भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 285, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 285
२२६रघुवंशमहाकाव्ये

कोट्याऽङ्गाग्रेण क्षतस्तालुदेशो यस्याः सा सती अपाचकारापसारयामास । किरतेः करोतेर्वा लिट् ।

**भाषार्थ—**पक्षियों से दोनों तरफ चोंच मारे गये हाथ के टुकड़े को उनसे छीन कर सियारिन ज्यों ही खाने लगी त्यों ही बांह में बँधे हुए बिजायठ का नुकीला अग्र भाग उसके तालु में गड़ गया । जिससे मांसप्रिय होने पर भी वह उसे छोड़कर चली गई ॥ ५० ॥

कश्चिद्द्विषत्खड्गहतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गना स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ५१ ॥

**अन्वयः—**द्विषत्खड्गहतोत्तमाङ्गः कश्चित् सद्यः विमानप्रभुताम् उपेत्य वामाङ्गसंसक्तसुराङ्गनाः सन् समरे नृत्यत् स्वं कबन्धं ददर्श ।

कश्चिदिति । द्विषतः खङ्गेन हतोत्तमाङ्गश्छिन्नशिराः । 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । कश्चिद्वीरः सद्यो विमानप्रभुतां विमानधिपत्यं देवत्वमित्यर्थः । उपेत्य प्राप्य वामाङ्गसंसक्तः सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन् । अग्निपुराणे 'वाराप्सरः सहस्राणि भूपमायोधने हतम् । त्वरितान्युपधावन्ति मम भर्त्ता ममेति च ।' इति समरे नृत्यत्स्वं निजं कबन्धं विशिरष्कं कलेवरं ददर्श । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः ।

**भाषार्थ—**शत्रु की तलवार से एक योद्धा का शिर कट गया । युद्ध में मृत्यु होने के कारण वह योद्धा तत्काल देवता हो गया और अपने बायें तरफ एक अप्सरा को लिए हुए विमान पर बैठकर युद्ध स्थल में नाचते हुए अपने धड़ को देखने लगा ॥ ५१ ॥

अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥ ५२ ॥

**अन्वयः—**कौचित् अन्योन्यसूतोन्मथनात् तौ एव सूतौ रथिनौ च अभूताम् व्यश्वौ (सन्तौ) गदाव्यायतसम्पहारौ अभूताम् भग्नायुधौ (सन्तौ) बाहुविमर्द्दनिष्ठौ (अभूताम्) ।

अन्योन्येति । कौचिद्वीरावन्योऽन्यस्य सूतयोः सारथ्योरुन्मथनान्निघनात्तावेव सूतौ रथिनो योद्धारौ चाभूताम् । तावेव व्यश्वौ सन्तो गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम् । ततो भग्नायुधौ भग्नगदौ सन्तो बाहुविमर्दे निष्ठा नाशो ययोस्तो बाहुयुद्धासक्तावभूताम् । 'निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः ।