रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 291, कुल 735 में से
संदर्भ में पढ़ें२३२ रघुवंशमहाकाव्ये
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ६५ ॥
अन्वयः—'सम्प्रति राघवेण वः यशः हृतं कृपया जीवितं तु न' इति वर्णाः तेन सशोणितैः शिलीमुखाग्रैः पार्थिवानां केतुषु निक्षेपिताः ।
सशोणितैरिति । संप्रति राघवेण रघुपुत्रेण पूर्वं रघुणेति भावः । हे राजानः ! वो युष्माकं यशो हृतम्, जीवितं तु कृपया न हृतम् । न त्वशक्त्येति भावः । इत्येवंरूपा वर्णाः एतदर्थप्रतिपादकं वाक्यमित्यर्थः । सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा पार्थिवानां राज्ञां केतुषु ध्वज-स्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः । लेखिता इत्यर्थः । क्षिपतेर्ण्यन्ता-त्कर्मणि क्तः ।
**भाषार्थ—**उन मूर्च्छित पड़े हुए राजाओं की पताकाओं पर रुधिर से लिप्त बाणों के अग्रभाग से अज ने यह लिखवा दिया कि हे राजाओ ! इस समय रघुपुत्र अज ने आप लोगों के यश को तो ले लिया किन्तु दया करके प्राण नहीं लिये ॥ ६५ ॥
स चापकोटिनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिबिन्दुभीतां प्रियामेत्य वचो बभाषे ॥ ६६ ॥
**अन्वयः—**चापकोटिनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ललाटबद्ध-श्रमवारिबिन्दुः सः भीतां प्रियां प्रेत्य वचः बभाषे ।
स इति । चापकोट्यां निहित एकबाहुर्येन स शिरस्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। 'चूडा किरीटो केशाश्च संयता मौलयस्त्रयः' इत्यमरः । ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ।
**भाषार्थ—**धनुष के एक छोर पर हाथ रखे हुए युद्ध कालीन टोप के हटा देने से बिखरे केश वाले और ललाट पर पसीने की बूंदों से युक्त वे अज युद्ध के देखने से डरी हुई अपनी प्रिया इन्दुमती के पास आकर बोले ॥ ६६ ॥
इतः परानर्भकहार्यशस्त्रान्वैदर्भि ! पश्यनुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममेतिः ॥ ६७ ॥
**अन्वयः—**हे वैदर्भि ! त्वं इतः अर्भकहार्यशस्त्रान् परान् पश्य, मया द्रष्टुम् त्वं अनुमता असि, एभिः एवंविधेन आहवचेष्टितेन मम हस्तगता त्वं प्रार्थ्यंसे ।