भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 203, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 203

१४४ रघुवंशमहाकाव्ये

भाषार्थ—हे राजन् ! यज्ञ में सर्वस्व दे देने के कारण शरीरमात्र से स्थित आप वैसे ही लग रहे हैं जैसे वनवासियों द्वारा फल तोड़ लिए जाने पर डण्ठल-मात्र शेष नीवार धान्य हो ॥ १५ ॥

स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ १६ ॥

अन्वयः—भवान् एकनराधिपः सन् मखजम् अकिञ्चनत्वम् यत् व्यनक्ति तत् स्थाने । हि सुरैः पर्यायपीतस्य हिमांशोः कलाक्षयः वृद्धेः श्लाघ्यतरः भवति ।

स्थान इति । भवानेकनराधिपः सार्वभौमः सन् । मखजं मखजन्यम् । न विद्यते किंचन यस्येत्यकिञ्चनः । तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति । स्थाने युक्तम् । तथाहि सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु ।

भाषार्थ—आप अद्वितीय चक्रवर्ती होते हुए भी यज्ञ में सर्वस्व दान कर देने से उत्पन्न निर्धनता को प्रकट कर रहे हैं, यह उचित ही है, क्यों देवताओं द्वारा क्रम से पीये गये चन्द्रमा का कलाक्षय वृद्धि की अपेक्षा अधिक प्रशंसनीय होता है ।

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥ १७ ॥

अन्वयः—तत् तावत् अनन्यकार्यः अहम् अन्यतः गुर्वर्थम् आहर्तुम् यतिष्ये, ते स्वस्ति अस्तु, चातकः अपि निर्गलिताम्बुगर्भम् शरद् घनम् न अर्दति ।

तदिति । तत्तस्मात्तावदनन्यकार्यः । प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद् गुर्वर्थं गुरुधनमाहर्तुमर्जयितुं यतिष्ये उद्योक्ष्ये । ते तुभ्यं स्वस्ति शुभमस्तु । तथाहि–चातकोऽपि निर्गलितोऽम्बेव गर्भो यस्य तं शरद्घनं नार्दति न याचते ।

भाषार्थ—हे राजन् ! गुरुदक्षिणातिरिक्त दूसरा कोई प्रयोजन न रखनेवाला मैं अन्य दाता से गुरुदक्षिणा की प्राप्ति का प्रयत्न करूँगा, क्योंकि चातक पक्षी भी जल रहित मेघ से जल की याचना नहीं करता । आपका कल्याण हो ॥ १७ ॥

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन् ! गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ १८ ॥

अन्वयः—एतावत् भक्त्या प्रतियातुकामम् महर्षेः नृपतिः निषिध्य 'हे विद्वन् त्वया गुरवे प्रदेयम् वस्तु किम् कियत् वा' इति तम् अन्वयुङ्क्त ।

एतावदिति । एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् । महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य । हे विद्वन् ! त्वया