रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 445, कुल 735 में से
संदर्भ में पढ़ें३८६ - रघुवंशमहाकाव्ये
राघवोडपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुधु प्रणतिरेव कीर्तये ॥ ८९ ॥
अन्वयः— राघवः अपि 'क्षम्यताम्' इति वदन् तपोनिधेः चरणौ समस्पृशत् तरस्विनां तरसा निर्जितेषु शत्रुधु प्रणतिः एव कीर्तये ( भवति ) ।
राघव इति । राघवोडपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशतप्रणनाम । तथाहि तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुधु प्रणतिरेव कीर्तये भवतीति शेषः ।
भाषार्थ— तब राम ने महातपस्वी परशुरामजी से क्षमा माँगते हुए उनके दोनों चरणों का स्पर्श कर प्रणाम किया, क्योंकि जब कोई पराक्रमी वीर अपने पराक्रम से अपने शत्रुको जीत लेता है तब यदि वह नम्रता भी दिखाता है तो उसकी कीर्ति ही बढ़ती है ॥ ८९ ॥
राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा । नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ९० ॥
अन्वयः— मातृकं राजसत्वं अवधूय पित्र्यं शमं यदा गमितः ( अस्मि तदा ) त्वया मम अनिन्दितफलः अयं निग्रहः अपि अनुग्रहीकृतः ।
राजसत्वमिति । मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय तिरस्कृत्य । पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि । तदा त्वया समापेक्षितत्वादनिन्दितं गर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ।
भाषार्थ— परशुरामजी बोले—आपने मुझे अनिन्दित फल वाला यह दण्ड देकर मेरा बड़ा भारी उपकार किया है, इससे मेरा बहुत बड़ा लाभ यह हुआ है कि अपने क्षत्रिय माता से पाये हुए मेरे रजोगुण को दूर करके मुझे ब्राह्मणोचित पिता का सतोगुण दे दिया है ॥ ९० ॥
साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः । ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ ९१ ॥
अन्वयः— 'अहं साधयामि, देवकार्यं उपपादयिष्यतः ते अविघ्नम् अस्तु' लक्ष्मणाग्रजं रामं इति वचः ऊचिवान् ऋषि तिरोदधे ।
साधयामिति । अहं साधयामि गच्छामि धातूनामनेकार्थत्वात् । इति देवकार्यमुपपादयिष्यतः सम्पादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु । "अव्ययं विभक्तिसमीपसमृद्ध्व्यृद्ध्यर्थाभाव०" इत्यादिनार्थाभावेऽव्ययीभावः । सह लक्ष्मणेन