भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 289, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 289

२३० रघुवंशमहाकाव्ये

सब प्रकार के तीक्ष्ण अस्त्रों से और सर्वप्रकार के उपायों द्वारा एक साथ अज पर प्रहार करने लगे ॥ ५९ ॥

सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ६० ॥

अन्वयः—परेषाम् अस्त्रव्रजैः छन्नरथः सः नीहारमग्नः दिनपूर्वभागः किञ्चित्प्रकाशेन, विवस्वता इव ध्वजाग्रमात्रेण लक्ष्यः बभूव ।

स इति । परेषां द्विषामस्त्रव्रजैः शस्त्रसमुदायैश्छन्नरथः सोऽजः नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकाल किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव आच्छादितरथः ध्वजाग्रमात्रेण लक्ष्यो बभूव । ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ।

भावार्थ—इन राजाओं ने अज पर इतना बाण बरसाया कि उनके अस्त्रों से अज का रथ ढँक गया । जिस प्रकार कुहरे की दिनों में सुबह होने का ज्ञान धुंधले प्रकाश वाले सूर्य को देखकर होता है उसी प्रकार उसके रथ का ज्ञान पताका के सिरे को देखकर ही होता था ॥ ६० ॥

प्रियंवदात्प्राप्तमसौ कुमारः प्रामुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलोलः ॥ ६१ ॥

अन्वयः—अधिराजसूनुः कुसुमास्त्रकान्तः स्वप्ननिवृत्तलौल्यः असौ कुमार प्रियंवदात् प्राप्तं प्रस्वापनं गान्धर्वम् अस्त्रं राजसु प्रामुङ्क्त ।

प्रियंवदादिति । अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नबितृष्णः । जागरूक इत्यर्थः । असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तगान्धर्वं गन्धर्वदेवताकम् । "सास्य देवता" इत्यण् । प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रामुङ्क्त प्रयुक्तवान् ।

भावार्थ—उसके बाद कामदेव के समान सुन्दर सदा सावधान रहने वाले उस रघुकुमार अज ने प्रियम्वद नाम के गन्धर्व से प्राप्त उस प्रस्वापन नामक गान्धर्व अस्त्र को हजारों के ऊपर चलाया जिससे उन्हें नींद आ जाती है ॥६१॥

ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२ ॥

अन्वयः—ततः धनुष्कर्षणमूढहस्तं एकांसपर्यस्तशिरस्रजालं ध्वजस्तम्भनिषण्णदेहम्, नरदेवसैन्यं निद्राविधेयं सत् तस्थौ ।

तत इति । ततो धनुष्कर्षणे चापकर्षगे मूढहस्तमव्यापृतहस्तम् एकस्मिन्नंसे