भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 284, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 284

सप्तमः सर्गः | २२५

तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः । उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥ ४८ ॥

अन्वयः—तनुत्यजां वर्मभृतां बृहत्सु दन्तेषु पतद्भिः विकोशैः असिभिः उद्यन्तम् अग्निं विविग्नाः गजाः करशीकरेण शमयाम्बभूवुः ।

तनुत्यजामिति । तनुत्यजां तनुषु निस्पृहाणामित्यर्थः । वर्मभृतां कवचिनां सम्बन्धिभिर्वृहत्सु दन्तेषु पतद्भिरत एव विकोशैः विधानादुद्धृतैः । 'कोशोऽस्त्री कुड्ग्मले खड्गविधाने' इत्यमरः । असिभिः खङ्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयाम्बभूवुः शान्तं चक्रुः ।

भाषार्थ—अपने प्राणों की परवाह न करके लड़ने वाले कवचधारी योद्धाओं की नंगी तलवारों से हाथियों के बड़े २ दांतों पर प्रहार करने पर उनसे चिनगारियां निकलने लगीं, उनसे डर कर व्याकुल हाथी अपने सूँड के पानी से उस आग को बुझाने लगे ॥ ४८ ॥


शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥ ४९ ॥

अन्वयः—शिलीमुखोत्कृत्तशिरः फलाढ्या च्युतैः शिरस्त्रैः चषकोत्तरा इव शोणितमद्यकुल्या रणक्षितिः मृत्योः पानभूमिः इव रराज ।

शिलीमुखेति । शिलीमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या सम्पन्ना च्युतैर्भ्रष्टैः शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि । शीर्षण्यं च 'शिरस्त्रेऽथ' इत्यमरः । तैश्चषकोत्तरा 'चषकः' पानपात्रमुत्तरं यस्यां सेव । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ।

भाषार्थ—वह युद्ध-स्थल मृत्यु के उस मदिरापान स्थल के समान मालूम पड़ रहा था जिसमें बाणों से कटे हुए सिर ही मानों फल हों, उलटे गिरे हुए मुकुट ही पान-पात्र हों, बहता हुआ रुधिर ही मानों मदिरा हो ॥ ४९ ॥


उपान्तयोर्निष्कुषितं विहङ्गैर्राक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदसपावकार ॥ ५० ॥

अन्वयः—विहङ्गैः उपान्तयोः निष्कुषितं भुजच्छेदं तेभ्यः आक्षिप्य पिशितप्रिया अपि शिवा केयूरकोटिक्षततालुदेशा सती अपाचकार ।

उपान्तयोरिति । उपान्तयोः प्रान्तयोर्विहङ्गैः पक्षिभिर्निष्कुषितं खण्डितम् । "इणिष्ठायाम्" इतीडागमः । भुजच्छेदं भुजखण्डं तेभ्यो विहङ्गेभ्य आक्षिप्याच्छिद्य पिशितप्रियाऽपि शिवा क्रोष्ट्री । 'शिवः कीलः शिवा क्रोष्ट्री' इति विश्वः । केयूर-

१५ र० सम्पू०