भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 166, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 166

चतुर्थः सर्गः १०७

अथ रघुणा सिंहासनारोहणक्षणे एव शत्रुमण्डलमपि पदाक्रान्तमित्याह— सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४ ॥

**अन्वयः—**द्विरदगामिना तेन समम् एव द्वयं समाक्रान्तं पित्र्यं सिंहासनम् अखिलं अरिमण्डलं च ।

सममिति । द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामी तेन । ‘कर्तर्युपमाने’ इति ‘सुप्यजातो’ इति च णिनिः । तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम् । किं तद् द्वयम् । पितुरागतं पित्र्यम् । ‘पितुर्यत्’ इति यत्प्रत्ययः । सिंहासनम् अखिलमरीणां मण्डलं राष्ट्रं च ।

**भाषार्थ—**उस गजगामी रघु ने एक ही साथ पिता से प्राप्त सिंहासन और सम्पूर्ण शत्रुमण्डल दोनों को आक्रान्त किया ॥ ४ ॥

छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ५ ॥

**अन्वयः—**स्वयम् अदृश्या पद्मा छायामण्डललक्ष्येण पद्मातपत्रेण साम्राज्यदीक्षितं तं भेजे किल ।

छायेति । अत्र रघोस्तेजोविशेषेण स्वयं सन्निहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते । पद्मा लक्ष्मीः । ‘लक्ष्मीः पद्मालया पद्माः कमला श्रीर्हरिप्रिया’ इत्यमरः । सा स्वयमदृश्या किल । किलेति सम्भावनायाम् । सती । छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन न तु स्वरूपतो दृश्येन । छायामण्डलमित्यनेनातपज्ञानं लक्ष्यते । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्युभयत्राप्यमरः । पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे । अन्यथा कथमेतादृशी कान्तिसम्पत्तिरिति भावः ।

**भाषार्थ—**स्वयं अप्रकट हुई लक्ष्मी, कान्तिमण्डल से अनुमित कमलरूपी छत्र से साम्राज्य पर अभिषिक्त रघु की सेवा करने लगी ॥ ५ ॥

परिकल्पितसान्निध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ६ ॥

**अन्वयः—**सरस्वती च काले काले वन्दिषु परिकल्पितसान्निध्या स्तुत्यं ( तम् ) अर्थ्याभिः स्तुतिभिः उपतस्थे ।

परिकल्पितेति । सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु । ‘नित्यवी-