भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 421, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 421
३६२रघुवंशमहाकाव्ये

अधिपती तौ सुबाहुमारीचौ शरव्यं लक्ष्यमकरोत् । 'वेध्यं लक्ष्यं शरव्यं च' इति हलायुधः । इतरान्नाकरोत् । तथाहि महोरगविसर्पिविक्रमो गरुडो गरुत्मान्राजिलेषु जलव्यालेषु प्रवर्तते किम् । न प्रवर्तत इत्यर्थः । 'अलर्गर्दो जलव्यालः समौ राजिल-डुण्डुभौ' इत्यमरः ।

भाषार्थ— राम ने उस सेना में यज्ञविध्वंसक उन दो राक्षसों को अपना निशाना बनाया, जो उसके प्रधान थे, दूसरों को नहीं । क्या बड़े-बड़े सर्पों पर प्रहार करनेवाले गरुड जी भी छोटे-छोटे सर्पों पर प्रहार करते हैं ? अर्थात् नहीं ॥ २७ ॥

सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥ २८ ॥

अन्वयः— अस्त्रकोविदः स उग्रजवं वायुदैवतं अस्त्रं धनुषि संदधे । तेन शैलगुरुम् अपि ताडकासुतं पाण्डुपत्रं इव अपातयत् ।

स इति । अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्देवता यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान् । कर्तरि लिट् । तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचं पाण्डुपत्रमिव परिणतपर्णमिवेत्यर्थः । अपातयत्पातितवान् ।

भाषार्थ— अस्त्र चलाने में निपुण राम ने तीव्र वेगवाले जिस वायव्यास्त्र को धनुष पर चढ़ाया, उसने पर्वत से भारी ताड़का के पुत्र मारीच को उड़ा कर वैसे ही दूर फेंक दिया, जैसे कोई सूखा पत्ता उड़ा दिया गया हो ॥ २८ ॥

यः सुबाहुरिति राक्षसोऽपरस्तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः ॥ २९ ॥

अन्वयः— सुबाहुः इति यः अपरः राक्षसः तत्र तत्र मायया विससर्प क्षुरप्रशकलीकृतं तं कृतिः आश्रमात् बहिः पत्रिणाम् व्यभजत् ।

य इति । सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार । क्षुरप्रैः शरविशेषैः शकलीकृतं खण्डीकृतं तं सुबाहुं कृती कुशलो रामः । "इष्टादिभ्यश्च" इति इनिः । 'कृती चः कुशलः समौ' इत्यमरः । आश्रमाद्बहिः पत्रिणां पक्षिणाम् । 'पत्रिणौ शरपक्षिणौ' इत्यमरः । व्यभजत् । विभज्य दत्तवानित्यर्थः ।

भाषार्थ— सुबाहु नाम का जो दूसरा राक्षस अपनी माया से इधर-उधर घूम रहा था, उसे भी चतुर राम ने अपने तेज बाण से टुकड़े-टुकड़े करके आश्रम के बाहर फेंक दिया, जिसे पक्षियों ने क्षण भर में बांट खाया ॥ २९ ॥

इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥ ३० ॥

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 421, कुल 735 में से · BharatKosha