भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 290, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 290

सप्तमः सर्गः २३१

पर्यस्तं त्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत् । ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत् नरदेवानां राज्ञां सेनैव सैन्यं चातुर्वण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । निद्राविधेयं निद्रापरतन्त्रं तस्थौ । भावार्थ—गान्धर्वास्त्र के छोड़ते ही राजाओं की सेना सो गई, नींद से सैनिकों के हाथ ऐसे रुक गये कि वे अपने धनुष तक को नहीं खींच पाये उनकी पगड़ियाँ गिर कर एक तरफ कन्धे पर झूलने लगीं और शरीर पताका के खम्भों के सहारे स्थित हो गया ॥ ६२ ॥

ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः । तेन स्वहस्तार्जितमेकवीरः पिवन्यशो मूर्तमिवावभासे ॥ ६३ ॥ अन्वयः—ततः कुमारः प्रियोपात्तरसे अधरोष्ठे जलजं निवेश्य दध्मौ तेन एकवीरः स्वहस्तार्जितं मूर्तं यशः पिवन् इव आबभासे । तत इति । ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरसे आस्वादितमाधुर्ये अतिश्लाघ्य इति भावः । अधरोष्ठे जलजं शङ्खं निवेश्य । 'जलजं शङ्खपद्मयोः' इति विश्वः । दध्मौ मुखामारुतेन पूरयामास । तेनौष्ठनिविष्टेन शङ्खेनैवैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिवन्निवावभासे । यशसः शुभ्रत्वादिति भावः । भाषार्थ—इसके बाद अद्वितीय वीर कुमार अज ने अपनी प्रिया इन्दुमती के चुम्बन का रसास्वाद लेने वाले अधरोष्ठ पर शंख को रख कर बजाया । उस समय वे ऐसे जान पड़ते थे मानो अपने बाहुबल से उपार्जित मूर्तिमान् अपने यश को पी रहे हों ॥ ६३ ॥

शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रु ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमा शशाङ्कम् ॥ ६४ ॥ अन्वयः—स्वयोधाः शङ्खस्वनाभिज्ञतया निवृत्ताः सन्त निमीलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् इव सन्नशत्रुं तं ददृशुः । शङ्खेति । शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञातया प्रत्यभिज्ञत्वानिवृत्ताः प्राक्- पलाय्य संप्रति प्रत्यागताः स्वयोधाः, सन्नशत्रुं निद्राणशत्रुं तमजं निमीलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्र- मिव ददृशुः । भावार्थ—शंख की ध्वनि को पहचान कर लौटे हुए अज के सैनिकों ने सोते हुए शत्रुओं के बीच में अज को इस प्रकार देखा जिस प्रकार मुकुलित कमलों के बीच में चन्द्रमा चमक रहा हो ॥ ६४ ॥

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 290, कुल 735 में से · BharatKosha