रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 442, कुल 735 में से
संदर्भ में पढ़ेंएकादशः सर्गः ३८३
अन्वयः—बलिना तेन भूमिनिहितैककोटि तत् कार्मुकं च अधिरोपितम् भूभृतां रिपुः च धूमकेतन इव निष्प्रभः आस ।
तेनेति । बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत् कर्मणे प्रभवतीति कार्मुकं धनुश्च । "कर्मण उकञ्" इत्युकञ्प्रत्ययः । अधिरोपितम् । भूभृतां रिपुर्भार्गवश्च धूमशेषो धूमकेतनोऽग्निरिव निष्प्रभो निस्तेजस्क आस बभूव । निर्वापितो वह्निरिव हततेजा अभूदित्यर्थः । आसेति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ।
भाषार्थ—बलवान् राम ने उस धनुष की एक छोर पृथ्वी पर टेककर ज्योंही उस पर डोरी चढ़ाई त्योंही क्षत्रियों के शत्रु परशुरामजी उस अग्नि के समान निस्तेज हो गये जिसमें केवल धूंआ भर रह गया हो ॥ ८१ ॥
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ ८२ ॥
अन्वयः—परस्परस्थितौ वर्धमानपरिहीनतेजसौ तौ उभौ अपि दिनात्यये पार्वणौ शशिदिवाकरौ जनता पश्यति स्म ।
ताविति । परस्परस्थितावन्योन्याभियुक्तौ वर्धमानं च परिहीनं चेति द्वन्द्वः । वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघवभार्गवावपि दिनात्यये सायङ्काले । पर्वणि भवौ पार्वणौ शशिदिवाकराविव । जनता जनसमूहः । "ग्रामजनबन्धु-सहायेभ्यस्तल्" इति तल्प्रत्ययः । पश्यति स्मापश्यत् । अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ।
भाषार्थ—आमने सामने खड़े हुए राम और परशुराम में से एक का तेज बढ़ गया और दूसरे का घट गया । जनता ने उन दोनों को इस प्रकार देखा मानों वे पूर्णिमा के दिन सन्ध्या के समय चन्द्रमा और सूर्य हों ॥ ८२ ॥
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ ८३ ॥
अन्वयः—हरसूनुसंनिभः कृपामृदुः राघवः आत्मनि स्खलितवीर्यं तं भार्गवं स्वं संहितं अमोघं आशुगं च अवेक्ष्य व्याजहार ।
तमिति । हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः आत्मनि विषये स्खलित-वीर्यं कुण्ठितशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य व्याजहार बभाषे ।