रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 239, कुल 735 में से
संदर्भ में पढ़ें| : १८० | रघुवंशमहाकाव्ये |
|---|
**भाषार्थ—**स्वभाव से ही भिन्न-भिन्न स्थानों में रहने वाली लक्ष्मी और सरस्वती दोनों इस राजा के पास एक साथ रहती हैं। अर्थात् ये राजा विद्वान् एवं धनवान् दोनों ही हैं। हे कल्याणि ! तुम सुन्दर भी हो और मधुर भाषिणी भी हो इसलिए तुम इन दोनों के साथ तीसरी बनकर रहो अर्थात् इस राजा को वरण करो ॥ २९ ॥
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ ३० ॥
**अन्वयः—**अथ कुमारी अङ्गराजात् चक्षुः अवतार्य त्वं याहि इति जन्यां अवदत् । असौ काम्यः न इति न, सा च सम्यक् द्रष्टुं न वेद, इति न, हि लोकः भिन्नरुचिः भवति ।
अथेति । अथ कुमार्याङ्गराजाच्चक्षुरवतार्य अपनीयेत्यर्थः । जन्यां मातृसखीम् 'जन्या मातृसखीमुदोः' इति विश्वः । सुनन्दां याहि गच्छेत्यवदत् । 'यातेति जन्यामवदत्' इति पाठे जनीं वधूं बहन्तीति जन्या वधूबान्धवः तां यात गच्छतेत्यवदत् । 'जन्यो वरवधूज्ञातिप्रियतुल्यहितेऽपि च' इति विश्वः । अथवा जन्या वधूभृत्याः । 'जन्यो नवोढायाः' इति केशवः संज्ञायां "जन्या" इति यत्प्रत्ययान्तो निपातः । यदत्राह वृत्तिकारः—'जनीं बधूं बहन्तीति जन्यां जामातुर्वयस्याः' इति यच्चामरः—'जन्याः स्निग्धा वरस्य ये' इति तत्सर्वमुपलक्षणार्थमित्यविरोधः । न चायमङ्गराजनिषेधो, दृश्यदोषान्नापिदृष्टिदोषादित्याह—नेत्यादिना । असावङ्गराजः काम्यः न कमनीयो, नेति किन्तु काम्य एवेत्यर्थः । सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न वेदैवेत्यर्थः । किन्तु लोको जनो भिन्नरुचिर्हि रुचिरमपि किञ्चित्कस्मैचिन्न रोचते । किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ।
**भाषार्थ—**इसके बाद राजकुमारी इन्दुमती ने उस अङ्गराज से अपनी दृष्टि हटाकर सुनन्दा से कहा—आगे चलो । यह बात नहीं थी कि वह राजा सुन्दर न था और न यही बात थी कि इन्दुमती ने उसे ठीक से देखा ही न हो किन्तु लोग भिन्न-भिन्न रुचिवाले होते हैं कोई किसी को चाहता है कोई किसी को ।
ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥ ३१ ॥
**अन्वयः—**ततः प्रतिहारभूमौ नियुक्ता द्विषद्भिः दुष्प्रसहं परं विशेषदृश्यं नृपं नवोत्थानं इन्दुमत्यै निदर्शयामास ।