भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 312, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 312

अष्टमः सर्गः २५३

उभयोरिति। उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनातर्तर- वेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः। सरःस्थिता विहगा हंसाद- योऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव। चुक्रुशुः क्रोशन्ति स्म।

भावार्थ—अज और इन्दुमती के पास में वर्तमान सेवकों के रोने और चिल्लाने से उस उपवन के पक्षी भी उद्विग्न होकर चिल्लाने लगे, मानों उनके समान दुखी होकर वे समवेदना प्रकट कर रहे थे ॥ ३९ ॥

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४० ॥

अन्वयः—सेवकैः नृपतेः तमः व्यजनादिभिः नुनुदे। सा तु तथा एव संस्थिता हि प्रतिकारविधानम् आयुषः शेषे सति फलाय कल्पते।

नृपतेरिति। नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। आदिशब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथाहि प्रतिकारविधानं चिकित्साकरणं आयुषो जीवितकालस्य शेषे सति विद्यमाने। 'आयुर्जीवितकालो ना' इत्यमरः। फलाय सिद्धये कल्पत आरोग्याय भवति। "क्लृपि संपद्यमाने च" इति चतुर्थी। नान्यथा। नृपतेरायुः शेषसद्भावात्प्रतीकारस्य साफल्यं तस्यास्तु तदभावाद्वैफल्यमित्यर्थः।

भावार्थ—पंखा डुलवाना चन्दनमिश्रित जलसेक आदि ठण्डे उपचारों से किसी प्रकार अज की मूर्च्छा तो दूर हो गई, किन्तु इन्दुमती ज्यों की त्यों पड़ी रही क्योंकि दवा आयुशेष रहने पर ही काम करती है ॥ ४० ॥

प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ४१ ॥

अन्वयः—अथ नितान्तवत्सलः सः सत्त्वविप्लवात् प्रतियोजयितव्यवल्लकीसमवस्थाम् अङ्गनां परिगृह्य अङ्कं निनाय।

प्रतीति। अथ सत्त्वस्य चैतन्यस्य विप्लवाद्दिनाशाद्धेतोः। 'द्रव्यासुव्यवसायेषु सत्त्वम्' इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा तस्याः समावस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान्सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचित परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः।

भावार्थ—तब प्रिया के अत्यन्त प्रेमी उस अज ने चेतनाशून्य अपनी प्रियपत्नी