रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 165, कुल 735 में से
संदर्भ में पढ़ें१०६ रघुवंशमहाकाव्ये
तेजः प्रतिपद्य हुताशनोऽग्निरिव । अधिकं बभौ । "सौरं तेजः सायमग्निं संक्रामते । आदित्यो वा अस्तं सन्नग्निमनुप्रविशति । अग्निं वा आदित्यः सायं प्रविशति" ऐत्यादिश्रुतिः प्रमाणम् ।
भावार्थ— वे रघु पिता द्वारा दिए हुए राज्य को पाकर सायंकाल में सूर्य से स्थापित तेज को पाए हुए अग्नि के समान अधिक शोभित हुए ॥ १ ॥
अथ रघो राज्येऽवस्थानं श्रुत्वा शत्रूणां हृदि सन्तापाधिक्यं बभूवेत्याह—
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥ २ ॥
अन्वयः— दिलीपानन्तरं राज्ये प्रतिष्ठितं तं निशम्य राज्ञां हृदये पूर्वं प्रधूमितः अग्निः उत्थितः इव ।
दिलीपेति । दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्य पूर्वं दिलीपकाले राज्ञां हृदये प्रकर्षेण धूमोऽस्य सञ्जातः प्रधूमितोऽग्निः सन्तापाग्निरुत्थित इव प्रज्वलित इव । पूर्वेभ्योऽधिकसन्तापोऽभूदित्यर्थः । राजकर्तृकस्यापि निशमनस्याग्नावुपचारान्न समानकर्तृकत्वविरोधः ।
भावार्थ— राजा दिलीप के बाद राज्य पर बैठे हुए उस रघु को सुनकर राजाओं के हृदय मे जलती हुई सन्तापाग्नि मानो धधकने लगी । २ ॥
अथ रघुं राज्येऽवस्थितं दृष्ट्वा सर्वा अपि प्रजाः प्रसन्ना बभूवुरित्याह—
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ ३ ॥
अन्वयः— पुरुहूतध्वजस्य इव तस्य नवाभ्युत्थानदर्शिन्यः उन्नयनपङ्क्तयः सप्रजाः प्रजाः ननन्दुः ।
पुरुहूतेति । पुरुहूतध्वजः । इन्द्रध्वजः । स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे—"एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर ! । पर्जन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः ।" इति । "चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम् । आहुः शक्रध्वजं नाम पौरलोकसुखावहम् ॥" इति । पुरुहूतध्वजस्येव तस्य रघोर्नवाभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः । ऊर्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससन्तानाः प्रजा जनाः । 'प्रजास्यात्सन्ततौ जने' इत्युभयत्राप्यमरः । ननन्दुः ।
भावार्थ— इन्द्र की पताका की तरह रघु के नवीन वैभव को देखने वाली, सन्तान सहित प्रजायें आनन्दित हुईं ॥ ३ ॥