भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 226, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 226

षष्ठः सर्गः

जाह्नवी मूर्ध्नि पादे वा कालः कंठे वपुष्यथ ।
कामारि कामतातं वा कंचिदेकं भजामहे ॥

स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थानुपचारवत्सु ।
वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥ १ ॥

**अन्वयः—**सः उपचारवत्सु मञ्चेषु सिंहासनस्थान् मनोज्ञवेषान् वैमानिकानाम् मरुतां आकृष्टलीलान् नरलोकपालान् अपश्यत् ।

स इति । सोऽजस्तत्र स्थाने उपचारवत्सु राजोपचारवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान्मनोज्ञवेषान्मनोहरनेपथ्यान्वमानिकानां विमानैश्चरताम् । ‘चरति’ इति ठक्प्रत्ययः । मरुताममराणाम् ‘मरुतो पवनामरो’ इत्यमरः । आकृष्टलीलान्गृहीतसौभाग्यान् आकृष्टमरुल्लीलानित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । नरलोकं पालयन्तीति नरलोकपालाः । कर्मण्यण्प्रत्ययः । तान्भूपालानपश्यत् सर्गेऽस्मिन्नुपजातिश्छन्दः ।

**भाषार्थ—**स्वयम्बर में जाकर अज ने देखा कि राजकीय साधनों से सजाये गये मंचों पर उत्कृष्ट वेष बनाकर बैठे हुए राजा लोग ऐसे सुन्दर लग रहे हैं मानों विमानों पर देवता लोग बैठे हुए हों ॥ १ ॥

रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
काकुत्स्यमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ २ ॥

**अन्वयः—**रतेः गृहीतानुनयेन ईश्वरेण प्रत्यर्पितस्वाङ्गं कामम् स्थितं काकुत्स्थं आलोकयताम् नृपाणां मनः इन्दुमतीनिराशं बभूव ।

रतेरिति । ‘रतिः स्मरप्रियायां च रागे च सुरते स्मृता’ इति विश्वः । रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन गृहीतरत्यनुनयेनेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भी निःस्पृहं बभूव । इन्दुमतीं सत्पतिमेनं विहाय नास्मान्वरिष्यतीति निश्चिक्युरित्यर्थः । सर्वातिशयसौन्दर्यमस्येति भावः ।

**भाषार्थ—**कामदेव की पत्नी रति की प्रार्थना को स्वीकार करके भगवान् शंकर से पुनः अपने शरीर को प्राप्त किये हुए कामदेव के समान सुन्दर अज को देखकर राजाओं का मन इन्दुमती के प्रति निराश हो गया ॥ २ ॥