भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 383, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 383

३२४ | रघुवंशमहाकाव्ये

हृदयस्थमनासन्नमकामं त्वां तपस्विनम्।
दयालुमनघस्पृष्टं पुराणमजरं विदुः॥ १९॥

अन्वयः—( हे देव ! ) त्वां हृदयस्थं ( सन्तम् ) अनासन्नम्, अकामम् ( सन्तम् ) तपस्विनम्, दयालुं ( सन्तम् ) अनघस्पृष्टम्, पुण्यं ( सन्तम् ) अजरं विदुः।

हृदयेति। हे देव ! त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसन्निहितं तथाप्यनासन्नमगम्यरूपत्वाद्विप्रकृष्टं च विदुः । सन्कृष्टस्यापि विप्रकृष्टत्वमिति विरोधः । तथाऽकामं न कामोऽभिलाषोऽस्य तं परिपूर्णत्वान्निस्पृहत्वाच्च । निष्कामम् । तथापि तपस्विनं प्रशस्ततपोयुक्तं विदुः । यो निष्कामः स कथं तपः कुरुत इति विरोधः । परिहारस्तु ऋषिरूपेण दुस्तरं तपस्तप्यते । दयालुं परदुःखप्रहरणपरं तथाप्यनघस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः । “अघं दुरितदुःखयोः' इति विश्वः । दयालुरदुःखी नेति विरोधः “ईर्ष्या घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ।” इति महाभारते । पुराणमनादिमजरं निर्विकारत्वादक्षरं विदुः । चिरन्तनं न जीर्यत इति विरोधांलकारः । उक्तं च—“आभासत्वे विरोधस्य विरोधांलकृतिर्मता” इति । विरोधेन चालौकिकमहिमत्वं व्यज्यते ।

भाषार्थ—हे भगवन् ! ऋषि लोग आपको हृदयस्थ होने पर भी दूरवर्ती, निष्काम होने पर भी सकाम तपस्वी, दयालु होने पर भी दुःख से वर्जित पुण्य-पुरुष होने पर भी जरारहित जानते हैं ॥ १९ ॥

सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ २० ॥

अन्वयः—त्वं सर्वज्ञः ( सन् ) अविज्ञातः, त्वं सर्वयोनिः ( सन् ) आत्मभूः, त्वं सर्वप्रभुः ( सन् ) अनीशः, त्वम् एकः ( सन् ) सर्वरूपभाक् ।

सर्वज्ञ इति। त्वं सर्वं जानातीति सर्वज्ञः । “इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः । अविज्ञातः न केनापि विज्ञात इत्यर्थः । त्वं सर्वस्य योनिः कारणं । त्वमात्मन एव भवतीत्यात्मभूः स्वयंभूः । न ते किंचित्कारणमस्तीत्यर्थः । त्वं सर्वस्य प्रभुः त्वमनीशः त्वमेकः सर्वरूपभाक् । त्वनेक एव सर्वात्मना वर्तस इत्यर्थः ।

भाषार्थ—आप सबको जानते हैं पर आपको कोई भी नहीं जानता, आप सबके कारण हैं पर आपका कोई कारण नहीं है, आप सबके स्वामी हैं पर आपका कोई भी स्वामी नहीं है और आप एक होते हुए भी संसार के सब रूप धारण किये हुए हैं ॥ २० ॥