रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 170, कुल 735 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः | १११
मानव्यवस्थापनम्। साम्यं लिङ्गेषु दानवृत्तिकरणं त्यागं समानेऽर्चनं, कार्याण्येव महीभुजां प्रशमनान्येनानि राज्ये नवे।।”
**भाषार्थ—**उसके बाद प्राप्त राज्य की यथोचित व्यवस्था करने से शान्त-चित्त उस रघु को कमलचिह्न वाली शरद्ऋतु दूसरी राज्यलक्ष्मी के समान उपस्थित हुई ॥ १४ ॥
निवृष्टलघुभिर्मेघैर्मुक्तावर्त्मा सुदुःसहः ।
प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥ १५ ॥
**अन्वयः—**तस्य भानोः च निवृष्टलघुभिः मेघैः मुक्तवर्त्मा सुदुःसहः प्रतापः युगपत् दिशः व्यानशे ।
निवृष्टेति । निःशेषं वृष्ट्वा निर्वृष्टाः । कर्तरि क्तः । अत एव लघवः । तैर्मेघैर्मुक्तवर्त्मेत्यक्तमार्गः । अत एव सुदुःसहः । तस्य रघोर्भानोश्च प्रतापः पौरुषमातपश्च । 'प्रतापो पौरुषातपौ' इति यादवः । युगपद् दिशो व्यानशे व्याप ।
**भाषार्थ—**उसके और पानी बरसा चुकने से हल्के हुए बादलों से राह छोड़े हुए अत्यन्त दुःसह सूर्य के प्रताप ने एक साथ ही दिशाओं को व्याप्त कर लिया ॥ १५ ॥
वार्षिकं संजहारेन्द्रो धनुजैत्रं रघुर्दधौ ।
प्रजार्थसाधने तो हि पर्यायोद्यतकार्मुकौ ॥ १६ ॥
**अन्वयः—**इन्द्रः वार्षिकं धनुः सञ्जहार, रघुः जैत्रं (धनुः) दधौ, तौ हि प्रजार्थसाधने पर्यायोद्यतकार्मुकौ ।
वार्षिकमिति । इन्द्रः । वर्षाषु भवं वार्षिकम् । वर्षानिमित्तमित्यर्थः । 'वर्षाभ्यष्ठक्' इति ठक्प्रत्ययः । धनुः संजहार । रघुजैत्रं जयशीलम् । जेतृशब्दात्तन्नन्तात् 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । धनुर्दधौ । हि यस्मात्ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य वृष्टिविजयलक्षणस्य साधनविषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ । 'पर्यायोद्यमविश्रमौ' इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तो पर्यायोद्यमविश्रमौ । द्वयोः पर्यायकरणादक्लेश इति भावः ।
**भाषार्थ—**इन्द्र ने वर्षा वाले धनुष को रख दिया रघु ने विजय शील धनुष उठाया, वे दोनों प्रजा के कार्य साधन में बारी-बारी से धनुर्धारी हुए ॥ १६ ॥
पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ १७॥
**अन्वयः—**पुण्डरीकातपत्रः विकसत्काशचामरः ऋतुः तं विडम्बयामास, तच्छ्रियं पुनः न प्राप ।