भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 164, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 164

चतुर्थः सर्गं १०५

मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ।
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ७० ॥

अन्वयः—अथ विषयव्यावृत्तात्मा सः यथाविधि यूने सूनवे नृपतिककुदं सितातपवारणं दत्त्वा तया देव्या सह मुनिवनतरुच्छायां शिश्रिये हि गलितवयसाम् इक्ष्वाकूणां इदं कुलव्रतम् ।

अथेति । अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् । 'ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि' इति विश्वः । सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः । तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोगोत्रापत्यानाम् । तद्राजसंज्ञकत्वादणो लुक् । इदं वनगमनं कुलव्रतम् । देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः—"सुतविन्यस्तपत्नीकस्तया वाऽनुंगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्" इति हरिणीवृत्तमेतत् । तदुक्तम्—"रसयुगहयैन्सौ म्रौ स्लो गो यदा हरिणी तदा" इति ।

भाषार्थ - इसके बाद विषयों से विरक्त होकर वे वृद्ध राजा दिलीप युवक पुत्र रघु को नियमानुसार श्वेतच्छत्रादि राज्यचिह्न दे रानी के साथ तपोवन चले गये, क्योंकि वृद्ध इक्ष्वाकुओं की यही कुलपरम्परा थी ॥ ७० ॥

त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्रिलिखित चन्द्रकला टीका में तृतीय सर्ग समाप्त ।


चतुर्थः सर्गः

अथ प्राप्तराज्यस्य राज्ञो रघोः कीदृशी शोभाऽऽसीदिति तामेवाह—

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १ ॥

अन्वयः—स गुरुणा दत्तं राज्यं दिनान्ते सवित्रा निहितं तेजः हुताशन इव प्रतिपद्य अधिकं बभौ ।

स इति । स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् । पुरोहितादित्वाद्यक् । प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं