रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 313, कुल 735 में से
संदर्भ में पढ़ें२५४ रघुवंशमहाकाव्ये
इन्दुमती को उठाकर उसी प्रकार अपनी गोद में रख लिया जिस प्रकार गायक तार मिलाने के लिए वीणा को अपनी गोद में रख लेते हैं ॥ ४१ ॥
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ४२ ॥
अन्वयः—पतिः अङ्कनिषण्णया करणापायविभिन्नवर्णया तया उषसि आविलां मृगलेखां बिभ्रत् इव समलक्षत ।
पतिरिति । पतिरजोऽङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणां तदुपलक्षितस्य चैतन्यस्य वो अपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया "इत्थंभूतलक्षणे" इत्यनेन तृतीया । उषसि प्रातःकाले आविलां मलिनां मृगलेखां लाञ्छनं मृगरेखामुपं बिभ्रद्धारयंश्चन्द्रमा इव समलक्ष्यतादृश्यत । इत्युपमा ।
भाषार्थ—प्राण निकल जाने से शोभाहीन इन्दुमती को अपनी गोद में लिए हुए राजा अज उस प्रातःकालीन चन्द्रमा के समान दिखाई दे रहे थे जिनकी गोद में मलिन मृग की छाया हो ॥ ४२ ॥
- विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३ ॥
अन्वयः—सः सहजां अपि धीरताम् अपहाय बाष्पगद्गदं विललाप अभितप्तम् अयः अपि मार्दवं भजते शरीरिषु कथैव का अस्ति ।
विलापेति । सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्ये बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप परिदेवितवान् । 'विलापः परिदेवनम्' इत्यमरः । धीरस्य कुतः शोक इति चेदत् आह—अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु अभिसन्तप्तेष्विति शेषः । विषये कैव कथा वार्ता अनुक्तसिद्धमित्यर्थः ।
भाषार्थ—वे अज अपने स्वाभाविक धैर्य को छोड़कर आंसू से गद्गद होकर विलाप करने लगे, जब अचेतन लोहा भी अग्नि में तपाये जाने पर पिघल जाता है तब शोक से सन्तप्तप्राणियों का क्या कहना है ? ॥ ४३ ॥
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितं यदि ।
न भविष्यति हन्त ! साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ ४४ ॥
अन्वयः—कुसुमानि अपि गात्रसङ्गमात् आयुः अपोहितुं प्रभवन्ति यदि हन्त, प्रहरिष्यतः विधेः अन्यत् किं इव साधनं न भविष्यति ।