रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 318, कुल 735 में से
संदर्भ में पढ़ेंअष्टमः सर्गः २५१
अन्वयः— इदम् उच्छ्वसितालकं विश्रान्तकथं तव मुखं निशि सुप्तं विरताभ्यन्तरषट्पदस्वनम् एकपङ्कजम् इव मां दुनोति ।
इदमिति । इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं विवृत्तसंलापं तव मुखं निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत् । नि.शब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव मां दुनोति परितापयति ।
भाषार्थ— वायु में हिलते हुए घुँघुराले केशों वाला यह तुम्हारा मुख रात्रि के समय मुकुलित अन्दर भौरों के गुञ्जार से रहित एक कमल के समान मुझे पीड़ित कर रहा है ॥ ५५ ॥
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्त्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ५६ ॥
अन्वयः— शर्वरी शशिनं पुनः एति द्वन्द्वचरं पतत्त्रिणं दयिता पुनः एति इति तौ विरहान्तराक्षमौ स्तः, अत्यन्तगता त्वं तु मां कथं न दहेः ।
शशिनमिति । शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति द्वन्द्वचरः तं पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ । ‘अन्तरमवकाशावधिनान्तर्द्धिभेदतादर्थ्ये’ इत्यमरः । अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न मां दहेः । दहेरेवेत्यर्थः ।
भाषार्थ— हे प्रिये ! रात्रि चन्द्रमा को पुनः प्राप्त हो जाती है और चकवा चकवी का संयोग प्रातः काल में पुनः हो जाता है इसलिए ये दोनों अपनी प्रिया का वियोग सहन कर सकते हैं परन्तु तुम तो सदा के लिए सो गई हो फिर बताओ मैं विरह की आग में जलकर भस्म क्यों न हो जाऊँ ॥ ५६ ॥
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु ! चिताधिरोहणम् ॥ ५७ ॥
अन्वयः— हे वामोरु ! नवपल्लवसंस्तरे अपि मृदु ते यत् अङ्गं दूयेत तत् इदं चिताऽधिरोहणं कथ विषहिष्यते वद ।
नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु ! ‘वामं स्यात्सुन्दरे सव्ये’ इति केशवः । “सहितशफलक्षणवामादेश्च” इत्यादिनोङ्प्रत्ययः । तदिदमङ्गं चितायाः काष्ठसञ्चयस्याधिरोहणं कथं विषहिष्यते वद ।