भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 444, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 444

एकादशः सर्गः ३८५

"विभाषा सातिकार्त्स्न्ये" इति सातिप्रत्ययः ससागरां वसुधां च पात्रसात्यात्राधीनदेयं कृतवतः "देये त्रा च" इति चकारात्सातिः । कृतकृत्यस्य मे परमेष्ठिना परमे लोके तिष्ठतीति तेन परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ।

भाषार्थ—पिताके शत्रुओं का नाश करनेवाले और समुद्र तक फैली हुई पृथ्वी ब्राह्मण को दान दे देनेवाले, मेरे लिए आप परम पुरुष से हारना भी गौरव की बात है ॥ ८६ ॥

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ८७ ॥

अन्वयः—तत् हे मतिमतां वर ! पुण्यतीर्थगमनाय ईप्सितां मे गतिं रक्ष, (किन्तु) खिलीकृता स्वर्गपद्धतिः अभोगलोलुपं मां न पीडयिष्यति ।

तदिति । तत्तस्मात्कारणाद्धे मतिमतां वर ! पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय । किन्तु खिलीकृता दुर्गमीकृताऽपि स्वर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः ।

भाषार्थ—हे बुद्धिमानों में श्रेष्ठ ! आप मेरी अभिलषित गति न रोकिये जिससे मैं पुण्य तीर्थों में जा सकूँ; मुझे भोग की तो इच्छा है नहीं । इसलिए यदि मुझे स्वर्ग न भी मिले तो कुछ दुःख नहीं होगा । अतः आप स्वेच्छागति को बचाकर मेरे स्वर्गलोक को ही अपने अमोघ बाण से नष्ट कीजिए ॥ ८७ ॥

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ८८ ॥

अन्वयः—राघवः तथा इति प्रतिपद्यत प्राङ्मुखः सायकं विससर्ज च । स सुकृतोऽपि भार्गवस्य दुरत्ययः स्वर्गमार्गपरिघः अभवत् ।

प्रत्यपद्येति । राघवस्तुतथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च । स सायकः सुकृतोऽपि साधुकारिणोऽपि । करोतेः क्विप् । भार्गवस्य दुरत्ययो दुःखेन अत्ययो नाशो यस्य स दुरत्ययो दुरतिक्रमः । स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ।

भाषार्थ—रामने परशुरामजी का कहना मान लिया और पूर्वाभिमुख होकर बाण छोड़ दिया । यद्यपि परशुरामजी ने बहुत पुण्य किया था फिर भी वह बाण सदा के लिए उनके स्वर्ग का प्रतिरोधक बन गया ॥ ८८ ॥

२५ र० सम्पू०

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 444, कुल 735 में से · BharatKosha