रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 420, कुल 735 में से
संदर्भ में पढ़ेंएकादशः सर्गः | ३६१
वीक्ष्य वेदिमथ रक्तविन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ २५ ॥
अन्वयः—अथ बन्धुजीवपृथुभिः रक्तबिन्दुभिः प्रदूषितां वेदीं वीक्ष्य अपोढकर्मणां च्युतविकङ्कतस्रुचां ऋत्विजां संभ्रमः अभवत् ।
वीक्ष्येति । अथ बन्धुजीवपृथुभिर्बन्धुजीवकुसुमस्थूलैः । 'रक्तकस्तु बन्धूको बन्धुजीवकः' इत्यमरः । रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य अपोढकर्मणां त्यक्तव्यापाराणां त्यक्तयज्ञकर्मणां च्युता विकङ्कतस्रुचो यज्ञपात्राणि येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत् । विकङ्कतग्रहणं खदिराद्युपलक्षणम् स्रुवादीनां खदिरादिप्रकृतिकत्वात् । स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात् । 'विकङ्कतः स्रुवां वृक्षः' इत्यमरः । यद्वा स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु उभयत्रापि शास्त्रसंभवात् । यथाह भगवानआपस्तम्बः--“खादिरः स्रवः पर्णमयीर्जुहूराश्वत्थ्युपभृद्वैवं कङ्कतीः सुचो वा” इति ।
भाषार्थ—इसके बाद यज्ञ की वेदी पर दुपहरिये के फूलों के समान बड़ी-बड़ी रक्त की बूंदें देख कर ऋत्विजो को बड़ा आश्चर्य हुआ और उन्होंने यज्ञ करना बन्द करके खैर के काष्ठ से बने अपने-अपने स्रुचों को नीचे रख दिया ॥ २५ ॥
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २६ ॥
अन्वयः—सपदि लक्ष्मणाग्रजः बाणम् आश्रयमुखात् समुद्धरन् उन्मुखः अम्बरे गृध्रपक्षपवनेरितध्वजम् रक्षसां बलं अपश्यत् ।
उन्मुख इति । सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात्समुद्धरन् । उन्मुख ऊर्ध्वमुखोऽम्बरे । गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम् । रक्षसां दुर्निमित्तसूचनमेतत् । तदुक्तं शकुनार्णवे—आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्ध्वभागे' इति । रक्षसां निशाचराणां बलमपश्यत् ।
भाषार्थ—उसी समय राम ने अपने तरकस ने बाण निकाला और ऊपर मुँह करके आकाश की ओर देखा कि राक्षसों की सेना उठी हुई खड़ी गीधों के पंखों की हवा से हिल रही है ॥ २६ ॥
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २७ ॥
अन्वयः—सः तत्र यो मखद्विषां अधिपती तौ शरव्यं अकरोत् इतरान् न महोरगविसर्पिविक्रमः गरुडः राजिलेषु प्रवर्तते किम् ।
तत्रेति । स रामस्तत्र रक्षसां बले यौ मखद्विषा मखं यज्ञं द्विषन्तीति तेषाम् ।