भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 168, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 168

चतुर्थः सर्गः १०९

**अन्वयः—**गुणाधिकतया तेन प्रजाः गुरौ सहकारस्य फलेन पुष्पोद्गमे इव मन्दोत्कण्ठाः कृताः ।

मन्देति । तेन रघुणा प्रजा गुरौ दिलीपेविषये । सहकारोऽतिसौरभश्चूतः 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तस्य फलेन पुष्पोद्गमे पुष्पोदय इव ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पोत्सुक्याः कृताः । गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः ।

**भाषार्थ—**गुण की अधिकता से उस रघु ने प्रजा को अपने पिता के बारे में अल्पोत्सुक्य बना दिया, जैसे आम का फल जनता को बौर के विषय में मन्द उत्कण्ठा वाला बना देता है ॥ ९ ॥

नयविद्भिर्नवे राज्ञि सदसच्चनोपदर्शितम् ।
पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ १० ॥

**अन्वयः—**नयविद्भिः नवे राज्ञि सत् असत् च उपदर्शितम्, तस्मिन् पूर्वं एव पक्ष अभवत्, न उत्तरः ।

नयेति । नयविद्भिर्नीतिशास्त्रज्ञैर्नवे तस्मिन् राज्ञि विषये । तमधिकृत्येत्यर्थः । सद्धर्मयुद्धादिकमसत्कूटयुद्धादिकं चोपदर्शितम् । तस्मिन् राज्ञि पूर्वः पक्ष एवाभवत् । संक्रान्त इत्यर्थ । इतरः पक्षो नाभवत् । न संक्रान्त इत्यर्थः । तत्र सदसतोर्मध्ये सदेवाभिमतं नासत् । तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः । पक्षः साधनयोग्यार्थः । 'पक्ष पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति केशवः ।

**भाषार्थ—**नीतिविशारदों ने महाराज रघु के प्रति धर्म और अधर्म दिखलाया किन्तु उस रघु में पहिला ही पक्ष ग्राह्य हुआ दूसरा नहीं ॥ १० ॥

पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ११ ॥

**अन्वयः—**पञ्चानाम् अपि भूतानां गुणाः उत्कर्षं पुपुषुः तस्मिन् नवे महीपाले सर्वं नवम् इव अभवत् ।

पञ्चानामिति । पृथिव्यादीनां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः । अत्रोत्प्रेक्षते—तस्मिन् रघो नाम नवे महीपाले सर्वं वस्तुजातं नवमिवाभवत् । तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ।

**भाषार्थ—**पृथ्वी आदि पञ्च महाभूतों के भी गन्ध आदि गुण अत्यन्त पुष्ट हुए । उस नवीन महाराज के राजा होने पर सब वस्तु मानो नई सी हुई ॥ ११॥