भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 446, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 446

एकादशः सर्गः ३८७

सलक्ष्मणस्तम् । "तेन सहेति तुल्ययोगे" इति बहुव्रीहिः । लक्ष्मणाग्रजं राममिति वच ऊचिवानुक्तवान् । ब्रुवः क्वसुः । ऋष्टिभिस्तिरोधघेऽन्तर्दधे ।

भाषार्थ—अब मैं जा रहा हूँ आप देवताओं का जो कार्य करने के लिए आए हैं वह बिना विघ्न के पूरा हो, इस प्रकार लक्ष्मण के सहित राम से कह-कर परशुरामजी अन्तर्धान हो गये ॥ ९१ ॥

तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातम् । तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ ९२ ॥

अन्वयः—तस्मिन् गते विजयिनं रामं पिता स्नेहात् परिरभ्य पुनः जातम् एव अमन्यत । क्षणशुचः तस्य परितोषलाभः कक्षाग्निलंघिततरोः वृष्टिपातः इव अभवत् ।

तस्मिन्निति । तस्मिन्भार्गवे गते सति विजयिनं रामं पिता स्नेहात्परिरभ्या-लिङ्ग्य पुनर्जातमेवामन्यत । क्षणं शुग्यस्येति विग्रहः । क्षणशुचस्तस्य दशरथस्य परितोषलाभः सन्तोषप्राप्तिः कक्षाग्निना दावानलेन । 'कक्षः शुष्ककाननवीरुधोः' इति विश्वः । लङ्घितस्याभिहतस्य तरोर्वृष्टिपातः वर्षापात इव अभवत् ।

भाषार्थ—उस परशुरामजी के चले जाने पर दशरथजी स्नेह से विजयी रामको आलिङ्गन कर यह समझने लगे कि राम का दूसरा जन्म हुआ है । इस क्षणमात्र के दुःख के बाद दशरथजी को ऐसा सन्तोष मिला जैसे जंगल की आग से झुलसते हुए पेड़ को वर्षा का जल मिल गया हो ॥ ९२ ॥

अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ९३ ॥

अन्वयः—अथ शर्वकल्पः अवनिपालः क्लृप्तरम्योपकार्ये पथि कतिचित् शर्वरीः गमयित्वा मैथिलीदर्शिनीनां अङ्गनानां लोचनैः कुवलयितगवाक्षां पुरं अयोध्याम् अविशत् ।

अथेति । अथ ईषदसमाप्तः शर्वः शर्वकल्पः । "ईषदसमाप्तौ कल्पब्देश्यदेशीयरौ" इति कल्पप्प्रत्ययः । अवनिपालः क्लृप्ता रम्या नवा उपकार्या यस्मिन्स तस्मिन्पथि कतिचिच्छर्वरी रात्रीर्गमयित्वा मैथिलीदर्शिनीनामङ्गनानां लोचनैः । कुवलयानि