रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 224, कुल 735 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः १६५
तथोक्तास्त एव तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः शय्यां जहति त्यजन्ति । येषां स्तम्बेरमाणां । दन्ताः कोशा इव दन्तकोशा दन्तकुड्मलास्तरुणारुणरागयोगाद् बालाकरुणः संपर्काद्धेतोर्भिन्नाद्रिगैरिकतटा इव विभान्ति ।
भाषार्थ—दोनों पार्श्वों से करवट लेकर नींद छोड़ने वाले, झनझनाती हुई सींकड़ों को खींचते हुए आपकी सेना के हाथी उठ गये । जिनके दांत उदय होते सूर्य की लाल किरणों के सम्पर्क से कटे हुए पर्वत के गेरु के टुकड़े के समान मालूम पड़ते हैं ॥ ७२ ॥
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥७३॥
अन्वयः—वनजाक्ष ! दीर्घेषु पटमण्डपेषु नियमिताः वनायुदेश्याः वाहाः निद्रां विहाय पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वक्त्रोष्मणा मलिनयन्ति ।
दीर्घेष्वित । हे वनजाक्ष ! नीरजाक्ष ! दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः । अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्वाद्यानि सैन्धवशिलाशकलानि । वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति ।
भाषार्थ—हे कमलनेत्र ! अज ! वस्त्रों से बनी हुई अश्वशालाओं में बन्धे हुए पारस देश में उत्पन्न ये आपके घोड़े निद्रा त्याग करके आगे रखे हुये चाटने लायक सेंधव नमक के टुकड़ों को अपने मुख की भाप से मलिन कर रहे हैं ॥७३॥
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥
अन्वयः—म्लानपुष्पोपहारः विरलभक्तिः भवति, प्रदीपाः स्वकिरणपरिवेषोद्भेदशून्याः भवन्ति, अपि च अयं पञ्जरस्थः ते शुकः त्वत्प्रबोधप्रयुक्ताम् नः गिरम् अनुवदति ।
भवतीति । म्लानः पुष्पोपहार पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति । प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति । निस्तेजस्का भवन्तीत्यर्थः । अपि चायं मञ्जुवाङ् मधुरवचनः पञ्जरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्तेन प्रयुक्तामुच्चारितां नोऽस्माकं गिरं वाणीमनुवदति । अनुकृत्य वदतीत्यर्थः ।
भाषार्थ—रात्रि के समय उपहार में आये हुए पुष्पों के मुरझा जाने से उनकी रचना शिथिल हो रही है, प्रकाश हो जाने के कारण दीपक अपने प्रभामण्डल के प्रकाश से रहित हो रहे हैं और मधुर बोलने वाला पिंजरों में रखा हुआ आपका