भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 352, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 352

नवमः सर्गः २१३

ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ३६ ॥

अन्वयः-अङ्गनाः ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेशरं स्मरसखं मधुं पतिषु रसखण्डनवर्जितम् निर्विविशुः ।

ललितेति । अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरं सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितवकुलपुष्पम् । 'अथ केसरे बकुलः' इत्यमरः । स्मरस्य सखायं स्मरसखं स्मरोद्दीपकमित्यर्थः मधुं मद्यम् । 'मधुं मद्ये पुष्परसे' इत्यमरः । "अर्धर्चा पुंसि च" इति पुंल्लिगता । उक्तं च-'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥' इति । पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः । परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ।

भाषार्थ-विलास के उत्पादन में कुशल अपनी सुगन्ध से मौलेसरी को भी मात करने वाले कामवर्द्धक मद्य, को स्त्रियों ने अपने पतियों के विषय में अखण्डित प्रेम के साथ पान किया ॥ ३६ ॥

शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहङ्गमाः ॥ ३७ ॥

अन्वयः-विकचतामरसाः मदकलोदकलोलविहङ्गमाः गृहदीर्घिकाः स्मितचारुतराननाः श्लथशिञ्जितमेखलाः स्त्रियः इव शुशुभिरे ।

शुशुभिरे इति । विकचतामरसा विकसितकमलाः । मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहङ्गमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहङ्गमाः । गृहेषु दीर्घिका वाप्यः स्मितेन चारुतराण्याननानि यासां ताः "ईषद्विकसितैर्गण्डैः कटाक्षैःसौष्ठवोचितैः ।। अलक्षितं द्विजद्वारे सूत्तमानां स्मितं भवेत् ॥" इति नाट्यलोचने । श्लथाः शिञ्जिता मुखरा मेखला यासां ताः । शिञ्जितेति कर्तरि क्तः । स्त्रिय इव शुशुभिरे ।

भाषार्थ-घरों के अन्दर बनी हुई बावलियों में जो कमल खिले हुए थे और मधुर शब्द करते हुए हंसादि जल पक्षी तैर रहे थे, उनसे वे ऐसी सुन्दर जान पड़ती थी मानों उनमें मुस्कराती हुई सुन्दर मुखवाली और ढीली होने के कारण बहती हुई करधनी वाली स्त्रियां जल-बिहार रही हों ॥ ३७ ॥

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितायाऽनितया रजनीवधूः ॥ ३८ ॥