रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 279, कुल 735 में से
संदर्भ में पढ़ें२२० रघुवंशमहाकाव्ये
तस्या इति। स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहुभटं पितु- रागतः पित्र्यम् आप्तमित्यर्थः। सचिवमादिश्याज्ञाप्य तां पार्थिववाहिनीं राज- सेनाम्। 'ध्वजिनी वाहिनी सेना' इत्यमरः। भागीरथीमुत्तरङ्गः शोणः शोणा- ख्यो नद इव प्रत्यग्रहीदभियुक्तवान्।
**भाषार्थ—**वह अज इन्दुमती की रक्षा के लिए बहुत से योद्धाओं के साथ पिता के समय से ही वर्तमान विश्वासपात्र मन्त्री को नियुक्त कर स्वयं उस सेना को रोककर उसी प्रकार खड़े हो गये, जिस प्रकार बाढ़ के समय विशाल तरङ्गों वाला सोनभद्र गंगाजी की धारा को रोक देता है ॥ ३६ ॥
पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ३७ ॥
**अन्वयः—**पत्तिः पदातिं रथेशः रथिनं तुरङ्गसादी तुरगाधिरूढं गजस्य यन्ता गजस्थम् अभ्यपतत् इत्थं तुल्यप्रतिद्वन्द्वि युद्धम् बभूव।
पत्तिरिति। पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत् पदा पादाभ्या- मततीति पदातिः। "पादस्य पदाज्यातिगोपहितेषु" इत्यनेन पदादेशः। 'पदाति- पत्तिपदगपादातिकपदाजयः' इत्यमरः। रथेशो रथिको रथिनं रथारोहम- भ्यपतत् तुरङ्गसाद्यश्वारोहस्तुरङ्गाधिरूढमश्वारोहमभ्यपतत्। 'रथिनः स्यन्दना- रोहा अश्वारोहास्तु सादिनः' इत्यमरः। गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुष- मभ्यपतत्। इत्यनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव। अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः 'द्वन्द्वं कलहयुग्मयोः' इत्यमरः।
**भाषार्थ—**दोनों दलों में युद्ध शुरू हो गया पैदल पैदलों से भिड़ गये, रथ वाले रथ वालों से जूझ गये, घुड़सवार घुड़सवारों से उलझ पड़े, हाथी सवार हाथी सवारों पर टूट पड़े, इस प्रकार दोनों दलों में बराबर जोर का युद्ध होने लग गया ॥ ३७ ॥
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान्।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ३८ ॥
**अन्वयः—**तूर्येषु नदत्सु सत्सु अविभाव्यवाचः चापभृतः कुलोपदेशान् न, उदीरयन्ति स्म, परस्परस्य ऊर्जितम् नाम बाणाक्षरैः एव शशंसुः।
नदत्स्विति। तूर्येषु नदत्सु सत्स्वविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोच्चा-