भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 242, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 242

षष्ठः सर्गः १८५

अन्वयः—उत्तमसौकुमार्या सा अभिद्योतितबन्धुपद्मे प्रतापसंशोषित शत्रुपङ्के तस्मिन् कुमुद्वती भानुमती इव भावं न बबन्ध ।

तस्मिन्निति । उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन् प्रतापेन तेजसा संशोषिताः एव पङ्काः कर्दमा येन तस्मिन्नवन्तिनाथे कुमुद्वतीम् । "कुमुदनड्वेतसेभ्यो ड्मतुप्" इति ड्मत्तुप्प्रत्यय भानुमत्यंशुमतीव भावं चित्तं न बबन्ध न तत्रानुरागमकरोदित्यर्थः । पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ।

भाषार्थ—अत्यन्त सुकुमारी उस कुमारी इन्दुमती को मित्रों को प्रसन्न करने बाला और शत्रुओं का संहारक वह प्रतापी राजा उसी प्रकार अच्छा नहीं लगा जिस प्रकार कुमुदिनी को वह सूर्य अच्छा नहीं लगता जो कमलों को खिलाता है और कीचड़ को सुखा देता है ॥ ३६ ॥

तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥ ३७ ॥

अन्वयः—सुनन्दा तामरसान्तराभां गुणैः अनूनां विधातुः ललितां सृष्टिं सुदतीं तां अनूपराजस्य अग्रतः विधाय भूयः जगाद ।

तामिति । सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्ति कनकगोरीमित्यर्थः । गुणैरनूनाम् अधिकामित्यर्थः । शोभना दन्ता यस्याः सा सुदती । "वयसि दन्तस्य दतृ" इति दत्तादेशः । "उगितश्च" इति ङीप् । तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टि मधुरनिर्माणां स्त्रियमित्यर्थः । अनुगता आपो येषु तेऽनूपा नाम देशाः । "ऋक्पूरब्ध्रुः पथामनक्षे" इत्यप्प्रत्ययः समासान्तः । "ऊदनोर्देशे" इत्यूदादेशः । एनां राज्ञोनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ।

भाषार्थ—कमल के समान कान्तिवाली, गुणों से परिपूर्ण, ब्रह्मा की मनोहर रचना और सुन्दर दांतों वाली उस इन्दुमती को वहाँ से अनूप देश के राजा के सामने ले जाकर सुनन्दा फिर बोली ॥ ३७ ॥

सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिश्वातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्त्तवीर्यः ॥ ३८ ॥

अन्वयः—संग्रामनिविष्टसहस्रबाहुः अष्टादशद्वीपनिश्वातयूपः अनन्यसाधारणराजशब्दः योगी कार्त्तवीर्यः बभूव किल ।

सङ्ग्रामेति । सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः । अष्टादशसु द्वीपेषु निखाता स्था-