भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 228, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 228

षष्ठः सर्गः । १६६

तास्विति । तासु राजपरम्परासु श्रिया लक्ष्म्या कर्त्र्या पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः तरङ्गेषु तरिणिरिव स्वयमेव प्रत्येकं संक्रामित इत्यर्थः । प्रभावशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्द्योतिष्ट । ''द्युद्भ्यो लुङि' परस्मैपदम् । द्युतादित्वादङ्प्रत्ययः । तस्मिन्समये प्रत्येकं संक्रान्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ।

भाषार्थं—वहाँ बैठे हुए राजाओं के वेषभूषा के चाकचिक्य से आँखें चौंधिया जाती थीं और ऐसा मालूम पड़ता था कि सौन्दर्य-लक्ष्मी ने अपनी शोभा को उन राजाओं में इस प्रकार बाँट दिया है जिस प्रकार बिजली अपनी चमक को बादलों में बाँट देती है ॥ ५ ॥

तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुनूनुरेव कल्पद्रुमाणामिव पारिजातः ॥ ६ ॥

अन्वयः—महार्हासनसंस्थितानां उदारनेपथ्यभृतां तेषां मध्ये कल्पद्रुमाणां मध्ये पारिजात इव स रघुसूनुः एव धाम्ना रराज ।

तेषामिति । महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम् उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव । 'पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।।' इत्यमरः । स रघुसूनुरेव धाम्ना तेजसा । 'भूम्ना' इति पाठेऽतिशयेनेत्यर्थः । रराज । अत्र कल्पद्रुमशब्दः पञ्चान्यतमविशेषवचनः उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम् । कल्पा इव द्रुमा कल्पद्रुमा इति विग्रहः ।

भाषार्थं—बहुमूल्य सिंहासनों पर बैठे हुए सुन्दर वेश बनाकर उन राजाओं के बीच में विराजमान केवल एक रघुकुमार अज ही नन्दनवन के वृक्षों में पारिजात के समान अपने तेज से अधिक सुशोभित हो रहे थे ॥ ६ ॥

नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ ७ ॥

अन्वयः—पौरजनस्य नेत्रव्रजाः सर्वान् नृपान् विहाय रेचितपुष्पवृक्षा द्विरेफा मदोत्कटे वन्ये गन्धद्विपे इव तस्मिन् निपेतुः ।

नेत्रेति । पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः । स इव सर्वोत्कर्षेण ददृशे इत्यर्थः । कथमिव मदोत्कटे मदेनोद्भिन्नागण्डो निर्भरमदे ।

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 228, कुल 735 में से · BharatKosha