने के कारण उत्कण्ठा उत्पन्न कर देने वाले, पुत्रार्थव्रत करने से कृश शरीर वाले, उस राजा को प्रजा ने दूज के चाँद की तरह अतृप्त नेत्रों से देखा ॥ ७३ ॥
पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ ७४ ॥
अन्वयः—पुरन्दरश्री सः पौरैः अभिनन्द्यमानः उत्पताकं पुरं प्रविश्य भुजगेन्द्र समानसारे भुजे भूयः भूमेः धुरम् आससञ्ज ।
पुरन्दरेति । पुरः पुरीरसुराणां दारयतीति पुरन्दरः शक्रः । 'पूःसर्वयोर्दारिसहोः' इति खप्रप्रत्ययः । 'वाचंयमपुरन्दरौ च' मुमागमो निपातितः । तस्त श्रीरिव श्री-
७४ रघुवंशमहाकाव्ये
र्यस्य स नृपः पौरैरभिनन्द्यमानः । उत्पताकमुच्छ्रितध्वजम् । ‘पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम्' इत्यमरः । पुर प्रविश्य भुजङ्गेन्द्रेण समानसारे तुल्य बले । 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । भुजे भूयो भूमेर्धुरमासमञ्ज स्यङ्कितवान् ।
**भाषार्थ—**इन्द्रतुल्यकान्तिवाले उस राजा ने नागरिकों द्वारा अभिनन्दित होकर शेषनाग तुल्य बलवाली भुजाओं पर पुनः पृथ्वी का भार उठा लिया ॥ ७४ ॥
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निborderनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ७५ ॥
**अन्वयः—**अथ द्यौः अत्रेः नयनसमुत्थं ज्योतिः इव सुरसरित् वह्निनिष्ठ्यूतम् ऐशं तेज इव, राज्ञी नरपतिकुलभूत्यै गुरुभिः लोकपालानुभावैः अभिनिविष्टं गर्भम् आधत्त ।
अथेति । अथ द्यौः सुरवर्त्म । ‘द्योः स्वर्गमुरवर्त्मनोः' इति विश्वः । अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । ज्योतिरिव चन्द्रमिवेत्यर्थः । ‘ऋक्षेशः स्यादत्रिनेत्रप्रसूतः' इति हलायुधः । चन्द्रस्यात्रि नेत्रोद्भूतत्वमुक्तं हरिवंशे—“नेत्राभ्यां वारि सुस्राव दशधा द्योतयदिदशः । तद्गर्भविधिना दृष्ट्वा दिशो देव्यो दधुस्तदा ॥ समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभावितः । पपात भासयंल्लोकञ्छिह्नितांशुः सर्वभावनः” । इति सुरसरिद् गङ्गा वह्निना निष्ठ्यूतं निक्षिप्तं ‘च्छ्वोः शूडनुनासिके च’ इत्यनेन निपूर्वात् ष्ठीवतेर्वकारस्य ऊठ् । ‘नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः’ इत्यमरः । ऐशं तेजः स्कन्दमिव । अत्र रामायणम्—“ते गत्वा पर्वतं राम ! कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः । देवकार्यमिदं देव ! समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ! देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि ! देवतानामिदं प्रियम् । इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । सा तस्या महिमां दृष्ट्वा समन्तादवकीर्य च । समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन !” इति । राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टं गर्भमाधत्त दधावित्यर्थः । अत्र मनुः—“अष्टानां लोकपालानां वपुर्धारयते नृपः” इति । आधत्त इत्यनेन स्वीकर्तुंक-
तृतीयः सर्गः
तृतीयः सर्गः ७५
धारणमात्रमुच्यते । तथा मन्त्रे च दृश्यते "यथेयं पृथिवी मह्युत्ताना गर्भमादधे । एवं त्वं गर्भमाधेहि दशमे मासि सूतवे" । इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्या- पारधारण आधानशब्दप्रयोगदर्शनादिति । मालिनीवृत्तमेतत् । तदुक्तम् - 'ननमय- ययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् । इति संजीवनीव्याख्यायां नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः । भाषार्थ - इसके बाद आकाश के द्वारा चन्द्रमा की तरह, गङ्गा के द्वारा शिव के फेंके हुए तेज (वीर्य) की तरह, रानी सुदक्षिणा ने रघुवंश की वृद्धि के लिये लोकपालों के तेज से गर्भ को धारण किया ॥ ७५ ॥ त्रिपाठयुपाह्व पं० श्रीकृष्णमणिकृत चन्द्रकला टीका में द्वितीय सर्ग समाप्त ।
⁂ ⁂ ⁂
तृतीयः सर्गः
'राज्ञी सुदक्षिणा गर्भमाधत्त' (२-७५) इत्युक्तम् । सम्प्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति—
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हदलक्षणं दधौ ॥ १ ॥
अन्वयः — अथ सुदक्षिणा उपस्थितोदयं भर्तुः ईप्सितं सखीजनोद्वीक्षणकौमुदीमुखं इक्ष्वाकुकुलस्य सन्ततेः निदानं दोर्हदलक्षणं दधौ ।
उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
भावोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादरिनः स पायात् ॥
अथेति । अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम् । भावे क्तः । पुनः सखीजनस्योद्वीक्षणानां दृष्टानां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् । यद्वा कौमुदी नाम दीपोत्सवतिथिः । तदुक्तं भविष्योत्तरे — "कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति । तस्या मुखं प्रारम्भम् । 'सखीजनोद्वीक्षणकौमुदी' इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम् । 'निदानं त्वादिकारणम्' इत्यमरः । एवंविधं दोर्हदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ । स्वहृदयेन गर्भहृदयेन द्विहृदया गर्भिणी । यथाऽह वाग्भटः — "मातृजमस्य हृदयं मातुश्च हृदयेन तत् । सम्बद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्" । इति । तत्सम्बन्धित्वाद् गर्भो दोर्हदमित्युच्यते । सा च तद्योगाद्दोर्हदिनीति । तदुक्तं संग्रहे — 'द्विहृदयां नारीं दोर्हदिनी
७६ रघुवंशमहाकाव्ये
माचक्षते' इति। अत्र दोहद लक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन 'च निरूपणाद् रूपकालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्—"जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात्।
भावार्थ—इसके बाद सुदक्षिणाने प्रकटित लक्षणों वाले, स्वामी के अभीष्ट, सखियों के नेत्रों के आह्लादक, इक्ष्वाकुवंश की सन्तति के कारण भूत गर्भ के चिह्नों को धारण किया ॥ १ ॥
सम्प्रति क्षामताऽख्यं गर्भलक्षणं वर्णयति—
शरीरसादादसमग्रभूषणं मुखेन साऽलक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ २ ॥
अन्वयः—शरीरसादात् असमग्रभूषणा लोध्रपाण्डुना मुखेन ( उपलक्षिता ) सा, तनुप्रकाशेन शशिना ( उपलक्षता ) प्रभातकल्पा शर्वरी इव अलक्ष्यत् ।
शरीरेति । शरीरस्य सादात्कार्श्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पेणैव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। 'तसिलादिष्वाकृत्वसुचः' इति प्रभातशब्दस्य पुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः—"क्षमता गरिमा कुक्षेर्मूर्च्छा छदिररोचकम्। जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" ॥ इति ॥
भावार्थ—शरीर की कृशता के कारण अल्प भूषणोंवाली, लोध के फूल की तरह पीले मुख वाली वह (सुदक्षिणा) विरल नक्षत्रों वाली तथा अल्प कान्ति युक्त चन्द्रमा से उपलक्षित, प्रातःकाल के समीप वाली रात्रि के समान दिखाई पड़ने लगी ॥ २ ॥
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ ३ ॥
अन्वयः—क्षितीश्वरः रहसि मृत्सुरभि तदाननम् उपघ्राय, शुचिव्यपाये पयोमुचां पृषतैः सिक्तं वनराजिपल्वलम्(उपाघ्राय) करी इव तृप्ति न आययौ ।
तदिति । क्षितीश्वरो रहसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्ति नांययौ। कः कमिव। शुचिव्यपाये ग्रीष्मावसाने। शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि' इति विश्वः। पयोमुचां मेघानां पृषतैर्बिन्दुभिः। 'पृषन्ति बिन्दुपृषताः'
तृतीयः
तृतीयः द्वितीयः सर्गः ७७
इत्यमरः। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव। अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसन्धेयः। गर्भिणीनां मृद्भक्षणं लोकप्रसिद्धमेव। एतेन दोहदाख्यं गर्भलक्षणमुच्यते।
**भाषार्थ—**राजा दिलीप मिट्टी की गन्धवाले, रानी सुदक्षिणा के मुख को सूंघकर भी, ग्रीष्म के अन्त में मेघों की बूंदों से सींचे हुये वनमध्यगत छोटे तालाब को सूंघने वाले हाथी के समान तृप्ति को नहीं प्राप्त कर सका ॥ ३ ॥
दोहंदलक्षणे मृद्भक्षणे हेत्वन्तरमुत्प्रेक्षते—
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा ॥ ४ ॥
**अन्वयः—**हि दिगन्तविश्रान्तरथः तत्सुतः, मरुत्वान् दिवम् इव, भुवं भोक्ष्यते, अतः प्रथमं सा तथाविधे अभिलाषे अन्यरसान् विलङ्घ्य मनो बबन्ध।
दिवमिति। हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः। 'इन्द्रो मरुत्वान्मघवा' इत्यमरः। दिवं स्वर्गमिव भुवं भोक्ष्यते। 'भुजोऽनवने' इत्यात्मनेपदम्। अतः प्रथमं सा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे। इत्यभिलाषो भोज्यवस्तु तस्मिन्। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्त इति रसा भोग्यार्थाः अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध। विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते।
**भाषार्थ—**उस सुदक्षिणा का पुत्र, इन्द्र के द्वारा स्वर्ग की तरह इस पृथ्वी का उपभोग करेगा—इस कारण पहले उसने उस प्रकार की (मृद्भक्षणरूप) रुचि में अन्य रसों को छोड़कर मन लगाया ॥ ४ ॥
न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियसखीरुत्तरकोसलेश्वर ॥ ५ ॥
अन्वयः—'मागधी ह्रिया किंचित् ईप्सितं मे न शंसति, (अतः) केषु वस्तुषु स्पृहावती' इति अनुवेलम् आदृतः प्रियासखी उत्तरकोसलेश्वरः पृच्छति स्म।
नेति। मगधस्य राज्ञोऽपत्यं स्त्री मागधी सुदक्षिणा। 'द्व्यञ्मगधकलिङ्ग' इत्यण्प्रत्ययः। ह्रिया किञ्चित् किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आहतवान्। कर्तरि क्तः। आदतो सादराचितो' इत्यमरः। प्रियायाः सखी सहचरीरुत्तरकोसलेश्वरो दिलीपः। पृच्छति स्म पप्रच्छ। 'लट् स्मे' इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः।
भाषार्थ—'रानी लज्जा से कोई ईच्छा मुझसे नहीं कहती, (परन्तु) किन
७८ रघुवंशमहाकाव्ये
वस्तुओं में उनकी इच्छा रहती है ? यों बारम्बार रानी की प्यारी सखियों को राजा आदरपूर्वक पूछता था ॥ ५ ॥
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।
न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः ॥ ६ ॥
अन्वयः—सा दोहददुःखशीलताम् उपेत्य यद् एव वव्रे, तद् आहृतम् अपश्यद् । हि अधिज्यधन्वनः अस्य भूपतेः त्रिदिवेऽपि इष्टं अनासाद्यं न अभूत् ।
उपेत्येति । दोहदं गर्भिणीमनोरथः । 'दोहदं दोर्हृदं श्रद्धा लालसेन समं स्मृतम्' इति हलायुधः । सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावमुपेत्य प्राप्य यद्वस्तु वव्रे आचकांक्ष तदाहृतमानीतम् । भर्त्रेति शेषः । अपश्यदेव अलभतीत्यर्थः । कुतः । हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत् । किं याच्ञया ? नेत्याह-अधिज्यधन्वन इति । नहि वीरपत्नीनामलभ्यं नाम किंचिदस्तीति भावः । अत्र वाग्भटः—“पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिका” इति । एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसम्भवाद्, न तु राज्ञः प्रीतिलोल्यात् । तदुक्तम्-‘‘देयमप्यहितं तस्यै हितोपहितमल्पकम् । श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा’’ अन्यत्र च-‘‘दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।’’
भाषार्थ—गर्भिणी-मनोरथों से दुःख पाती हुई सुदक्षिणा जिस वस्तु की इच्छा करती थी वह वस्तु देखते ही देखते भूपति के द्वारा ला दी जाती थी; क्योंकि चढ़ी हुई प्रत्यञ्चायुक्त धनुषधारी राजा दिलीप को अभिलषित वस्तु स्वर्ग में दुर्लभ न थी ॥ ६ ॥
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा ।
पुराणपत्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा ॥ ७ ॥
अन्वयः—सा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा (सती) पुराणपत्रापगमात् अनन्तरं सन्नद्धमनोज्ञपल्लवा लता इव रराज ।
क्रमेणेति । सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती । पुराणपत्राणामपगमान्नाशादनन्तरं सन्नद्धाः सञ्जाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्या सा लतेव रराज ।
भाषार्थ—और वह सुदक्षिणा गर्भव्यथा को बिताकर पुष्ट अङ्गवाली होकर पुराने पत्तों के गिरजाने के बाद नवीन पत्तों से सुन्दर लता के समान सुशोभित हुई ॥ ७ ॥
तृतीयः सर्गः [७६]
लक्षणान्तरं वर्णयति— दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् ॥ ८ ॥
अन्वयः—दिनेषु गच्छत्सु ( सत्सु ) नितान्तपीवरम् आलीलमुखं तदीयं स्तनद्वयं भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियं तिरश्चकार ।
दिनेष्विति । दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम् । आसमन्तान्नीले मुखे चूचुके यस्य तत् । तदीयं स्तनद्वयम् । भ्रमरैरभिलीनयोराभ-व्यासयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार । अत्र वाग्भटः—"अम्लेष्टना स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ" इति ।
भाषार्थ—कुछ दिन बाद अतिस्थूल और नीले मुख वाले उस सुदक्षिणा के दोनों स्तनों ने भ्रमरों से व्याप्त सुन्दर कमल की कलियों की कान्ति को लजा दिया ॥ ८ ॥
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् । नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥ ९ ॥
अन्वयः—नृपः ससत्त्वां महिषीं निधानगर्भां सागराम्बराम् इव अभ्यन्तरलीनपावकां शमीम् इव अन्तःसलिलां सरस्वतीं नदीम् इव अमन्यत ।
निधानेति । नृपः ससत्त्वामापन्नसत्त्वां गर्भिणीमित्यर्थः । 'आपन्नसत्त्वा स्यात् गुर्विण्यन्तर्वत्नी च गर्भिणी' इत्यमरः । महिषीं, निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम् भूममिवेत्यर्थः । 'भूतधात्री रत्नगर्भा जगती सागराम्बरा' इति कोशः । अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव । शमीतरौ वह्निरस्तीत्यत्र लिङ्गं 'शमीगर्भादग्निं जनयती'ति । अन्तःसलिलामन्तर्गतजलां सरस्वतीं नदीमिव । अमन्यत । एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावनत्वानि विवक्षितानि ।
भाषार्थ—राजा ने गर्भवती सुदक्षिणा को रत्न रखने वाली पृथिवी के समान, अग्नि रखने वाले शमी वृक्ष के समान, अन्तर्जलस्थ सरस्वती नदी के समान माना ।
प्रियाऽनुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥ १० ॥
अन्वयः—धीरः सः प्रियानुरागस्य मनः समुन्नतेः भुजार्जितानां दिगन्तसम्पदां धृतेः च सदृशी च पुंसवनादिकाः क्रियाः यथाक्रमं व्यधत्त ।
प्रियेति । धीरः स राजा प्रियायामनुरागस्य मनसः समुन्नतेरौदार्यस्य भुजेन
८० रघुवंशमहाकाव्ये
भुजबलेन करेणावार्जितानां, न तु बाणिज्यादिना। दिगन्तेषु सम्पदां धृतेः 'पुत्रो मे भविष्यती'ति सन्तोषस्य च। 'धृतेर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः। सदृशीरनुरूपाः। पुमान्सूयतेऽनेनेति पुंसवनं तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। आदिशब्देनानवलोमनसीमन्तोन्नयने गृह्येते। अत्र 'मासि द्वितीये तृतीये वा पुंसवनं यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्' इति पारस्करः। "चतुर्थेऽनवलोमनम्" इत्याश्वलायनः। "षष्ठेऽष्टमे वा सीमन्तोन्नयनम्" इति याज्ञवल्क्यः।
भाषार्थ— उस राजा ने पत्नी के प्रेम और मनकी उदारता के अनुसार, अपने बाहुबल से उपार्जित दिगन्तरविख्यात ऐश्वर्य के अनुसार तथा भावी पुत्र के उत्पन्न होने के सन्तोष के अनुसार पुंसवनादि संस्कारों को क्रमशः किया ॥१०॥
सुरेन्द्रमात्राऽऽश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥ ११ ॥
अन्वयः— गृहागतः नृपः सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया उपचाराञ्जलिखिन्नहस्तया पारिप्लवनेत्रया तया ननन्द।
सुरेन्द्रेति। गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलीकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या। 'चञ्चलं तरलं चैव पारिप्लवपरिप्लवः' इत्यमरः। तया सुदक्षिणया ननन्द। 'सुरेन्द्रमात्राऽऽश्रित' इत्यत्र मनुः—“अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः” इति।
भाषार्थ— रनिवास में जाने पर राजा दिलीप अष्ट लोकपालों के अंशों को धारण किए हुए गर्भ के भारके कारण किसी तरह आसन छोड़ती हुई, प्रणाम करने के लिए अञ्जलि बाँधने में शिथिल हाथों वाली और चंचल नेत्रवाली रानी सुदक्षिणा से प्रसन्न होते थे ॥ ११ ॥
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥ १२ ॥
अन्वय— अथ कुमारभृत्याकुशलैः आप्तैः भिषग्भिः गर्भभर्मणि अनुष्ठिते (सति) पतिः प्रतीतः (सन्) काले प्रसवोन्मुखीं प्रियाम् अभ्रितां दिवम् इव ददर्श।
कुमारेति। अथ कुमारभृत्या बालचिकित्सा। 'संज्ञायां समजनिषद—'इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः। 'कृती कुशल इत्यपि, इत्यमरः। आप्तैर्हितैर्भिषग्भिर्वैद्यैः। 'भिषग्वैद्यो चिकित्सके' इत्यमरः। गर्भस्य भर्मणि। 'भरणे पोषणे भर्म' इति
तृतीयः सर्गः ८१
तृतीयः सर्गः ८१
हैमः । ‘भृतिर्भर्म’ इति शाश्वतः । भृतो मनिच्प्रत्ययः । ‘गर्भकर्मणि इति पाठे गर्भाधानप्रतीतावोचित्यभङ्गः । अनुष्ठिते कृते सति । काले दशमे मासि । अन्यत्र ग्रीष्मावसाने । प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवा- मित्यर्थः । ‘स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरः । प्रियां भार्याम् । अप्राण्यस्याः सञ्जातार्त्तवां ताम् । ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ इतो- तच्प्रत्ययः । दिवमिव । पतिर्भर्त्ता प्रतीतो हृष्टः सन् । ‘ख्याते हृष्टे प्रतीत:’ इत्यमरः । ददर्श दृष्टवान् ।
भाषार्थ—बाद में बालचिकित्सा में कुशल विश्वासपात्र वैद्यों से गर्भ की पुष्टि की जाने पर राजा दिलीप ने प्रसन्न हो दशवें मास में शीघ्र पुत्र जननेवाली सुद- क्षिणा को तत्काल बरसने वाले मेघों से व्याप्त आकाश की भांति देखा ॥ १९ ॥
ग्रह्रैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ १३ ॥
अन्वयः—ततः समये शचीसमा (सा) उच्चसंश्रयै असूर्यगैः पञ्चभिः ग्रहैः सूचितभाग्यसंपदं पुत्रं त्रिसाधना शक्तिः अक्षयम् अर्थम् इव असूत ।
ग्रहेरिति । ततः शच्येन्द्राण्या समा । ‘पुलोमजा शचीन्द्राणी’ इत्यमरः । सा सुदक्षिणा समये प्रसूतिक़ाले सति दशमे मासीत्यर्थः । ‘दशमे मासि जायते’ । इति श्रुतेः । उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद् यथा- सम्भवं पञ्चभिर्ग्रहैः सूचिता भाग्यसम्पद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्सा- हात्मकानि साधनान्द्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः । ‘शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजा’ इत्यमरः । अक्षयमर्थमिव । असूत । ‘षूङ् प्राणिगर्भविमो- चने’ इत्यात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्त्तरि लङ् । अत्रेद्मनुसंधेयम्— ‘अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः । दशशिखिमनु- युक्तिथीन्द्रियांशैस्त्रिनवविंशतिभिश्च तेज्ऽतनीचा’ ।। इति सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि स्वस्वतुङ्गा- पेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेस्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः । बन्त्रांश- स्त्रिंशो भागः । यथाऽऽह नारदः-“त्रिंशद्भागात्मकं लग्नम्” इति । सूर्यप्रत्या- सत्तिर्ग्रहाणामस्तमयो नाम। तदुक्तं लघुजातके-“रविणाऽतमयो योगो वियोग- स्तूदयो भवेत्” इति । ते च स्वोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः । तदुक्तं राजमृगाङ्के—‘‘स्वोच्चे पूर्णं” स्वक्षर्केऽद्धं सुहृद्भे पादं द्विभेऽल्पं शुभं खेचरेन्द्राः । नीचस्थायी नास्तगो वा न किञ्चित्पादं नूनं स्वत्रिकोणे ददाति” । इति
६ २० सम्पृ०
८२ | रघुवंशमहाकाव्ये
तदिदमाह कविरुच्चसंस्थैरसूर्यगैरिति च । एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति । तदुक्तं कूटस्थीये—"सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः । एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः" इति तदिदमाह पञ्चभिरिति ।
भाषार्थ—उसके बाद दशवें महीने में इन्द्राणी के समान रानी सुदक्षिणा ने उच्च स्थान में स्थित, सूर्य की समीपता से अस्त न हुए पाँच ग्रहों से सूचित भाग्यसम्पत्ति वाले पुत्रको प्रभाव, उत्साह और मन्त्र से उत्पन्न होने वाली शक्ति के द्वारा सम्पत्ति के समान उत्पन्न किया ॥ १३ ॥
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे ।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ १४ ॥
अन्वयः—तत्क्षणं दिशः प्रसेदुः, मरुतः सुखाः ववुः, अग्निः प्रदक्षिणार्चिः (सन्) हविः आददे । इत्थम् सर्वं शुभशंसि बभूव । हि तादृशां भवः लोकाभ्युदयाय भवति ।
दिश इति । तत्क्षणं तस्मिन् क्षणे । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । दिशः प्रसेदुः प्रसन्ना बभूवुः । मरुतो वाताः सुखा मनोहरा ववुः । अग्निः प्रदक्षिणार्चिः सन् हविराददे स्वीचकार । इत्थं सर्वं शुभशंसि शुभसूचकं बभूव । तथाहि । तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय । भवतीति शेषः । ततो देवा अपि सन्तुष्टा इत्यर्थः ।
भाषार्थ—उस समय दिशायें निर्मल हो गयीं, सुखदायक वायु बहने लगी, अग्नि प्रदक्षिणज्वाल से हवि लेने लगा । इस तरह सभी वस्तुयें मंगलसूचक हुईं । क्योंकि ऐसे लोगों का जन्म संसार के कल्याण के लिए होता है ॥ १४ ॥
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ १५ ॥
अन्वयः—अरिष्टशय्यां परितः विसारिणा सुजन्मनः तस्य निजेन तेजसा सहसा हतत्विषः निशीथदीपाः आलेख्यसमर्पिता इव बभूवुः ।
अरिष्टशय्यामिति । 'अरिष्टं सूतिकागृहम्' इत्यमरः । अरिष्टे सूतिकागृहे शय्यां तल्पं परितोऽभितः 'अभितः परितः समयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । विसारिणा सुजन्मनः शोभनोत्पत्तेः । 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्द्धरात्रप्रदीपाः । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः ।
तृतीयः सर्गः ८३
तृतीयः सर्गः ८३
नालेख्यसमर्पिताश्चित्रापिता इव बभूवुः । निशीथशब्दो दीपानां प्रभाऽऽधिक्य- सम्भावनार्थः । **भाषार्थ—**प्रसूतिगृह के चारों ओर फैलने वाले, सुन्दर जन्म लेने वाले उस बालक के स्वाभाविक तेज से एकाएक हतकान्ति होकर आधी रात के दीपक चित्र में लिखे हुए दीप के समान हो गए ॥ १५ ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम् । अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ॥ १६ ॥
**अन्वयः—**भूपतेः अमृतसम्मिताक्षरं कुमारजन्म शंसते शुद्धान्तचराय जनाय शशिप्रभं छत्रम् उभे चामरे च एतत् त्रयम् एव अदेयम् आसीत् ।
जनायेति । भूपतेर्दिलीपस्यामृतसम्मिताक्षरममृतसमानाक्षरम् । 'सरूपसमसम्मिता' इत्याह दण्डी । कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तः-पुरचारिणे जनाय त्रयमेवादेयमासीत् । तत् किं ? शशिप्रभमुज्ज्वलं छत्रम् । उभे चामरे च । छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ।
**भाषार्थ—**राजा दिलीप के लिए 'राजकुमार का जन्म हुआ' ऐसा अमृत के समान कहने वाले रनिवास के परिचारकों के लिए, चन्द्रिका के समान प्रभा वाले छत्र और दो राजचिह्न चामर ये तीन ही वस्तु न देने योग्य थी ॥ १६ ॥
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनात् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ १७ ॥
**अन्वयः—**निवातपद्मस्तिमितेन चक्षुषा कान्तं सुताननं पिबतः नृपस्य गुरुः प्रहर्षः इन्दुदर्शनात् महोदधेः पूरः इव आत्मनि न प्रबभूव ।
निवातेति । निवातो निर्वातप्रदेशः । 'निवातावाश्रयावातौ' इत्यमरः । तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुत्कटः प्रहर्षः (कर्त्ता) इन्दुदर्शनाद् गुरुर्महोदधेः पूरो जलोघ इव । आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक । अन्तर्न माति स्मेति यावत् । न ह्यल्पाधारेऽधिकं मीयत इति भावः । यद्वा हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव । आत्मानं नियन्तुं न शशाक । किन्तु वहिनिर्जगामेत्यर्थः ।
**भाषार्थ—**वायुरहित प्रदेश में स्थित कमल के समान निर्निमेष दृष्टि से सुन्दर पुत्र के मुख को देखते राजा दिलीप का महान् हर्ष चन्द्र के दर्शन से समुद्र के ज्वार के समान उनके शरीर में न समा सका ॥ १७ ॥
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ १८ ॥
८४ | रघुवंशमहाकाव्ये
अन्वयः— सः दिलीपसूनुः तपस्विना पुरोधसा तपोवनात् एत्य अखिले जातकर्मणि कृते (सति) आकरोद्भवः प्रयुक्तसंस्कारः मणि इव अधिकं बभौ।
स इति। दिलीपसूनुः। तपस्विना पुरोहितेन। 'पुरोधास्तु पुरोहितः' इत्यमरः। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य। अखिले समग्रे जातकर्मणि कर्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः। मणिरिव। अधिकं बभौ वसिष्ठमन्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः। अत्र मनुः—"प्राङ्नाभिवन्धनात्पुंसो जातकर्म विधीयते" इति।
भाषार्थ— वह राजा दिलीप का पुत्र तपस्वी पुरोहित वसिष्ठ जी द्वारा तपोवन से आकर सविधि जातकर्म संस्कार के किए जाने पर खान से निकले और सानपर चढ़ाकर पालिस की गई मणि के समान अधिक शोभित हुआ ॥ १८ ॥
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥ १९ ॥
अन्वयः— सुखश्रवाः मङ्गलतूर्यनिस्वनाः वारयोषितां प्रमोदनृत्यैः सह मागधीपतेः सद्मनि केवलं न व्यजृम्भन्त, किन्तु दिवौकसां पथि अपि (व्यजृम्भन्त)।
सुखेति। सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः श्रुतिसुखाः। मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः। प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृहे एव न व्यजृम्भन्त, किन्तु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः। तेषां पन्थाकाशेऽपि व्यजृम्भन्त। तस्य देवांशत्वाद देवोपकारित्वाच्च देवदुन्दुभयोऽपि नेदुरिति भावः।
भाषार्थ— कान को सुख देने वाले मङ्गल वाद्यों की आवाज वेश्याओं के आनन्दपूर्ण नाचों के साथ सुदक्षिणा के पति राजा दिलीप के राजमहल में ही नहीं, परन्तु आकाश में भी व्याप्त हो उठी ॥ १९ ॥
न संयतस्तस्य बभूव रक्षितुर्विभाजयेद्यं सुतजन्मवर्षितः।
ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥ २० ॥
अन्वयः— रक्षितः तस्य संयतः न बभूव सुतजन्मवर्षितः (सन्) यं विसर्जयेत् (किन्तु) तदा स पितॄणाम् ऋणाभिधानात् केवलं स्वयम् एव मुमुचे।
नेति। रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य। अत एव चौरायभावात् संयतो बद्धो न बभूव नाभूत्। किं तेनात आह—विसर्जयेदिति। सुतजन्मना
तृतीयः सर्गः ८५
तृतीयः सर्गः ८५
हर्षितस्तोषितः सन् यं बद्धं विसर्जयेद्विमोचयेत् । किन्तु स राजा तदा पितॄणा- मृणाभिधानाद्वन्धनात्केवलमेकं यथा तथा स्वयमेव । एक एवेत्यर्थः । 'केवलः कृत्स्न एकश्च केवलश्चावधीरितः' इति शाश्वतः । मुमुचे कर्मकर्त्तरि लिट् । स्वयमेव मुक्त इत्यर्थः । अस्मिन्नर्थे—'एष वा अनुणो यः पुत्री' इति श्रुतिः प्रमाणम् ।
भाषार्थ—उस रक्षक राजा दिलीप का कोई कैदी न था, जिसे पुत्रजन्म के उपलक्ष्य में प्रसन्न होकर छोड़ते, किन्तु पितृ के ऋणरूपी बन्धन से वे अकेले स्वयं मुक्त हुए ॥ २० ॥
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम् ॥ २१ ॥
अन्वयः—अर्थवित् पार्थिवः अयम् अर्भकः श्रुतस्य तथा च युधि परेषां अन्तँ यायात् इति धातोः गमनार्थम् अवेक्ष्य आत्मसम्भवं नाम्ना रघुं चकार ।
श्रुतस्येति । अर्थविच्छन्दार्थज्ञः पार्थिवः पृथ्वीश्वरो दिलीपः । अयमर्भको बालकः श्रुतस्य शास्त्रस्यान्तं पारं यायात् । तथा युधि परेषां शत्रूणामन्तं पारं च ययात् । यातुं शक्नुयादित्यर्थः । 'शाकि लिङ् च' इति शक्यार्थे लिङ् । इति हेतो- र्धातोः । 'अधिवधिलधिगत्यर्थाः' इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्या- लोच्य । आत्मसम्भवं पुत्रं नाम्ना रघुं चकार । 'लघिङ्बहोर्नलोपश्च' इत्युप्रत्यये 'वलमूललघ्वल मङ्गुलीनां वा लो रत्वमापद्यते' इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम् । अत्र शङ्खः—'आशौचे व्यतिक्रान्ते नामकर्म विधीयते' इति ।
भाषार्थ—अर्थ विशेषज्ञ राजा दिलीप ने 'यह बालक शास्त्र के अन्त तक जायगा और युद्ध में शत्रुओं को संहार करेगा' इस प्रकार लधि धातु को गमना- र्थक जानकर अपने पुत्र का नाम रघु रखा ॥ २१ ॥
पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ २२ ॥
अन्वयः—स समग्रसम्पदः पितुः प्रयत्नात् शुभैः शरीरावयवैः हरिदश्वदीधिते अनुप्रवेशात् बालचन्द्रमा इव दिने दिने वृद्धिं पुपोष ।
पितुरिति । स रघुः समग्रसम्पदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छु- भैर्मनोहरैः शरीरावयवैः । हरिदश्वदीधितेः सूर्यस्य रश्मेः । भास्वद्विवस्वत्सप्ता- श्वहरिदश्वोष्णरश्मयः' इत्यमरः । अनुप्रवेशाद्वा चन्द्रमा इव दिने दिने प्रति- दिनम् । 'नित्य वीप्सयोः' इति द्विर्वचनम् । वृद्धिं पुपोष । अत्र वराहसंहिता-
८६ रघुवंशमहाकाव्ये
बचनम्—“सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः” इति ।
भाषार्थ—वह बालक सम्पूर्ण सम्पत्ति वाले पिता राजा दिलीप के प्रयत्न से सुन्दर अङ्गों द्वारा सूर्य-किरणों के प्रवेश से बाल चन्द्रमा के समान प्रतिदिन बढ़ने लगा ।
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुरस्तसदृशेन तत्समौ ॥ २३ ॥
अन्वयः—उमावृषाङ्कौ शरजन्मना यथा शचीपुरन्दरौ जयन्तेन यथा तथा तत्समौ सा मागधी नृपः च तत्सदृशेन सुतेन ननन्दतुः ।
उमेति । उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कात्तिकेयेन । 'कात्तिकेयो महासेनः शरजन्मा षडाननः' इत्यमरः । यथा ननन्दतुः । शचीपुरन्दरौ जयन्तेन जयन्ताख्येन सुतेन । 'जयन्तः पाकशासनिः' इत्यमरः । यथा ननन्दतुः । तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरन्दराभ्यां च समौ समानौ मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः । मागधी प्राग्व्याख्याता ।
भाषार्थ—जिस प्रकार पार्वती और शिवजी कात्तिकेय से, इन्द्राणी और इन्द्र जयन्त से प्रसन्न हुए, उसी प्रकार उनके समान रानी और राजा रघुनामक पुत्र से प्रसन्न हुए ॥ २३ ॥
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ २४ ॥
अन्वयः—रथाङ्गनाम्नोः इव तयोः भावबन्धनं परस्पराश्रयं यत् प्रेम बभूव, तत् एकसुतेन विभक्तम् अपि परस्परस्य उपरि पर्यचीयत ।
रथाङ्गेति । रथाङ्गनाम्नो च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ 'पुमान्स्त्रिया' इत्येकशेषः । तयोरिव तयोर्दम्पत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा । 'एके मुख्यान्यकेवलाः' इत्यमरः । सुतेन विभक्तमपि परस्परस्योपरि पर्यचीयत बवृधे । कर्मकर्त्तरि लङ् । अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः । यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते । अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम सम्प्रति द्वितीयविषयलाभेऽपि नाहीयत । प्रत्युतोपचितमेवाभूदिति भावः ।
भाषार्थ—चकवा और चकई के समान सुदक्षिणा और दिलीप का हृदयाकर्षक पारस्परिक प्रेम एक पुत्रमे बँट जाने पर एक दूसरेके ऊपर बढ़ता गया ।
तृतीयः सर्गः
तृतीयः सर्गः ८७
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चांगुलिम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ २५ ॥
अन्वयः—स अर्भकः धात्र्या प्रथमोदितं वचः उवाच तदीयाम् अङ्गुलिम् अवलम्ब्य ययौ, प्रणिपातशिक्षया नम्रः अभूत्, च तेन पितुः मुदं ततान ।
उवाचेति । सोऽर्भकः शिशुः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । धात्र्योपमात्रा । 'धात्री जनन्यामलकी वसुमत्युपमातृषु' इति विश्वः । प्रथममुदितमुपदिष्टं वच उवाच । तदीयामङ्गुलिमवलम्ब्य ययौ च । प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूच्च । इति यत्तेन पितुर्मुदं ततान ।
भाषार्थ—वह बालक धाय से पहले सिखाये हुए वचन बोलने लगा, उसकी अंगुली पकड़कर चलने लगा और प्रणाम की शिक्षा से नम्र होने लगा, उससे राजा दिलीप के आनन्द को बढ़ाने लगा ॥ २५ ॥
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ २६ ॥
अन्वयः—शरीरयोगजै सुखैः त्वचि अमृतं निषिञ्चन्तम् इव तं अङ्कम् आरोप्य उपान्तसम्मिलितलोचनः नृपः चिरात् सुतस्पर्शरसज्ञतां ययौ ।
तमिति । शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ । रसः स्वादः ।
भाषार्थ—राजकुमार के शरीर के सम्पर्क से उत्पन्न आनन्द से स्पर्शन्द्रिय पर मानों अमृत बरसाते हुए उसको गोद में बैठाकर आँख बन्द-किए हुए राजा ने बहुत समय के बाद पुत्र के स्पर्श-सुख का अनुभव किया ॥ २६ ॥
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥२७॥
अन्वयः—स्थितेः च अभेत्ता ( दिलीपः ) परार्ध्यजन्मनां अन्वयं प्रजाना पतिः गुणाग्र्यवर्तिना स्वमूर्तिभेदेन आत्मनः सर्गम् इव स्थितिमन्तम् अमंस्त ।
अमंस्तेति । स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनाऽनेन रघुणाऽन्वयं वंशम् । प्रजानां पतिर्ब्रह्मा । गुणाः सत्त्वादयः । तेष्वग्र्येण मुख्येन सत्त्वेन वर्त्तते व्यापियत इति गुणाग्र्यवर्ती तेन । स्वस्य मूर्त्तिभेदेनावतारविशेषेण विष्णुनाऽऽत्मनः सर्गं सृष्टिमिव स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म । मन्यते-