भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 147, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 147

८८ रघुवंशमहाकाव्ये

रनुदात्तत्वादिट्प्रतिषेधः। अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि। तत्र रघुपक्षे गुणा विद्याविनयादयः। 'गुणोऽप्रधाने रूपादो मौर्व्यां सूदे वृकोदरे। स्तम्बे सत्त्वादिसंख्यादिविद्याऽऽदिहरितादिषु ।।' इति विश्वः। शेषं सुगमम् ॥

**भाषार्थ—**और मर्यादापालक राजा दिलीप ने उत्कृष्ट जन्म वाले विद्यावि-नयादि गुणों से सम्पन्न, अपने शरीर से उत्पन्न इस रघु से अपने वंश को उसी प्रकार स्थिर माना जिस प्रकार बह्मा सत्त्वगुण प्रधान अपने अवतारभेद विष्णु से अपनी सृष्टि को प्रतिष्ठित मानते हैं ॥ २७ ॥

स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥ २८ ॥

अन्वयः— वृत्तचूलः सः चलकाकपक्षकैः सवयोभिः अमात्यपुत्रैः अन्वितः लिपेः यथावत् ग्रहणेन वाङ्मयं नदीमुखेन समुद्रम् इव आविशत् ।

स इति । "चूड़ाकार्यं द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात्" ॥ इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन् । डलयोरभेदः । स रघुः । "प्राप्ते तु पञ्चमे वर्षे विद्याऽऽरम्भं च कारयेत्" इति वचनात्पञ्चमे वर्षे । चलकाकपक्षकैश्चलशिखण्डकैः । 'बालानां तु शिखा प्रोक्ता काकपक्षकः शिखण्डकः' इति हलायुधः । सवयोभिः स्निग्धैः । 'वयस्यः स्निग्धः' इत्यमरः । अमात्यपुत्रैरन्वितः सन् लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम् । नद्या मुखं द्वारम् । 'मुखं तु वदने मुख्येारम्भे द्वाराभ्युपाययोः' इति यादवः । तेन कश्चिन्मकरादिः समुद्रमिव । आविशत्प्रविष्टः । ज्ञातवानित्यर्थः ।

**भाषार्थ—**चूडाकर्म के बाद वह रघु चञ्चल जुल्फों से युक्त समान अवस्था के मन्त्रियों के पुत्रों के साथ वर्णमाला का यथाविधि परिचय पाकर शब्दशास्त्र में प्रविष्ट हुआ, जिसप्रकार नदी के मुहाने से घड़ियाल आदि समुद्र में प्रवेश करते हैं।

अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥ २६ ॥

**अन्वयः—**अथ विधिवत् उपनीतं गुरुप्रियम् एवं विपश्चितो गुरवो विनिन्युः । ते अत्र अवन्ध्ययत्ना च बभूवुः । हि क्रिया वस्तूपहिता प्रसीदति ।

अथेति । "गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः ॥" इति मनुस्मरणादथ गर्भादेकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः । ते गुरवोऽत्रास्मिन् रघावबन्ध्य-