रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 202, कुल 735 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः १४३
सर्वत्र नो वातमवेहि राजन्नाये कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ १३ ॥ अन्वयः—राजन् सर्वत्र नः वार्तम् अवेहि, त्वयि नाथ सति प्रजानाम् अशुभम् कुतः ? सूर्ये तपति सति तमिस्रा लोकस्य दृष्टेः आवरणाय कथम् कल्पेत । सर्वत्रेति । हे राजन् ! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि 'वार्तं वलगुन्यरोगे च' इत्यमरः । वार्तं पाटवमारोग्यं भव्य स्वास्थ्य मनामयम् इति यादवः । न चेदाश्चर्यमित्याह—नाथ इति । त्वयि नाथे ईश्वरे सति प्रजानामशुभं दुःखं कुतः ? तथाहि सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः । 'तमिस्रम्' इति पाठे तिमिरम् । लोकस्य जनस्य । दृष्टेरावरणाय कथं कल्पेत ? दृष्टिमावरितुं नालमित्यर्थः । भाषार्थ—हे राजन् ! आप हमारी सब प्रकार से कुशल समझें, आप जैसे राजा के रहने पर प्रजा का अकुशल कैसे हो सकता है ? यतः सूर्य के प्रकाशमान रहते अन्धकार किसी की दृष्टि को ढक सकता है ! ॥ १३ ॥
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयातिशेषे । व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ १४ ॥ अन्वयः—प्रतीक्ष्येषु भक्तिः ते कुलोचिता, महाभाग तथा पूर्वान् अतिशेषे तु अहम् व्यतीतकालः सन् अर्थिभावात् त्वाम् अभ्युपेतः इति मे विषादः अस्ति । भक्तिरिति । प्रतीक्ष्येषु.पूज्येषु । भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता । हे महाभाग ! सार्वभौम ! तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे । अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः । भाषार्थ—पूज्यजनों में भक्ति रखना आपकी कुलपरम्परा है, अतः आप में यह गुण अपने पूर्वजों से भी अधिक है। किन्तु इसका मुझे अत्यन्त दुःख है कि मैं समय बीतने पर आया ॥ १४ ॥
शरीरमात्रेण नरेन्द्र ! तिष्ठन्नाभासि तीर्थप्रतिपादितद्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ १५ ॥ अन्वयः—नरेन्द्र ! तीर्थप्रतिपादितर्द्धिः त्वम् शरीरमात्रेण तिष्ठन् आरण्यकोपात्तफलप्रसूतिः स्तम्बेन अवशिष्टः नीवार इव आभासि । शरीरेति । हे नरेन्द्र ! तीर्थे सत्पात्रे प्रतिपादिता दत्ता ऋद्धियेन स तथोक्तः । शरीरमात्रेण तिष्ठन् । आरण्यका अरण्ये भवा मनुष्या मनुष्यप्रमुखाः । तैरूपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः नीवार इव । आभासि शोभसे ।