रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 278, कुल 735 में से
संदर्भ में पढ़ेंसप्तमः सर्गः | २१६
जिस प्रकार अमावस्या के अन्त में सूर्य के पास से चन्द्रमा लौट जाते हैं उसी प्रकार तीनों लोक में प्रसिद्ध अज के साथ मार्ग में तीन रात बिताकर विदर्भ नरेश भोज लौट गये ॥ ३३ ॥
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥ ३४ ॥
अन्वयः— नृपाः प्राक् अपि आत्तस्वतया कोसलेन्द्रे प्रमन्यवः बभूवुः, अतः समेताः (सन्तः) तदात्मजस्य स्त्रीरत्नलाभं न चक्षमिरे ।
प्रमन्यव इति । नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः । अतो हेतोः स्वयंवरार्थं समेताः सङ्गताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ।
भाषार्थ— रघु ने अपने दिग्विजय के समय सभी राजाओं का धन छीन लिया था इसलिए वे सब उनके पहले से ही विरोधी हो चुके थे । इस कारण स्वयंवर में एकत्र सम्मिलित हुए वे सभी राजे इस समय रघु के पुत्र अज का स्त्रीरत्नलाभ सहन नहीं कर सके ॥ ३४ ॥
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टं श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ३५ ॥
अन्वयः— दृप्तः सः राजन्यगणः भोजकन्याम् उद्वहन्तं तं बलिप्रदिष्टां श्रियम् आददानं त्रैविक्रमे पादम् इन्द्रशत्रुः इव पथि रुरोध ।
तमिति । दृप्त उद्धतः स राजन्यगणो राजसङ्घातः भोजकन्यामुद्वहन्तं नयन्तं तमजं बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुर्वाणं त्रिविक्रमस्येमं त्रैविक्रमं पादमिन्द्रशत्रुः प्रह्लाद इव पथि रुरोध । तथा च ब्रह्माण्डपुराणे— ( विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन् । विष्णोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह । ) इति ॥
भाषार्थ— जिस प्रकार बलि द्वारा दी गई लक्ष्मी को ग्रहण करते समय इन्द्रशत्रु प्रह्लाद ने वामन के चरण को बीच में ही रोक लिया था उसी प्रकार इन्दुमती को ले जाते हुए अज को उस उद्धत राजसमूह ने रास्ते में रोक लिया ।
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः ॥ ३६ ॥
अन्वयः — सः कुमारः तस्याः रक्षार्थम् अनल्पयोधं पित्र्यं सचिवम् आदिश्य उत्तरङ्गः शोणः भागीरथीम् इव, तां पार्थिववाहिनीम् प्रत्यग्रहीत् ।