रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 317, कुल 735 में से
संदर्भ में पढ़ें| २५८ | रघुवंशमहाकाव्ये |
|---|
मनसेति । मया मनसापि तव विप्रियं न कृतपूर्वम् पूर्वं न कृतमित्यर्थः । सुप्सु पेति समासः । किं केन निमित्तेन मां जहासि त्यजसि । नन्वहं क्षितेः शब्दपतिः शब्दत एव पतिः । न त्वर्थत इत्यर्थः । भावनिबन्धनासाभिप्रायनिबन्धना स्वभाव-हेतुका मे रतिः प्रेम तु त्वय्येव अस्तीति शेषः ।
भाषार्थ—मैंने पहले कभी मन से भी तुम्हारा अप्रिय नहीं किया है तो मुझे क्यों छोड़ रही हो ? सत्य पूछो तो मैं नाम मात्र से पृथ्वी का पति हूँ, मेरा स्वाभाविक प्रेम तो तुम्हारे में ही है ॥ ५२ ॥
कुसुमोत्खचितान्वलीभृतश्चलयन् भृङ्गरुचस्तवालकान् ।
करभोरु ! करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३ ॥
अन्वयः—कुसुमोत्खचितान् वलीभृतः भृङ्गरुचः तव अलकान् चलयन् मारुतः हे करभोरु मे मनः त्वदुपावर्तनशङ्कि करोति ।
कुसुमेति । कुसुमैरुत्खचितानुत्कर्षेण रचितान्वलीभृतोभङ्गीयुक्तान् । कुटिला-नित्यर्थः । भृङ्गरुचो नीलांस्तवालकाञ्चलयन्कम्पयन्मारुतः हे करभोरु करभसह-शोरु ! ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः । मे मनस्त्वदुपावर्त-नशङ्कि तव पुनरागमने शङ्कावत्करोति । त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ।
भाषार्थ—हे करभोरु ! वायु से हिलती हुई, फूलों से गूँथी, भौरों के समान-काली और घुँघराली तुम्हारी लटों को देखकर मेरे मन में यह आशा होने लगती है कि अब तुम अवश्य जी उठोगी ॥ ५३ ॥
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥ ५४ ॥
अन्वयः—हे प्रिये ! त्वम् तत् आशु मे विषादं नक्तम् ओषधिः ज्वलितेन तुहिनाद्रेः गुहागतं तमः इव प्रतिबोधेन अपोहितुम् अर्हसि ।
तदिति । हे प्रिये ! तत्तस्मात्कारणदाशु मे विषादं दुःखं नक्तं रात्रावोषधि-स्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्ध-कारमिव प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ।
भाषार्थ—इसलिए हे प्रिये ! जिस प्रकार रात में चमकने वाली जड़ी बूटियाँ अपने प्रकाश से हिमालय की कन्दराओं का अन्धकार दूर कर देती हैं उसी प्रकार तुम भी जीवन धारण करके मेरे हृदय के विषाद को दूर करो ॥ ५४ ॥
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५ ॥