रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 281, कुल 735 में से
संदर्भ में पढ़ें| २२२ | रघुवंशमहाकाव्ये |
|---|
पड़ती थी कि मानों वर्षा का गंदला पानी पीती हुई सच्ची मछलियाँ हैं ॥ ४०॥
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ४१ ॥
अन्वयः—सैनिकैः सान्द्रे रजसि रथाङ्गध्वनिना रथः विजज्ञे नागः विलोलघण्टाक्वणितेन विजज्ञे आत्मपरावबोध स्वभर्तृनामग्रहणात् बभूव ।
रथ इति । सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नादेन विजज्ञे । आत्मपरावबोधः स्वपरविवेकः योधानामिति शेषः । स्वभर्तॄणां स्वस्वामिनां नामग्रहणात्नामोच्चारणाद्बभूव । रजोन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजघ्नुरित्यर्थः ।
भाषार्थ—उस युद्ध में धूली इतनी छा गई कि पहियों के शब्द को सुनकर ही मालूम पड़ता था कि रथ आ रहा है, बजती हुई घंटाओं की ध्वनि से हाथी मालूम पड़ते थे और अपने तथा पराये का ज्ञान तब होता था जब दोनों दलों के सैनिक अपने २ राजाओं का नाम ले लेकर युद्ध करते थे ॥ ४१ ॥
आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ४२ ॥
अन्वयः—लोचनमार्गम् आवृण्वतः आजौ विजृम्भितस्य रजोऽन्धकारस्य शस्त्रक्षताश्वद्विपवीरजन्मा रुधिरप्रवाहः बालारुणः अभूत् ।
आवृण्वत इति । लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः आजौ युद्धे विजृम्भितस्य व्याप्तस्य रज एवान्धकारं तस्य शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत् । 'अरुणो भास्करेऽपि स्यात्' इत्यमरः । बालविशेषणं रुधिरसावर्ण्यम् ।
भाषार्थ—नेत्रपथ को आच्छादित करने वाला, और युद्धस्थल में व्याप्त, धूलिरूपी अन्धकार को दूर करने के लिए शस्त्रों से कटे हुए घोड़े हांथी और योद्धाओं के शरीर से निकला हुआ रुधिर प्रवाह उत्पन्न प्रातःकाल के सूर्य के समान लाल मालूम पड़ता था ॥ ४२ ॥
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवावभासे ॥ ४३ ॥
अन्वयः—क्षतजेन च्छिन्नमूलः तस्य उपरिष्टात् पवनावधूतः सः रेणु अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितः धूमः इव आवभासे ।