भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 146, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 146

तृतीयः सर्गः ८७

उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चांगुलिम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ २५ ॥

अन्वयः—स अर्भकः धात्र्या प्रथमोदितं वचः उवाच तदीयाम् अङ्गुलिम् अवलम्ब्य ययौ, प्रणिपातशिक्षया नम्रः अभूत्, च तेन पितुः मुदं ततान ।

उवाचेति । सोऽर्भकः शिशुः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । धात्र्योपमात्रा । 'धात्री जनन्यामलकी वसुमत्युपमातृषु' इति विश्वः । प्रथममुदितमुपदिष्टं वच उवाच । तदीयामङ्गुलिमवलम्ब्य ययौ च । प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूच्च । इति यत्तेन पितुर्मुदं ततान ।

भाषार्थ—वह बालक धाय से पहले सिखाये हुए वचन बोलने लगा, उसकी अंगुली पकड़कर चलने लगा और प्रणाम की शिक्षा से नम्र होने लगा, उससे राजा दिलीप के आनन्द को बढ़ाने लगा ॥ २५ ॥

तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ २६ ॥

अन्वयः—शरीरयोगजै सुखैः त्वचि अमृतं निषिञ्चन्तम् इव तं अङ्कम् आरोप्य उपान्तसम्मिलितलोचनः नृपः चिरात् सुतस्पर्शरसज्ञतां ययौ ।

तमिति । शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ । रसः स्वादः ।

भाषार्थ—राजकुमार के शरीर के सम्पर्क से उत्पन्न आनन्द से स्पर्शन्द्रिय पर मानों अमृत बरसाते हुए उसको गोद में बैठाकर आँख बन्द-किए हुए राजा ने बहुत समय के बाद पुत्र के स्पर्श-सुख का अनुभव किया ॥ २६ ॥

अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥२७॥

अन्वयः—स्थितेः च अभेत्ता ( दिलीपः ) परार्ध्यजन्मनां अन्वयं प्रजाना पतिः गुणाग्र्यवर्तिना स्वमूर्तिभेदेन आत्मनः सर्गम् इव स्थितिमन्तम् अमंस्त ।

अमंस्तेति । स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनाऽनेन रघुणाऽन्वयं वंशम् । प्रजानां पतिर्ब्रह्मा । गुणाः सत्त्वादयः । तेष्वग्र्येण मुख्येन सत्त्वेन वर्त्तते व्यापियत इति गुणाग्र्यवर्ती तेन । स्वस्य मूर्त्तिभेदेनावतारविशेषेण विष्णुनाऽऽत्मनः सर्गं सृष्टिमिव स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म । मन्यते-