भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 482, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 482

द्वादशः सर्गः ४२३

अयःशङ्कुचितां रक्षः शतघ्नीमय शत्रवे।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ ९५ ॥

अन्वयः—अथ रक्षः अयःशंकुचितां शतघ्नीं हृतां वैवस्वतस्य कूटशाल्मलिम् इव शत्रवे अक्षिपत् ।

अय इति । अथ रक्षो रावणोऽयसः लोहस्य शङ्कुभिः कीलैश्चितां कीर्णां शतघ्नीं लोहकण्टककीलितयष्टिविशेषताम् । 'शतघ्नी तु चतुस्ताला लोहकण्टक-संचिता । यष्टिः' इति केशवः । हृतां विजयलब्धां वैवस्वतस्यान्तकस्य कूटशाल्म-लिरिति शत्रवे राघवायाक्षिप्तवान् । कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकीवृक्ष-विशेषः । 'रोचनः कूटशाल्मलिः' इत्यमरः । तत्सादृश्यं च गदया अयःशंकुचित-त्वादनुसंधेयम् ।

भाषार्थ—इसके बाद रावण ने लोहे की कीलों से बनी हुई वह शतघ्नी राम को मारने के लिए चलाई जो यमराज की गदा शाल्मलि के समान भयंकर थी ॥ ९५ ॥

राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्वाणैश्चिच्छेद कदलीमुखम् ॥ ९६ ॥

अन्वयः—राघवः रथम् अप्राप्तां तां सुरद्विषां आशां च अर्द्धचन्द्रमुखैः वाणैः कदलीमुखं चिच्छेद ।

राघव इति । राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजय-तृष्णां च । 'आशा तृष्णादिशोः प्रोक्ता' इति विश्वः अर्धचन्द्र इव मुखं येषां तैर्बाणैः । कदली वन्मुखं यथा तथा विच्छेद । अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ।

भाषार्थ—राक्षसों को पूरी आशा हो गई थी उससे राम अवश्य मर जायेंगे । पर राम ने उस शतघ्नी को अपने रथ के पास पहुँचने के पहले ही अर्द्धचन्द्राकार फलों वाले बाणों से केले के समान सुखपूर्वक काट दिया यह देखकर राक्षसों की आशा पर पानी फिर गया ॥ ९६ ॥

अमोघं संदधे चास्मै धनुष्येकधनुर्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ ९७ ॥

अन्वयः—एकधनुर्धरः प्रियाशोकशल्यनिष्कर्षणौषधं अमोघं ब्राह्मं अस्त्रं अस्मै च धनुषि सन्दधे ।