रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 227, कुल 735 में से
संदर्भ में पढ़ें१६८ | रघुवंशमहाकाव्ये
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ ३ ॥
अन्वयः—असौ कुमारः वैदर्भनिर्दिष्टं मञ्चं क्लृप्तेन सोपानपथेन मृगराजशावः शिलाविभङ्गैः नगोत्सङ्गं इव आरुरोह ।
वैदर्भेति । असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मंचं पर्यङ्कं क्लृप्तेन सुविहितेन सोपानपथेन मृगराजशावः सिंहपोतः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ।' इत्यमरः । शिलानां विभङ्गैर्भङ्गीभिस्तुङ्गमग्रमुन्नतं नगोत्सङ्गं शैलाग्रमिव आरुरोह ।
भाषार्थ—वे राजकुमार अज, विदर्भ नरेश भोज के द्वारा बताये गये मञ्च पर सुन्दर ढङ्ग से बनाई गई सीढ़ियों से इस प्रकार चढ़ गये, जिस प्रकार सिंह का बच्चा एक-एक चट्टानों पर पैर रखता हुआ ऊंचे पहाड़ के ऊपर चढ़ जाता हो ॥ ३ ॥
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान् रत्नवदासनं सः ।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ४ ॥
अन्वयः—परार्ध्य वर्णास्तरणोपपन्नं रत्नवद् आसनं आसेदिवान् स मयूरपृष्ठाश्रयिणा गुहेन भूयिष्ठं उपमेयकान्तिः आसीत् ।
परार्ध्येति । परार्ध्याः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनोपपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्ठितवान्सोऽजः मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह । 'सेनानीरग्निभूर्गुहः ।' इत्यमरः । भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत् । मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य, तद्द्वारा च तदारूढयोरपीति भावः ।
भाषार्थ—राजकुमार अज का वह सिंहासन सोने का बना हुआ था उसमें अनेक प्रकार के रत्न जड़े हुए थे एवं उस पर रंग-बिरंग के बहुमूल्य मखमली वस्त्र बिछे हुए थे । उस पर बैठे हुए अज इस प्रकार सुन्दर लग रहे थे मानों कार्तिकेय अपने मोर की पीठ पर बैठे हों ॥ ४ ॥
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पंक्तिषु विद्युतेव ॥ ५ ॥
अन्वयः—पयोमुचां पङ्क्तिषु विद्युता सहस्रधा विभक्त आत्मा इव तासु राजपरम्परासु श्रिया सहस्रधा विभक्तः प्रभाविशेषोदयदुर्निरीक्ष्य आत्मा व्यरुचत्।