रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 468, कुल 735 में से
संदर्भ में पढ़ेंद्वादशः सर्गः ४०९
अन्वयः—वधनिर्धूतशापस्य कबन्धस्य उपदेशतः रामस्य समानव्यसने हरौ सख्यं मुमूच्छं ।
वधेति । वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशे-षस्योपदेशतो रामस्य समानव्यसने समानापदि कलत्रवियोगदुःखिते सख्यार्थिनीत्यर्थः । हरौ कपौ सुग्रीवे । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । सख्यं मुमूच्छं ववृधे ।
भाषार्थ—वहाँ से कुछ आगे बढ़ने पर उन्हें कबन्ध मिला, जो एक ऋषि के शाप से राक्षस हो गया था, राम ने उसकी भुजायें काट डालीं जिससे उसका शाप छूट गया और वह पुनः देवता हो गया । इससे प्रसन्न होकर उसने सुग्रीव का पता बतलाया जिसके भाई बाली ने उसके राज्य और स्त्री को छीन लिया था इसलिए स्त्री वियोगी राम ने स्त्री वियोगी उस सुग्रीव से मित्रता कर ली ॥ ५७ ॥
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थानं इवादेशं सुग्रीवं संन्यवेशयत् ॥ ५८ ॥
अन्वयः—वीरः सः वालिनं हत्वा चिरकांक्षिते तत्पदे धातोःस्थाने आदेशम् इव सुग्रीवं संन्यवेशयत् ।
स इति । वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकांक्षिते तत्पदे वालि स्थाने धातोः स्थान आदेशमिव । आदेशभूतं धात्वन्तरमिवेत्यर्थः । सुग्रीवं सन्नयवेशयत्स्थापितवान् । यथा "अस्तेर्भूः" इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः । आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ।
भाषार्थ—उस वीर राम ने बाली को मारकर चिरकाल से अभिलषित उसके सिंहासन पर सुग्रीव को उसी प्रकार बैठा दिया । जिस प्रकार वैयाकरण लोग लिट् लुट् आदि लकारों में "अस्तेर्भूः" इस पाणिनी के सूत्र के आधार पर अस् धातु के स्थान पर भू आदेश को बैठा देते हैं ॥ ५८ ॥
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥ ५९ ॥
अन्वयः—वैदेहीम् अन्वेष्टुं भर्तृ चोदिताः कपयः आर्तस्य रामस्य मनोरथा इव इतस्ततः च चेरुः ।
इतस्ततश्चेति । वैदेहीमन्वेष्टुं मागितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्ताः कपयो हनूमत्प्रमुखाः । आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव इतस्ततश्चेरुर्नानादेशे बभ्रमुश्च ।