रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पञ्चमः सर्गः १४५
गुरवे प्रदेयं वस्तु किं किमात्मकं, कियत् किंपरिमाणं वा । इत्येवं तं कौत्समन्वयुङ्क्तापृच्छत् ।
भाषार्थं— ऐसा कह गमनेच्छु कौत्स को रघु ने रोककर पूछा कि हे विद्वन् ! आपको गुरुदक्षिणा में क्या वस्तु देनी है और कितनी देनी है ॥ १८ ॥
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९ ॥
अन्वयः— यथावत् विहिताध्वराय स्मयावेशविवर्जिताय वर्णाश्रमाणां गुरवे तस्मै विचक्षणः वर्णी सः प्रस्तुतम् आचचक्षे ।
तत इति । ततो यथावद्यथार्हम् । विहिताध्वराय विधिवदनुष्ठितयज्ञाय । सदाचारायेत्यर्थः । स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय । अनुद्धतायेत्यर्थः । वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय । सर्वकार्य-निर्वाहकायेत्यर्थः । तस्मै रघवे विद्वान्वर्णी ब्रह्मचारी । स कौत्सः प्रस्तुतं प्रकृतमा-चचक्षे ।
भाषार्थं— उसके बाद शास्त्रानुसार यज्ञ करनेवाले निरहंकार रघु से ब्रह्म-चारी कौत्स ने प्रकृत विषय कहा ॥ १९ ॥
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद् गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २० ॥
अन्वयः— समाप्तविद्येन मया महर्षिः गुरुदक्षिणायै विज्ञापितः अभूत्, स च चिराय अस्खलितोपचारां ताम् भक्तिम् एव पुरस्तात् अगणयत् ।
समाप्तेति । समाप्तविद्येन मया महर्षिर्वरतन्तुर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत् । स च गुरुश्चिरायास्खलितोपचारां तां दुष्करा मे भक्तिमेव पुरस्ता-त्प्रथममगणयत्संख्यातवान् । भक्त्यैव सन्तुष्टः किं दक्षिणयेत्युक्तवानित्यर्थः ।
भाषार्थं— समस्त विद्याओं को पढ़ लेने पर मैंने महर्षि वरतन्तु से जब गुरु-दक्षिणा लेने की प्रार्थना की तब उन्होंने बहुत दिनों तक नियमपूर्वक मेरे द्वारा की गयी गुरु-सेवा को ही श्रेष्ठ दक्षिणा समझा ॥ २० ॥
निबन्धसञ्जातरुषाऽर्थकार्श्यंमचिन्तयित्वा गुरुणाऽहमुक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१ ॥
अन्वयः— निर्बन्धसंजातरुषा गुरुणा अर्थकार्श्यम् अचिन्तयित्वा अहम् 'वित्तस्य चतस्रः दश च कोटीः मे आहर' इति विद्यापरिसंख्यया उक्तः ।
निबन्धेति । निर्बन्धेन प्रार्थनाऽतिशयेन सञ्जातरुषा सञ्जातक्रोधेन गुरुणा ।
१० र० सम्पू०
१४६ | रघुवंशमहाकाव्ये
मर्थकार्श्यं दारिद्र्यमचिन्तयित्वाऽविचार्याहम्। वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्मे मह्यमाहरानयेति विद्यापरिसंख्ययाऽनुसारेणैवोक्तः।
भावार्थ—बार-बार गुरुदक्षिणा के लिए आग्रह करने पर क्रुद्ध गुरु ने मेरी दरिद्रता पर ध्यान न दे कहा कि १४ विद्याओं के लिए १४ करोड़ द्रव्य लाकर दो ॥ २१ ॥
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम्।
अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ २२ ॥
अन्वयः—सः अहम् सपर्याविधिभाजनेन भवन्तम् प्रभुशब्दशेषम् मत्वा श्रुतनिष्क्रयस्य अल्पेतरत्वात् सम्प्रति उपरोद्धुमन् अभ्युत्सहे।
सोऽहमिति। सोऽहं सपर्याविधिभाजनेनार्घ्यपात्रेण भवन्तं प्रभुशब्द एव शेषो यस्य तं मत्वा श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्त्वात्सम्प्रत्युपरोद्धुं निर्बन्धुं नाभ्युत्सहे।
भाषार्थ—पूजा में मृण्मय अर्घ्यपात्र के द्वारा ही आपको सर्वथा निर्धन जान कर गुरुदक्षिणा की अधिकता से अब आपसे कुछ कहने का साहस नहीं है। आप तो अब नाममात्र से सम्राट् हैं ॥ २२ ॥
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ २३ ॥
अन्वयः—द्विजराजकान्तिः एनोनिवृत्तेन्द्रियवृत्तिः जगदेकनाथः वेदविदाम् वरेण द्विजेन इत्थम् आवेदितः सन् एनम् भूयः जगाद।
इत्थमिति। द्विजराजकान्तिश्चन्द्रकान्तिः। एनसः पापात्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेनेत्थमावेदितः सन् एनं कौत्सं भूयः पुनर्जगाद।
भाषार्थ—चन्द्रसमकान्ति निष्पाप, संसार के एकमात्र, स्वामी रघु कौत्स के यों कहने पर फिर बोले ॥ २३ ॥
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्।
गतो वदान्यान्तरमित्ययं मे माभूत्परीवादनवावतार ॥ २४ ॥
अन्वयः—'श्रुतपारदृश्वा गुर्वर्थम् अर्थी रघोः सकाशात् कामम् अनवाप्य वदान्यान्तरम् गतः' इति अयम् मे परीवादनवावतारः मा भूत्।
गुर्वर्थमिति। श्रुतस्य पारं दृष्टवाञ्छ्रुतपारदृश्वा। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। रघोः सकाशात्कामं मनोरथममवाप्याप्राप्य वदान्यान्तरं दात्रन्तरं
गतः' इत्येवंरूपोऽयं परीवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु।
भाषार्थ—हे कौत्स ! 'सकलशास्त्रपारङ्गत गुरुदक्षिणाय चक, रघु के पास मनोरथ पूर्ण न होने पर दूसरे दाता के पास गये' यह निन्दा का नया अवतार न हो ॥ २४ ॥
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ २५ ॥
अन्वयः—सः त्वम् महिते प्रशस्ते मदीये अग्न्यगारे चतुर्थः अग्नि इव वसन् द्वित्राणि अहानि सोढुम् अर्हसि अहं तावत् त्वदर्थम् साधयितुम् यते ।
स इति। स त्वं महिने पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन्द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि सोढुमर्हसि। हे अर्हन् ! मान्य ! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते ।
भाषार्थ—अतः मेरी परम पवित्र अग्निशाला में चतुर्थ अग्नि के समान दो या तीन दिन निवास करें, जब तक मैं आपकी कार्यसिद्धि के लिए प्रयत्न करूँ ॥ २५ ॥
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्सङ्गरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६ ॥
अन्वयः—अग्रजन्मा प्रतीतः सन् तस्य अवितथम् सङ्गरम् इति प्रत्यग्रहीत्, तथा रघु अपि गाम् आत्तसाराम् अवेक्ष्य कुबेरात् अर्थम् निष्क्रष्टुम् चकमे ।
तथेतीति । अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः संस्तस्य रघोरवितथममोघं सङ्गरं प्रतिज्ञाम् । 'तां गिरम्' इति केचित्पठन्ति । तथेति प्रत्यग्रहीत् । रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुवेरार्थं निष्क्रष्टुमाहर्तुं चकम इयेष ।
भाषार्थ—ब्राह्मण कौत्स ने प्रसन्न हो रघु की अव्यर्थ प्रतिज्ञा को स्वीकार किया। इधर महाराज रघु ने भी पृथ्वी को सारहीन समझ कुबेर से धन लेने की इच्छा की । २६ ॥
वसिष्ठमन्त्रोक्षणजातप्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने नहि तद्रथस्य ॥ २७ ॥
अन्वयः—वसिष्ठमन्त्रोक्षणजात् प्रभावात् उदन्वदाकाशमहीधरेषु मरुत्सखस्य बलाहकस्य इव तद्रथस्य गतिः न हि विजघ्ने ।
१४८ रघुवंशमहाकाव्ये
वसिष्ठेनेति। वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जातप्रभावात्सामर्थ्याद्धेतोः। उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा। मरुत्सखस्य मरुतः सखेति तत्पुरुषः ; ततो वायुसहायस्येति लभ्यते। वारीणां वाहको बलाहकः तस्येव मेघस्येव। तद्रथस्य गतिः सञ्चारो न विजघ्ने न विहता हि।
**भाषार्थ—**जैसे वायु की सहायता से मेघ की गति सर्वत्र हो जाती है वैसे ही महर्षि वसिष्ठ के मन्त्रों से अभिमन्त्रित जल के प्रोक्षण से उत्पन्न सामर्थ्य से महाराज रघु की गति भी कहीं भी नहीं रुकती थी ॥ २७ ॥
अथाधिशिश्ये प्रयततः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ २८ ॥
**अन्वयः—**अथ प्रदोषे प्रयत: वीर रघुः सामन्तसम्भावनया एव कैलाशनाथम् तरसा जिगीषुः सन् कल्पितशस्त्रगर्भम् रथम् अधिशिश्ये।
अथेति। अथ प्रदोषे रजनीमुखे। तत्काले यानाधिरोहणविधानात्। प्रयतो धीरो रघुः। समन्ताद्भवः सामन्तः। राजमात्रमिति सम्भावनयैव कैलासनाथं कुबेरं तरसा बलेन जिगीषुर्जेतुमिच्छुः सन्। कल्पितं सज्जितं शस्त्रं गर्भे यस्य तं रथमधिशिश्ये। रथे शयितवानित्यर्थः।
**भाषार्थ—**इसके बाद धैर्यशाली रघु साधारण राजा के समान तैयार हो कुबेर को जीतने की इच्छा से शुभ मुहूर्त होने के कारण सायंकाल में ही सशस्त्र रथ में सो गये ॥ २८ ॥
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः ।
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ २६ ॥
**अन्वयः—**प्रातः प्रयाणाभिमुखाय तस्मै कोषगृहे नियुक्ताः जनाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तः पतिताम् हिरण्मयीम् वृष्टिम् शशंसुः।
प्रातरिति। प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः पतितां हिरण्मयीं सुवर्णमयीम्। वृष्टिं शशंसुः कथयामासुः।
**भाषार्थ—**प्रातःकाल राजा रघु प्रस्थान के लिए ज्यों ही उद्यत हुए, त्यों ही आश्चर्यचकित राजकोश रक्षकों ने सूचना दी कि कोशगृह में आकाश से सुवर्ण की वर्षा हुई है ॥ २९ ॥
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ३० ॥
पंचमः सर्गः १४९
अन्वयः—भूपतिः अभियास्यमानात् कुबेरात् लब्धम् वज्रभिन्नम् सुमेरोः पा- दम् इव स्थितम् तम् भासुरहेमराशिम् समस्तम् एव कौत्साय दिदेश ।
तमिति । भूपतिः रघुः । अभियास्यमानादभिगमिष्यमाणात्कुबेराल्लब्धम् । कुलिशेन सुमेरोः पादं प्रत्यन्तपर्वतमिव स्थितम् । 'शृङ्गम्' इति क्वचित्पाठः । तं भासुरं भास्वरम् । हेमराशि समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ ।
भाषार्थ — युद्ध के लिए चढ़ाई किए जाने वाले कुबेर से वृष्टि द्वारा प्राप्त चमकती हुई सुवर्ण राशि रघु ने कौत्स ऋषि को दे दी। जो कि वज्र से काट कर गिराये हुए सुमेरु के टुकड़े के समान दिखती थी ॥ ३० ॥
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥ ३१ ॥
अन्वयः—तौ द्वौ अपि साकेतनिवासिनः जनस्य अभिनन्द्यसत्त्वौ अभूताम् । गुरुप्रदेयाधिकनिःस्पृहः अर्थी, अर्थिकामात् अधिकप्रदः नृपः च ।
जनस्येति । तावर्थिदातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः । जनस्याभिनन्द्यसत्त्वं स्तुत्यव्यवसायावभूताम् । कौ द्वौ ? गुरुप्रदेयाधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी । अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्तः । नृपश्च ।
भाषार्थ—उस समय अयोध्यानिवासी याचक कौत्स और दाता रघु दोनों की सराहना करने लगे । इधर तो कौत्स गुरुदक्षिणा से अधिक एक कौड़ी भी लेना नहीं चाहते थे और उधर रघु वह समस्त धन कौत्स को देने के लिए इच्छुक थे ॥ ३१ ॥
अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाचमुवाच कौत्सः ॥ ३२ ॥
अन्वयः—अथ प्रीतमनाः महर्षिः कौत्सः सम्प्रस्थितः सन् उष्ट्रवामीशतवाहितार्थम् आनतपूर्वकायम् प्रजेश्वरम् करेण स्पृशन् वाचम् उवाच ।
अथेति । अथ प्रीतमना महर्षिः कौत्सः सम्प्रस्थितः सम्प्रस्थास्यमानः सन् । उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थं प्रापितधनमानतपूर्वकायम्। विनयनम्रं प्रजेश्वरं करेण स्पृशन्वाचमुवाच ।
भाषार्थ—इसके बाद परम प्रसन्न कौत्स ऋषि प्रस्थान करते हुए सैकड़ों ऊँटों खच्चरों से धन को पहुँचा देने का प्रयत्न करने वाले, मस्तक झुकाये हुए रघु पर हाथ फेरते हुए यों बोले ॥ ३२ ॥
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ ३३ ॥
१५० रघुवंशमहाकाव्ये
**अन्वयः—**वृत्तेः स्थितस्य प्रजानाम् अधिपतेः भूः कामसूः यदि, अत्र चित्रम् किम् तु तव प्रभावः अचिन्तनीयः येन द्यौः अपि मनीषितम् दुग्धा ।
किमिति । वृत्तेः स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामात्सूत इति कामसू-र्यदि । अत्र कामप्रसवने किं चित्रम् । न चित्रमित्यर्थः किन्तु तव प्रभावो महिमा त्वचिन्तनीयः । येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा ।
**भाषार्थ—**राजकार्य में तत्पर रहने वाले आप की पृथ्वी यदि मनोऽनुकूल वस्तुओं को उत्पन्न करती हो तो आश्चर्य नहीं क्योंकि आपका प्रभाव अचिन्तनीय है जिससे आपने इच्छानुसार स्वर्ग को भी दुह लिया है ॥ ३३ ॥
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ ३४ ॥
**अन्वयः—**सर्वाणि श्रेयांसि अधिजग्मुषः ते अन्यत् आशास्यम् पुनरुक्तभूतम् ( अस्ति ) किन्तु ईडचम् भवन्तम् भवतः पिता इव त्वम् अपि आत्मगुणानुरूपम् पुत्रम् लभस्व ।
आशास्यमिति । सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत्पुत्रातिरिक्तमाशास्यमाशीःसाध्यमाशंसनीयं वा पुनरुक्तभूतम् । सर्वसिद्धमित्यर्थः । किन्त्वीड्यं स्तुत्यं भवतः पितेवात्मगुणानुरूपम् त्वया तुल्यगुणं पुत्रं लभस्व प्रप्नुहि ।
**भाषार्थ—**सर्वकल्याणभोगी आपको अन्य आशीर्वाद देना व्यर्थ है । जैसे पिता ने तुल्यगुण आपको प्राप्त किया । उसी तरह आप भी अपने समान गुणवाले पुत्र को प्राप्त करें ॥ ३४ ॥
इत्थम् प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजाऽपि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥ ३५ ॥
**अन्वयः—**अग्रजन्मा इत्थम् राज्ञे आशिषम् प्रयुज्य गुरोः सकाशम् प्रतीयाय राजा अपि जीवलोकः अर्कात् आलोकम् इव तस्मात् आशु सुतम् लेभे ।
इत्थमिति । अग्रजन्मा ब्राह्मणः । इत्थं गज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप । राजाऽपि । जीवलोको जीवसमूहः । अर्कादालोकं प्रकाशमिव । शीघ्रम् । 'चैतन्यम्' इति पाठे ज्ञानम् । तस्मादृषेराशु सुतं लेभे प्राप ।
**भाषार्थ—**कौत्सरऋषि यों रघु को आशीर्वाद देकर अपने गुरु के पास चले गये उधर राजा रघु ने भी थोड़े दिनों में आशीर्वाद के प्रभाव से पुत्र प्राप्त किया जैसे मनुष्यगण सूर्य से प्रकाश पाता है ॥ ३५ ॥
ब्राह्मे मुहूर्त्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ३६ ॥
पञ्चमः सर्गः १५१
**अन्वयः—**तस्य देवी ब्राह्मे मुहूर्ते किल कुमारकल्पम् कुमारम् सुषुवे, अतः पिता ब्रह्मणः एव नाम्ना तम् आत्मजन्मानम् अजम् चकार ।
ब्राह्म इति । तस्य रघोर्देवी महिषी ब्राह्मे ब्रह्मदेवताकेऽभिजित्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम् । कुमारं पुत्रं सुषुवे । अतो ब्राह्ममुहूर्तोत्पन्नत्वात्पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमजमज-नामकं चकार ।
**भाषार्थ—**रघु की रानी ने ब्राह्म मुहूर्त में कार्तिकेय के समान पुत्र उत्पन्न किया। इसलिए पिता रघु ने ब्रह्मा के ही नाम से उस पुत्र का नाम अज रखा ॥ ३६ ॥
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ३७ ॥
**अन्वयः—**ओजस्वि रूपम् तत् एव, वीर्यम् तत् एव, नैसर्गिकम् उन्नतत्वम् तत् एव आसीत्, कुमारः प्रदीपात् प्रवर्तितः दीपः इव स्वात् कारणात् न विभिदे ।
रूपमिति । ओजस्वि तेजस्वि बलिष्ठं वा । रूपं वपुः तदेव पैतृकमेव वीर्यं शौर्यं तदेव । नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव । कुमारो बालकः । प्रदीपात् स्वोत्पादकदीपादिव । स्वात्स्वकीयात् । कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्।
**भाषार्थ—**कुमार अज का वही पितृ तुल्य तेजोयुक्त रूप वही पराक्रम वही स्वाभाविक ऊँचाई थी जैसे एक दीपक से जलाया गया दूसरा दीपक उससे भिन्न नहीं होता वैसे ही अपने पिता से अज भिन्न नहीं थे ॥ ३७ ॥
उपात्तविद्यं विधिवद् गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः साभिलाषाऽपि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ ३८ ॥
**अन्वयः—**गुरुभ्यः विधिवत् उपात्तविद्यम् यौवनोद्भेदविशेषकान्तम् तम् प्रति साभिलाषा अपि श्रीः धीरा कन्या पितुः इव गुरोः अनुज्ञाम् आचकाङ्क्ष ।
उपात्तेति । गुरुभ्यो विधिवद्यथाशास्त्रमुपात्तविद्यं लब्धविद्यम् । यौवनस्यो-द्भेद्यादाविर्भावाद्धेतोर्विशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषाऽपि श्रीः धीरा स्थिरोन्नतचित्ता । कन्या पितुरिव । गुरोरनुज्ञामाचकाङ्क्षेयेष । यौवराज्यार्होऽ-भूदित्यर्थः ।
**भाषार्थ—**विधिवत् विद्याध्ययन के बाद युवा अवस्था से अत्यन्त सुन्दर उस अज को वरण करने में राजलक्ष्मी रघु की आज्ञा की प्रतीक्षा कर रही थी जैसे कोई कन्या अभिलषित वर के प्रति पिता की आज्ञा की प्रतीक्षा करती हो ।
१५२ रघुवंशमहाकाव्ये
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्यतः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ ३६ ॥
अन्वयः—अथ स्वसुः इन्दुमत्या स्वयंवरार्थम् कुमारानयनोत्सुकेन क्रथकैशिकानाम् ईश्वरेण भोजेन आप्तः दूतः रघवे विसृष्टः ।
अथेति । अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुक्रेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण भोजेन राज्ञाऽऽप्तो हितोदूतो रघवे विसृष्टः प्रेषितः ।
भाषार्थ—इसके बाद विदर्भराज भोज ने अपनी बहन इन्दुमती के स्वयम्बर में युवराज अज को बुलाने की इच्छा से अपने विश्वासपात्र दूत को रघु के पास भेजा ॥ ३९ ॥
तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेन मृद्धां विदर्भाधिपराजधानीम् ॥ ४० ॥
अन्वयः—असौ तम् श्लाघ्यसम्बन्धम् विचिन्त्य पुत्रम् च दारक्रियायोग्यदशम् विचिन्त्य ससैन्यम् एनम् ऋद्धांम् विदर्भाधिपराजधानीम् प्रति प्रस्थापयामास ।
तमिति । असौ रघुस्तं भोजं श्लाघ्यसम्बन्धमनूचानत्वादितृणयोगात्स्पृहणी-सम्बन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धां समृद्धां विदर्भाधिपस्य भोजस्य राजधानीं पुरीं प्रति प्रस्थापयामास । धीयतेऽस्यामिति धानी ।
भाषार्थ—रघु ने विदर्भराज भोज के साथ सम्बन्ध करना उचित समझ और पुत्र अज की अवस्था को भी विवाह योग्य विचार कर सेनासहित युवराज अज को समृद्धिमान् विदर्भ की राजधानी की ओर भेजा ॥ ४० ॥
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ ४१ ॥
अन्वयः—उपकार्यारचितोपचाराः जानपदोपदाभिः वन्येतराः तस्य मनुजेन्द्रसूनोः मार्गे निवासाः उद्यानविहारकल्पाः बभूवुः ।
तस्येति । उपकार्यासु राजयोग्येषु पटभवनादिषु । उपक्रियते उपकरोति वा पटमण्डपादि राजसदनमिति । रचिता उपचाराः शयनादयो येषु ते तथोक्ताः । जानपदानां जनपदेभ्यं आगतानामुपदाभिरुपायनैः वन्या वनेभवा इतरे येषां ते वन्येतराः । अवन्या इत्यर्थः । तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः । तान्येव विहारा विहारस्थानानि तत्कल्पाः तत्सदृशाः बभूवुः ।
पञ्चमः सर्गः १५३
**भाषार्थ—**मार्ग में बने हुए उस अज के विश्रामस्थल राजधानी के उद्यानों में बने हुए विहारों के समान ही सुन्दर थे, क्योंकि वहाँ तम्बुओं के अन्दर शय्या आदि बिछी हुई थी और उपहार एवं सुख साधन मौजूद थे, जो जंगल में बने हुए नहीं ज्ञात होते थे ॥ ४१ ॥
स नर्मदारोधसि सीकराद्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा क्लान्तं रजोघूसरकेतु सैन्यम् ॥ ४२ ॥
**अन्वयः—**विलङ्घिताध्वा सः सीकराद्रैः मरुद्भिः आनर्तितनक्तमाले नर्मदा-रोधसि क्लान्तम् रजोघूसरकेतु सैन्यम् निवेशयामास ।
सेति । विलङ्घिताध्वाऽतिक्रान्तमार्गः सोऽजः सीकराद्रैः । शीतलैरुित्यर्थः । मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः । यस्मिंस्तस्मिन् । नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ।
**भाषार्थ—**यात्रा समाप्त करके अज ने जलार्द्र, वायुकम्पित, करंज वृक्ष वाले नर्मदा नदी के किनारे पर धूल से धूसरित पताका वाली थकी हुई अपनी सेना को ठहराया ॥ ४२ ॥
अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्धः सरित्तो गज उन्ममज्ज ॥ ४३ ॥
**अन्वयः—**अथ उपरिष्टात् भ्रमद्भिः भ्रमरैः प्राक्सूचितान्तःसलिलप्रवेशः निर्धौत-दानामलगण्डभित्तिः वन्यः गजः सरित्तः उन्ममज्ज ।
अथेति । अथोपरिष्टादूर्ध्वम् । मदलोभादिति भावः । भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तःसलिले प्रवेशो यस्य स तथोक्तः । निर्धौतदाने क्षालितमदे अत एवामले गण्डभित्ती यस्य स तथोक्तः। प्रशस्तो गण्डो गण्डभित्ती । निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा । वन्योगजः सरित्तो नर्मदाया सकाशात् उन्मज्ज्योत्थितः।
**भाषार्थ—**सेनाविश्रामानन्तर नर्मदा से एक जंगली हाथी निकला । पानी के ऊपर मद के लोभ से मंडराते हुए भौंरों से जल में डुबकी लगाने का अनुमान हो रहा था और उसके कपोल पानी से घुलकर निर्मल हो गये थे ॥ ४३ ॥
निःशेषविक्षालितधातुनाऽपि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ ४४ ॥
**अन्वयः—**निःशेषविक्षालितधातुना अपि नीलोर्ध्वरेखाशबलेन अश्मविकुण्ठितेन दन्तद्वयेन ऋक्षवतः तटेषु वप्रक्रियाम् शंसन् बभौ ।
| १५४ | रघुवंशमहाकाव्ये |
|---|
निःशेषेति । कथम्भूतो गजः । निःशेषविक्षालितधातुनाऽपि धौतगैरिकादि-नाऽपि । नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्बुरेण । अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन । ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः । तस्य तटेषु वप्रक्रियां वप्रक्रीडाम् । उत्खातकेलिमित्यर्थः । शंसन्कथयन् । सूचयन्नित्यर्थः । युग्मम् ।
**भावार्थ—**जल मे डूबकर स्नान करने से जिसके गैरिकादि धातु घुल गये थे और पर्वत के तट पर प्रहार करने से ऊपर की तरफ काली रेखाओं चितकबरे एवं पत्थरों से टूटे नोक दातों से ऋक्षवान् नामक पर्वत के तट प्रान्तों में पत्थरों के लिये हुए दातों से उत्पादन क्रिया को सूचित करता हुआ वह गज नर्मदा से निकला ॥ ४४ ॥
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
वभौ स भिन्दन्बृहतस्तरङ्गान् वार्यंगंलासङ्ग इव प्रवृत्तः ॥ ४५ ॥
**अन्वयः—**संहारविक्षेपलघुक्रियेण हस्तेन सशब्दम् बृहतः तरङ्गान् भिन्दन् तीराभिमुखः सः वार्यर्गलाभङ्गे प्रवृत्तः इव वभौ ।
संहारेति । संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण । हस्तेन शुण्डादण्डेन । सशब्दं सघोषं बृहतस्तरङ्गान्भिन्दन् विदारयन् तीराभिमुखः स गजः । वारी गजबन्धनस्थानम् । वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव वभौ ।
**भाषार्थ—**जल्दी २ बटुरते और फैलते हुए सूड से बड़े २ तरंगों को चीरता और चीघारता हुआ नर्मदा के तीर की तरफ वह हाथी शृङ्खला तोड़ने में लगा हुआ जान पड़ता था ॥ ४५ ॥
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ४६ ॥
**अन्वयः—**शैलोपमः सः शैवलमञ्जरीणाम् जालानि उरसा कर्षन् पश्चात् तटम् उत्ससर्प, पूर्वम् तदुत्पीडितवारिराशिः सरित्प्रवाहः तटम् उत्ससर्प ।
शैलेति । शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कार्षन्पश्चात्तटमुत्ससर्प । पूर्वं तेनं गजेनोत्पीडितो नुन्नो वारिराशिर्यंस्य स सरित्प्रवाहस्तटमुत्ससर्पं ।
**भाषार्थ—**पर्वतोपम वह हाथी सेवाल की लताओं को अपने वक्षःस्थल से छिन्न-भिन्न करता हुआ पीछे से तीर पर पहुँचा, किन्तु उससे पूर्व ही उसके चलने से क्षुभित तरंग नर्मदा का प्रवाह तट पर पहुँच गया ॥ ४६ ॥
पञ्चमः सर्गः १५५
पञ्चमः सर्गः १५५
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्द्दिनश्रीः ॥ ४७ ॥
अन्वयः—तस्य एकनागस्य कपोलभित्त्योः जलावगाहक्षणमात्रशान्ता मददुर्द्दिन-श्री वन्येतरानेकपदर्शनेन पुनः दिदीपे ।
तस्येति । तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्द्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ।
भाषार्थ—उस गज श्रेष्ठ के गण्डस्थलों से झरने वाली मदधारा नर्मदा के जल में डुबकी लगाने से क्षणमात्र के लिए बन्द हो गई थी, वही अज की सेना के हाथियों के देखने से पुनः बरसने लगी ॥ ४७ ॥
ससप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ ४८ ॥
अन्वयः—ससप्तच्छदक्षीरकटुप्रवाहम् (अत एव) असह्यम् तदीयम् मदम् आघ्राय सेनागजेन्द्राः विलङ्घिताधोरणतीव्रयत्नाः सन्तः विमुखाः वभूवुः ।
ससप्तच्छदेति । सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत्कटुः सुरभिः प्रवाहः प्रसारो यस्य तदीयं मदमाघ्राय सेनागजेन्द्राः। विलङ्घितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान्यत्नो यैस्ते तथोक्ताः सन्तः । विमुखाः पराङ्मुखाः बभूवुः ।
भाषार्थ—छितवन के दूध के समान गन्ध वाले असह्य उस जंगली हाथी के मद को सूँघकर अज की सेना के बड़े २ हाथी महावतों के अंकुश की मार की उपेक्षा कर वापस भागने लगे ॥ ४८ ॥
स छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ ४६ ॥
अन्वयः—छिन्नबन्धद्रुतयुग्यशून्यम् भग्नाक्षपर्यस्तरथम् रामापरित्राणविहस्तयोधम् सेनानिवेशम् क्षणेन तुमुलम् चकार ।
सेति । स गजः । छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः, युगं वहन्तीति युग्या वाहा यस्मिन् सः, स चासौ शून्यश्च तम् । भग्ना अक्षा रथावयवदारुविशेषाः । येषान्ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिंस्तम् । रामाणां परित्राणे संरक्षणे विहस्ता व्याकुलाः योधाः यस्मिंस्तं सेनानिवेशं शिविरं क्षणेन तुमुलं चकार ।
भाषार्थ-अज की सेना का सारा शिविर उस जंगली हाथी के आते ही व्याकुल
१५६ | रघुवंशमहाकाव्ये
हो उठा । हाथी घोड़े बन्धन तोड़कर शीघ्रता से भागने लगे । धुरा टूट जाने से रथ गिरने लगे और योद्धा लोग स्त्रियों की रक्षा करने में व्यस्त हो गये ॥४९॥
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ ५० ॥
अन्वयः—नृपतेः वन्यः करी अवध्य इति श्रुतवान् कुमार आपतन्तम् तम् निवर्त्तयिष्यन् (अत एव) नात्यायतकृष्टशार्ङ्गः (सन् ) विशिखेन कुम्भे जघान ।
तमिति । नृपते राज्ञो वन्य कर्यवध्य इति श्रुतवाञ्शास्त्रज्ञाञ्जातवान्कुमार आपतन्तमभिधावन्तं गजं निवर्तयिष्यन्न तु प्रहरिष्यन् । अत एव नात्यायतमनतिदीर्घं यथा स्यात् तथा कृष्टशार्ङ्गं ईषदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान ।
भाषार्थ—'राजा को जंगली हाथी नहीं मारना चाहिए' यह जानते हुए अज ने सामने आते हुए उस हाथी की भगाने को इच्छा से थोड़ा धनुष को खींचकर छोड़े बाण से गण्डस्थल पर मारा ॥ ५० ॥
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥ ५१ ॥
अन्वयः—सः विद्धमात्रः किल नागरूपम् उत्सृज्य तद्विस्मितसैन्यदृष्टः सन् स्फुरत्प्रभामण्डलमध्यवर्ति कान्तम् व्योमचरम् वपुः प्रपेदे ।
स इति । स गजो विद्धमात्रः किल न तु प्रहृतस्तथाऽपि नागरूपं गजशरीरमुत्सृज्य । तेन वृत्तान्तेन विस्मितैस्तद्विस्मितैः सैन्यैर्दृष्टः सन् । स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्तं मनोहरं व्योमचरं वपुः प्रपेदे प्राप ।
भाषार्थ—अज के बाण से विद्ध होते ही उस जंगली हाथी ने अपने हाथी के शरीर को छोड़कर सैनिकों के देखते २ देदीप्यमान प्रभामण्डल के मध्य में स्थित आकाशगामी शरीर धारण कर लिया ॥ ५१ ॥
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ ५२ ॥
अन्वयः—अथ प्रभावोपनतैः कल्पद्रुमोत्थैः पुष्पैः कुमारम् अवकीर्य दशनप्रभाभिः संवर्धितोरःस्थलतारहारः वाग्मी सः पुरुष उवाच ।
अथेति । अथ प्रभावेणोपनतैः प्राप्तैः कल्पद्रुमोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य, दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उरःस्थले ये तारहाराः स्थूला मुक्तहारास्ते येन स तथोक्तः । वाचोऽस्य सन्तीति वाग्मी वक्ता । स पुरुष उवाच ।
पञ्चमः सर्गः १५७
पञ्चमः सर्गः १५७
**भाषार्थ—**इसके बाद अज पर अपने प्रभाव से प्राप्त, कल्प वृक्ष के पुष्पों की वर्षा कर दांतों की कान्ति से वक्षःस्थल पर लटकते हुए मोती के हार को और भी उन्नतवान वाग्मी वह दिव्य पुरुष अज से यों बोला ॥ ५२ ॥
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५३ ॥
**अन्वयः—**अवलेपमूलात् मतङ्गशापात् मतङ्गजत्वम् अवाप्तवान् अस्मि । माम् प्रियदर्शनस्य गन्धर्वपतेः तनूजम् प्रियंवदम् अवेहि ।
मतङ्गेति । अवलेपमूलाद् गर्वहेतुकाद् । मतङ्गस्य मुनेः शापान्मतङ्गजत्वमवाप्तवानस्मि । मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम् प्रियंवदं प्रियंवदाख्यमवेहि जानीहि ।
**भाषार्थ—**मेरे अहंकार से क्रुद्ध मतंग ऋषि के शाप से मैं हाथी हो गया था । वस्तुतः मैं गन्धर्वों के राजा प्रियदर्शन का पुत्र प्रियंवद हूँ ऐसा आप समझें ।
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्साप्रकृतिर्जलस्य ॥ ५४ ॥
**अन्वयः—**सः महर्षिः च प्रणतेन मया अनुनीतः (सन्) पश्चात् मृदुताम् अगच्छत्, हि जलस्य उष्णत्वम् अग्न्यातपसम्प्रयोगात्, यत् शैत्यम् सा प्रकृतिः ।
स इति । महर्षिश्च प्रणतेन मयानुनीतः सन्पश्चान्मृदुतां शान्तिमगच्छत् । तथा हि जलस्योष्णत्वमग्नेरातपस्य वा सम्प्रयोगात्सम्पर्कात्, न तु प्रकृत्योष्णत्वम् । यच्छैत्यं सा प्रकृतिः स्वभावः ।
**भाषार्थ—**मेरे अनुनय करने पर वे मतंग ऋषि शान्त हो गये, क्योंकि जल गर्मी पाकर गरम हो जाता है किन्तु उसका स्वभाव तो शीतल ही है ॥ ५४ ॥
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदित्यवोचत्स तपोनिधिर्माम् ॥ ५५ ॥
अन्वयः—'इक्ष्वाकुवंशप्रभवः अजः यदा ते कुम्भम् अयोमुखेन शरेण भेत्स्यति तदा स्वेन वपुर्महिम्ना पुनः संयोक्ष्यसे' इति सः तपोनिधिः माम् अवोचत् ।
इक्ष्वाक्विति । इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति, तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे इति स तपोनिधिर्मामवोचत् ।
१५८ रघुवंशमहाकाव्ये
भाषार्थ—प्रार्थना से प्रसन्न हो मतंग मुनि ने मुझ से कहा कि इक्ष्वाकु के कुल में उत्पन्न अज नामक राजकुमार जब तुम्हारे कुम्भस्थल को लोहे के फल वाले बाण से बेधेंगे तब तुम पुनः अपने असली स्वरूप को प्राप्त कर लोगे।
सम्मोचितः सत्त्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ ५६ ॥
अन्वयः—चिरप्रार्थितदर्शनेन सत्त्ववता त्वया अहं शापात् सम्मोचितः भवतो प्रतिप्रियम् न कुर्याम् चेत् मे स्वपदोपलब्धिः वृथा स्यात् ।
सम्मोचित इति । चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाऽहं शापात्संमोचितो मोक्षं प्रापितः । भवतः प्रतिप्रियं प्रत्युपकारं न कुर्यां चेन्मे स्वप-दोपलब्धिः स्वस्थानप्राप्तिः वृथा स्याद्धि ।
भाषार्थ—मतंग मुनि के शाप से हाथी बनकर मैं बहुत दिनों से आपके दर्शन की प्रतीक्षा कर रहा था, बलवान् आपने मुझे उस शाप से मुक्त कर दिया। यदि इस उपकार के बदले मैं आपका प्रत्युपकार न करूँ तो मेरा अपना स्थान प्राप्त करना ही व्यर्थ होगा ॥ ५६ ॥
सम्मोहनं नाम सखे ! ममास्त्रं प्रयोगसंहारविभक्त मन्त्रम् । गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥ ५७ ॥
अन्वयः—सखे ! प्रयोगसंहार विभक्तमन्त्रम् गान्धर्वम् सम्मोहनम् नाम मम अस्त्रम् आदत्स्व, यतः प्रयोक्तुः अरिहिंसा न च विजयः च हस्ते भवति ।
सम्मोहनमिति । हे सखे! सखिशब्देन समप्राणतोक्ता । प्रयोगसंहारयोर्विभक्त-मन्त्रं गान्धवं गन्धर्वदेवताकम् । सम्मोह्यतेऽनेनेति सम्मोहनं नाम ममास्त्रमादत्स्व गृहाण । यतोस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोहिंसा न च, विजयश्च हस्ते भवतीति शेषः ।
भाषार्थ—हे मित्र अज ! आप चलाने और लौटा लेने के पृथक्-पृथक् मन्त्र वाले इस संमोहन नामक गन्धर्वास्त्र को लीजिए । इसकी विशेषता है कि चलाने वाले के शत्रुओं का वध भी नहीं होगा और अनायास विजय भी होगी ॥ ५७ ॥
अलं हिया मां प्रति यन्मुहूर्त्तं दयापरोऽभूः प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्य मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ ५८ ॥
अन्वयः—माम् प्रति ह्रिया अलम् ! कुतः ? यत् त्वम् प्रहरन् अपि मुहूर्तं दयापरः मभूः, तस्मात् उपच्छन्दयति मयि त्वया प्रतिषेधरौक्ष्यम् न प्रयोज्यम् ।
अलमिति । किं च । मां प्रति ह्रिया प्रहारनिमित्तयाऽलम् । कुतः ? यद्यतो-
पञ्चमः सर्गः १५६
पञ्चमः सर्गः १५६
मद्यतोहेतोस्त्वं मां प्रहरन्नपि मुहूर्तं दयापरः कृपालुर्भूः। तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया प्रतिषेधः परिहार स एव रौक्ष्यं पारुष्यम्। तन्न प्रयोज्यं न कर्तव्यम्।
भाषार्थ—मेरे ऊपर प्रहार करने के कारण लज्जित न हों क्योंकि प्रहार करते हुए भी आप मुझ पर दयालु ही रहे। अतः मेरी प्रार्थना को अस्वीकार करके रूक्षता का व्यवहार न करें ॥ ५८ ॥
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥ ५६ ॥
अन्वयः—नृसोमः अस्त्रवित् स तथा इति सोमोद्भवायाः पवित्रम् पयः उपस्पृश्य उदङ्मुखः सन् निगृहीतशापात् अस्त्रमन्त्रम् जग्राह ।
तथेति । ना सोमश्चन्द्र इव नृसोमः । उपमितसमासः । पुरुषश्रेष्ठ इत्यर्थः । अस्त्रविदस्त्रज्ञः सोऽजस्तथेति । सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदाया पवित्रं पय उपस्पृश्य पीत्वा । उदङ्मुखः सन्निगृहीतशापान्निवर्तितशापात् उपकृतादित्यर्थः । तस्मात्प्रियंवदादस्त्रमन्त्रं जग्राह ।
भाषार्थ—चन्द्रोपम अस्त्रविद्याविशारद राजकुमार अज ने अच्छा कह कर प्रियंवद की बात को मान लिया और चन्द्रमा से उत्पन्न नर्मदा नदी के पवित्र जल से आचमन कर उत्तराभिमुख हो शापमुक्त उस प्रियंवद गन्धर्व से अस्त्र चलाने और लोटाने का मन्त्र सीख लिया ॥ ५९ ॥
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतुः ।
एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ ६० ॥
अन्वयः—एवम् अध्वनि दैवयोगात् अचिन्त्यहेतुः सख्य आसेदुषोः तयोः एकः चैत्ररथप्रदेशान् अपरः सौराज्यरम्यान् विदर्भान् ययौ ।
एवमिति । एवमध्वनि मार्गे दैववशादचिन्त्यहेत्वनिर्धार्यहेतुकं सख्यं सखित्वम् । आसेदुषोः प्राप्तवतोस्तयोर्मध्ये एको गन्धर्वश्चैत्ररथस्य कुबेरोद्यानस्य प्रदेशान् । अपरोऽजः, सौराज्येन राजन्वत्तया रम्यान्विदर्भदेशान्ययौ ।
भाषार्थ—मार्ग में दैवयोग से अचिन्त्यहेतुक मित्र को प्राप्त हुए उन दोनों में से एक ( प्रियंवद ) तो चैत्ररथ नामक कुबेर के बगीचे की ओर गया और दूसरे अच्छे शासन के कारण रमणीय विदर्भ देश की ओर गये ॥ ६० ॥
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ ६१ ॥
१६० रघुवंशमहाकाव्ये
**अन्वयः—**नगरोपकण्ठे तस्थिवांसम् तम् तदागमारूढगुरुप्रहर्षः क्रथकैशिकेन्द्रः प्रवृद्धोर्मिः ऊर्मिमाली चन्द्रम् इव प्रत्युज्जगाम ।
तमिति । नगरस्योपकण्ठे समीपे तस्थिवांसं स्थितं तमजं तस्याजस्यागमना-गमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः । प्रवृद्धोर्मि-रुर्मिमाली समुद्रश्चन्द्रमिव प्रत्युज्जगाम ।
**भाषार्थ—**अपने नगर के बाहर उस युवराज अज के आगमन से अत्यन्त प्रसन्न विदर्भ देश के राजा भोज अज का स्वागत करने के लिए ऐसे गये जैसे लहरीसंयुक्त समुद्र चन्द्रोदय से प्रसन्न होकर उनसे मिलने लिए ऊपर उठता है ।
प्रवेश्य चैनं पुरमग्रयायी नीचैस्तयोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ ६२ ॥
**अन्वयः—**एनम् अग्रयायी नीचैः पुरम् प्रवेश्य प्रीत्या अर्पितश्रीः तथा उपाचरत् यथा तत्र समेतः जनः वैदर्भम् आगन्तुम् अजम् गृहेशम् मेने ।
प्रवेश्येति । एनमजमग्रयायी । सेवाधर्मेण पुरो गच्छन्नित्यर्थः । नीचैर्नम्रः पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्याऽर्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान् । यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने । अजं गृहेशं गृहपतिं मेने ।
**भाषार्थ—**सेवा से अज के आगे चलते हुए विनम्र राजा भोज अज को नगर में ले जाकर प्रेमपूर्वक अपनी सारी सम्पत्ति से ऐसा व्यवहार किया कि वहाँ आये हुए जन समूह ने यही समझा कि युवराज अज ही गृहस्वामी हैं और विदर्भ नरेश राजा भोज अतिथि हैं ॥ ६२ ॥
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् ।
रम्यां रघुपतिनिधिः स नवोपकार्याम्बाल्यात्परामिव दशां मदनोऽध्युवास ॥
**अन्वयः—**रघुपतिनिधिः सः प्रणतैः तस्य अधिकारपुरुषैः प्रदिष्टां प्राग्द्वारवेदि-विनिवेशितपूर्णकुम्भाम् रम्याम् नवोपकार्याम् बाल्यात् परां दशाम् इव अध्युवास ।
तस्येति । रघुपतिनिधी रघुकल्पः । रघुतुल्य इत्यर्थः । सोऽजः प्रणतैर्नमस्कृतवद्भिः । तस्य भोजस्याधिकारो नियोगस्तस्य पुरुषैः । प्रदिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः पूर्णकुम्भो यस्यास्ताम् । रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम् । मदनो बाल्यात्परां शैशवादनन्तरां दशामिव । यौवनमिवेत्यर्थः । अध्युवासाधिष्ठितवान् । तत्रोषितवानित्यर्थः ।
पञ्चमः सर्गः
पञ्चमः सर्गः १६५
**भाषार्थ—**रघु के प्रतिनिधि अज प्रणत राजा भोज के द्वारा नियुक्त अधिकारी पुरुषों से बतलाये हुए, नवीन कपड़े से बने हुए, राजाओं के योग्य सुन्दर मण्डप में गये जिसके सामने वेदियों पर सजल मांगलिक कलश रखे हुए थे वहाँ यों रहने लगे मानो कामदेव बाल्यावस्था को बिताकर युवावस्था में निवास करते हों ॥ ६३ ॥
तत्र स्वयंवरसमाहृतराजलोकं कन्याललामकमनीयमजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखो बभूव ॥ ६४ ॥
**अन्वयः—**तत्र स्वयंवरसमाहृतराजलोकम् कमनीयम् कन्याललाम लिप्सोः अजस्य भावावबोधकलुषा दयिता इव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ।
तत्रेति । तत्रोपकार्यायां स्वयंवरनिमित्तं समाहृतः सम्मेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम् । लिप्सोर्लब्धुमिच्छोः । अजस्य भावावबोधे पुरुषस्याभिप्रायपरिज्ञाने कलुषाऽसमर्था दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव । अभिमुखीशब्दो ङीषन्तष्ष्यन्तो वा ।
**भाषार्थ—**पटनिर्मित मण्डप से जिस कमनीय कन्या को पाने के लिए अनेक राजा आये हुए थे उसको पाने की चिन्ता करते हुए अज को देर से निद्रा आई, जैसे कोई प्रिय के हृदय को न जाननेवाली नवोढा नायिका अपने प्रिय के पास विलम्ब से जाती हो । ६४ ॥
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥ ६५ ॥
**अन्वयः—**कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् प्रथितप्रबोधं तं सवयसः उदारवाचः सूतात्मजाः वाग्भिः उषसि प्राबोधयन् ।
तमिति । कर्णभूषणाभ्यां निपीडितौ पीनावंसौ यस्य तम् । शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विरलोऽङ्गरागो यस्य तम् । प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः । वैतालिकाः' इति वा । वाग्भिः स्तुतिपाठैरुषसि प्राबोधयन्प्रबोधयामासुः ।
**भाषार्थ—**कर्ण कुण्डलों से स्थूल कन्धों पर चिह्न वाले शय्या की चद्दर की रगड़ से निवृत्त अंगराग वाले अज को समवयस्क मृदुभाषी वन्दिपुत्रों ने उत्तम ज्ञान सम्पन्न मांगलिक गीतों से जगाया ॥ ६५ ॥
रात्रिर्गता मतिमतां वर ! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता । तामेकतस्तव बिभर्ति गुरुर्विंनद्रस्तस्या भवानपरधुर्यपदावलम्बी ॥ ६६ ॥
११ र० सम्पू०
| १६२ | रघुवंशमहाकाव्ये |
|---|
**अन्वयः—**मतिमतां वर ! रात्रिः गता, शय्यां मुञ्च, धात्रा जगतः धूः द्विधा एव विभक्ता ननु, ताम् एकतः तव गुरुः विनिद्रः सन् बिभर्ति, तस्याः भवान् अपरधुर्यपदावलम्बी ( भव ) ।
रात्रिरिति । हे मतिमतां वर ! निर्धारणे षष्ठी । रात्रिर्गता । शय्यां मुञ्च । विनिद्रो भवेत्यर्थः । धात्रा ब्रह्मणा जगतो धूर्भारः । द्विधैव द्वयोरेवेत्यर्थः । विभक्ता ननु विभज्य स्थापिता खलु । तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन्बिभर्ति तस्या धुरो भवान् । धुरं वहतीति धुर्यो भारवाही । तस्य पदं वहन-स्थानम् । अपरं यद् धुर्यपदं तदवलम्बी । ततो विनिद्रो भवेत्यर्थः ।
**भाषार्थ—**हे बुद्धिमानों में श्रेष्ठ अज ! रात बीत गई। अतः आप शय्या को छोड़ें, क्योंकि ब्रह्माजी से पृथ्वी पालन का भार दो भागों में विभक्त है। उसमें एक भाग आपके पिता नींद छोड़कर वहन कर रहे हैं, दूसरे भाग को आप संभालें ॥ ६६ ॥
निद्रावशेन भवताऽप्यनवेक्ष्यमाणा पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरूचिं विजहाति चन्द्रः ॥
**अन्वयः—**निद्रावशेन भवता पर्युत्सुकत्वम् अपि निशि खण्डिता अबला इव अनवेक्ष्यमाणा सती लक्ष्मीः येन पर्युत्सुकत्वम् विनोदयति सः चन्द्रः अपि दिगन्त-लम्बी सन् त्वदाननरूचिं विजहाति ।
निद्रेति । निद्रावशेन निद्राऽधीनेन । भवता पर्युत्सुकत्वमपि । त्वय्यनुरक्तत्व-मपीत्यर्थः । निशि खण्डिता भर्तुरन्यासङ्गज्ञानकलुषिताबलेव नायिकेव । अनपेक्ष्य-माणाऽविचार्यमाणा सती । उपेक्ष्यमाणेत्यर्थः । ‘ह्यनवेक्ष्यमाणा’ इति पाठे निद्रा-वशेन भवताऽनवेक्ष्यमाणाऽनिरीक्ष्यमाणा । लक्ष्मीः प्रयोजककर्त्री येन प्रयोज्येन चन्द्रेण पर्युत्सुकत्वं त्वद्विरहवेदनाम् । विनोदयति निराशायतीति योजना । शेषं पूर्ववत् । लक्ष्मीर्येन चन्द्रेण सह । त्वदाननसदृशत्वादिति भावः । विनोदयति वि-नोदं करोति । स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन् । अस्तं गच्छन्नि-त्यर्थः । अत एव त्वदाननरूचिं विजहाति । त्वन्मुखसादृश्यं त्यजतीत्यर्थः ।
**भाषार्थ—**निद्रारूपिणी रमणी के अधीन हुए के द्वारा अनुरक्त होती हुई भी उपेक्षणीय आपकी सौन्दर्यलक्ष्मी रात्रि में खण्डिता नायिका के समान खिन्न होकर जिस चन्द्रमा के साथ अपने मन को बहलाती थी, वह चन्द्रमा भी इस समय पश्चिम दिशा में अस्त हुंता हुआ आपकी मुख कान्ति के समान कान्ति को छोड़ रहा है। इसलिए नींद को छोड़ कर आप उस निराश्रित सौन्दर्य लक्ष्मी को ग्रहण करें ॥ ६७ ॥
पञ्चमः सर्गः
पञ्चमः सर्गः १६३
तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ६८ ॥
अन्वयः—तत् वल्गुना युगपत् तावत् उन्मिषितेन सद्यः द्वे परस्परतुलाम्- अधिरोहताम्, (के द्वे ?) अन्तः प्रस्पन्दमानपरुषेतरमन्दं तव चक्षुः, अन्तःप्रचलित भ्रमरं पद्मं च ।
तदिति । तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन । युगपत्तावदुन्मिषितेन युगपदेवोन्मीलितेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां, प्राप्नुताम् । प्रार्थनायाम् लोट् । के द्वे । अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम् । तव चक्षुः । अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च ।
भाषार्थ—इस सौन्दर्यलक्ष्मी को स्वीकार करने के कारण एक ही समय में तुम्हारी आंखें और कमल ये दोनों एक दूसरे के बराबरी करते हैं, क्योंकि इस समय बन्द आंखों में चिकनी और काली पुतलियां घूम रही हैं और कमलों में भ्रमर घूम रहे हैं । अर्थात् साथ ही खुलने और खिलने से आंख और कमलों की पूर्ण रूप से समानता हो जायगी ॥ ६८ ॥
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ६६ ॥
अन्वयः—विभातवायुः ते मुखमारुतस्य स्वाभाविकम् सौरभ्यम् परगुणेन ईप्सुः इव अनोकहानाम् वृन्तात् श्लथं पुष्पं हरति च अरुणांशुभिन्नैः सरसिजैः संसृज्यते ।
वृन्तादिति । विभातवायुः प्रभातवायुः स्वाभाविकं ते तव मुखमारुतस्य निःश्वा- सपवनस्य सौरभ्यं सौगन्ध्यं । परगुणेन । सांक्रामिकगन्धेन । ईप्सुः प्राप्तुमिच्छुरिव । अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात्पुष्पबन्धनात् । हरत्यादत्ते । अरुणांशुभिन्नैस्तरणि किरणोद्बोधितैः सरसिजातैःकमलैः सह । संसृज्यते संगच्छते ।
भाषार्थ—सुबह की हवा वृक्षों के शिथिल वृन्त वाले पुष्पों को वृन्त से गिरा रही है और सूर्य की किरणों से विकसित कमलों का स्पर्श करती बह रही है । मानों आपको सोए हुए देखकर वह आपके मुख की स्वाभाविक सुगन्धि के समान सुगन्धि को दूसरों से लेने की अभिलाषा कर रही है । अर्थात् सूर्योदय का समय हुआ, आप उठें ॥ ६९ ॥
ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः । आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिवत्वदीयम् ॥ ७० ॥
१६४ रघुवंशमहाकाव्ये
अन्वयः—ताम्रोदरेषु पतितम् निर्धौतहारगुलिकाविशदं हिमाम्भः लब्धापरभागतया अधरोष्ठे त्वदीयम् सदशनाचिः लीलास्मितम् इव आभाति ।
ताम्रेति । ताम्रोदरेष्वरुणाभ्यन्तरेषु पतितं निर्धौता या हारगुलिका मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ।
भाषार्थ—ताम्र के समान लाल वृक्षों के नये पत्तों पर गिरे हुए स्वच्छ मोतियोंके हार के दाने के समान निर्मल ओस के कण इस प्रकार सुशोभित हो रहे हैं, जिस प्रकार अधरोष्ठ में आपकी दांतों की कान्ति के सहित लीलापूर्वक मन्द हास सुशोभित होता है ॥ ७० ॥
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥
अन्वयः—यावत् प्रतापनिधिः भानुः न आक्रमते, तावत् अह्नाय अरुणेन तमः निरस्तम् । हे वीर ! त्वयि आयोधनाग्रसरताम् ( याते सति ) तव गुरुः स्वयम् रिपून् उच्छिनत्ति किं वा ।
यावदिति । प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति । तावत् भानावुदित एवेत्यर्थः । अह्नाय झटिति अरुणेनानूरुणा । तमो निरस्तम् । हे वीर ! त्वय्यायोधनेषु युद्धेषु । अग्रसरतां याते सति तव गुरुः पिता रिपून्स्वयमुच्छिनत्ति किं वा । नोच्छिनत्त्येवेत्यर्थः । न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ।
भाषार्थ—तेज के आकर भगवान सूर्य के उदय होने के पहले ही सारथि अरुण अन्धकार को दूर कर देते हैं। यह ठीक ही है; क्योंकि योग्य सेवक के रहते स्वामी को स्वयं कार्य करने का कष्ट नहीं होना चाहिए। हे वीर ! संग्राम में सबसे आगे लड़ने वाले आपके समान सुयोग्य पुत्र के रहते हुए आपके पिता महाराज रघु को क्या शत्रुओं का संहार करना पड़ता है ॥ ७१ ॥
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभान्तितरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥ ७२ ॥
अन्वयः—ते उभयपक्षविनीतनिद्राः मुखरशृङ्खलकर्षिणः स्तम्बेरमाः शय्याम् जहति येषां दन्तकोशाः तरुणारुणरागयोगात् भिन्नाद्रिगैरिकतटा इव विभान्ति ।
शय्यामिति । उभाभ्यां पक्षाभ्यां विनीता अपगता निद्रा येषां त उभयपक्षविनीतनिद्राःमुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति