रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 204, कुल 735 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः १४५
गुरवे प्रदेयं वस्तु किं किमात्मकं, कियत् किंपरिमाणं वा । इत्येवं तं कौत्समन्वयुङ्क्तापृच्छत् ।
भाषार्थं— ऐसा कह गमनेच्छु कौत्स को रघु ने रोककर पूछा कि हे विद्वन् ! आपको गुरुदक्षिणा में क्या वस्तु देनी है और कितनी देनी है ॥ १८ ॥
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९ ॥
अन्वयः— यथावत् विहिताध्वराय स्मयावेशविवर्जिताय वर्णाश्रमाणां गुरवे तस्मै विचक्षणः वर्णी सः प्रस्तुतम् आचचक्षे ।
तत इति । ततो यथावद्यथार्हम् । विहिताध्वराय विधिवदनुष्ठितयज्ञाय । सदाचारायेत्यर्थः । स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय । अनुद्धतायेत्यर्थः । वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय । सर्वकार्य-निर्वाहकायेत्यर्थः । तस्मै रघवे विद्वान्वर्णी ब्रह्मचारी । स कौत्सः प्रस्तुतं प्रकृतमा-चचक्षे ।
भाषार्थं— उसके बाद शास्त्रानुसार यज्ञ करनेवाले निरहंकार रघु से ब्रह्म-चारी कौत्स ने प्रकृत विषय कहा ॥ १९ ॥
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद् गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २० ॥
अन्वयः— समाप्तविद्येन मया महर्षिः गुरुदक्षिणायै विज्ञापितः अभूत्, स च चिराय अस्खलितोपचारां ताम् भक्तिम् एव पुरस्तात् अगणयत् ।
समाप्तेति । समाप्तविद्येन मया महर्षिर्वरतन्तुर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत् । स च गुरुश्चिरायास्खलितोपचारां तां दुष्करा मे भक्तिमेव पुरस्ता-त्प्रथममगणयत्संख्यातवान् । भक्त्यैव सन्तुष्टः किं दक्षिणयेत्युक्तवानित्यर्थः ।
भाषार्थं— समस्त विद्याओं को पढ़ लेने पर मैंने महर्षि वरतन्तु से जब गुरु-दक्षिणा लेने की प्रार्थना की तब उन्होंने बहुत दिनों तक नियमपूर्वक मेरे द्वारा की गयी गुरु-सेवा को ही श्रेष्ठ दक्षिणा समझा ॥ २० ॥
निबन्धसञ्जातरुषाऽर्थकार्श्यंमचिन्तयित्वा गुरुणाऽहमुक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१ ॥
अन्वयः— निर्बन्धसंजातरुषा गुरुणा अर्थकार्श्यम् अचिन्तयित्वा अहम् 'वित्तस्य चतस्रः दश च कोटीः मे आहर' इति विद्यापरिसंख्यया उक्तः ।
निबन्धेति । निर्बन्धेन प्रार्थनाऽतिशयेन सञ्जातरुषा सञ्जातक्रोधेन गुरुणा ।
१० र० सम्पू०