रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 282, कुल 735 में से
संदर्भ में पढ़ेंसप्तमः सर्गः | २२३
स इति । क्षतजेन रुधिरेण छिन्नमूलः त्याजितभूतलसम्बन्ध इत्यर्थः । तस्य क्षतजस्योपरिष्टात्पवनावधूतो वाताहतः स रेणुः अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव आबभासे दिदीपे ।
भाषार्थ—उस समय पृथ्वी पर इतना रुधिर बहा कि नीचे की धूल दब गई और ऊपर की धूल वायु के सहारे इधर-उधर फैल कर इस तरह लगती थी मानों अग्नि से ऊपर उठकर धूआँ ऊपर फैल गया है नीचे केवल अंगार मात्र शेष अग्नि रह गया है ॥ ४३ ॥
प्रहारमूर्च्छापगमे रथस्थ्या यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४ ॥
अन्वयः—रथस्थाः प्रहारमूर्च्छाऽपगमे निवर्तिताश्वान् यन्तॄन् उपालभ्य यैः सादिताः लक्षितपूर्वकेतून् तान् एव सामर्षतया निजघ्नुः ।
प्रहारेति । रथस्था रथिनः प्रहारेण या मूर्च्छा तस्या अपगमे इति मूर्च्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा निवर्तिताश्वान्यन्तॄन्सारथीनुपालभ्यासाधु कृतमित्यधिक्षिप्य पूर्वं यैः स्वयं सादिता हता लक्षितपूर्वकेतून् पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः । तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजहुः ।
भाषार्थ—जो योद्धा अपने प्रतियोद्धा के प्रहार से मूर्च्छित हो गये थे उनको उनके सारथी लेकर युद्धस्थल से बाहर चले गये, पर जब उनकी मूर्च्छा छूटी तब वे अपने सारथी को भला बुरा कहने लगे और जिनसे घायल हुए थे उन्हें रथ की पताका से पहचान कर उनके ऊपर क्रोध से प्रहार करने लगे ॥ ४४ ॥
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
सम्प्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५ ॥
अन्वयः—हस्तवतां धनुर्भृतां पृषत्का अर्धमार्गे परबाणलूनाः अपि आत्मजवानुवृत्त्या फलिभिः पूर्वार्द्धभागैः शरव्यम् एव सम्प्रापुः ।
अपीति । अर्धञ्चासौ मार्गश्च अर्धमार्गस्तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या पूर्वार्धभागैः शृणातीति शरः तस्मै हितं शरव्यं लक्ष्यम् । "दगवादिभ्यो यत्" इति यत्प्रत्ययः । 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । सम्प्रापुरेव । न तु मध्ये पतिता इत्यर्थः ।
भाषार्थ—सिद्धहस्त धनुर्धारियों से छोड़े गये बाण यद्यपि शत्रुओं के बाणों