रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 166, कुल 735 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः १०७
अथ रघुणा सिंहासनारोहणक्षणे एव शत्रुमण्डलमपि पदाक्रान्तमित्याह— सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४ ॥
**अन्वयः—**द्विरदगामिना तेन समम् एव द्वयं समाक्रान्तं पित्र्यं सिंहासनम् अखिलं अरिमण्डलं च ।
सममिति । द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामी तेन । ‘कर्तर्युपमाने’ इति ‘सुप्यजातो’ इति च णिनिः । तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम् । किं तद् द्वयम् । पितुरागतं पित्र्यम् । ‘पितुर्यत्’ इति यत्प्रत्ययः । सिंहासनम् अखिलमरीणां मण्डलं राष्ट्रं च ।
**भाषार्थ—**उस गजगामी रघु ने एक ही साथ पिता से प्राप्त सिंहासन और सम्पूर्ण शत्रुमण्डल दोनों को आक्रान्त किया ॥ ४ ॥
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ५ ॥
**अन्वयः—**स्वयम् अदृश्या पद्मा छायामण्डललक्ष्येण पद्मातपत्रेण साम्राज्यदीक्षितं तं भेजे किल ।
छायेति । अत्र रघोस्तेजोविशेषेण स्वयं सन्निहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते । पद्मा लक्ष्मीः । ‘लक्ष्मीः पद्मालया पद्माः कमला श्रीर्हरिप्रिया’ इत्यमरः । सा स्वयमदृश्या किल । किलेति सम्भावनायाम् । सती । छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन न तु स्वरूपतो दृश्येन । छायामण्डलमित्यनेनातपज्ञानं लक्ष्यते । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्युभयत्राप्यमरः । पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे । अन्यथा कथमेतादृशी कान्तिसम्पत्तिरिति भावः ।
**भाषार्थ—**स्वयं अप्रकट हुई लक्ष्मी, कान्तिमण्डल से अनुमित कमलरूपी छत्र से साम्राज्य पर अभिषिक्त रघु की सेवा करने लगी ॥ ५ ॥
परिकल्पितसान्निध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ६ ॥
**अन्वयः—**सरस्वती च काले काले वन्दिषु परिकल्पितसान्निध्या स्तुत्यं ( तम् ) अर्थ्याभिः स्तुतिभिः उपतस्थे ।
परिकल्पितेति । सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु । ‘नित्यवी-