रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 483, कुल 735 में से
संदर्भ में पढ़ें४२४ | रघुवंशमहाकाव्ये
अमोघमिति । एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निष्कर्ष णमुद्धारकं यदौषधं तदमोघं सफलं ब्रह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च तद्वधार्थमित्यर्थः । धनुषि संदधे ।
भाषार्थ—अद्वितीय धनुर्धारी राम ने रावण को मारने के लिए धनुष पर वह ब्रह्मास्त्र चढ़ाया जो कभी व्यर्थ नहीं जाता । वह ऐसा था मानों सीता के शोकरूपी काँटे को निकालने के लिए अचूक ओषधि हो ॥ ९७ ॥
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥ ९८ ॥
अन्वयः—व्योम्नि शतधा भिन्नं दीप्तिमन्मुखं तत् करालफणमण्डलं महोरगस्य वपुः इव ददृशे ।
तदिति । व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रं करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम् । 'करालो दन्तुरे तुङ्गे करा लो भीषणेऽपि च' इति विश्वः । महोरगस्य शेषस्य वपुरिव ददृशे ।
भाषार्थ—वह ब्रह्मास्त्र आकाश में सैकड़ों रूपों में फैल गया और उसके अग्रभाग चमकने लगे, वह ऐसा मालूम पड़ता था मानों फणों का भयंकर चमकीला मण्डल लिए शेषनाग हों ॥ ९८ ॥
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् । स रावणशिरःपंक्तिमज्ञातव्रणवेदनाम् ॥ ९९ ॥
अन्वयः--स मन्त्रप्रयुक्तेन तेन अज्ञातव्रणवेदनां रावणशिरःपङ्क्तिम् निमेषार्धात् अपातयत् ।
तेनेति । स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादनुभूत-व्रणदुःखां रावणशिरःपंक्ति निमेषार्धादपातयत्पातयामास ।
भाषार्थ—मन्त्रपूर्वक चलाये हुए उस ब्रह्मास्त्र से राम ने रावण के दशों शिरों को आधे पल में काटकर पृथ्वी पर गिरा दिया, जिससे रावण को थोड़ा सा भी वेदना का अनुभव नहीं हुआ ॥ ९९ ॥
बालार्कप्रतिमेबाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षःकायस्य कण्ठच्छेदपरम्परा ॥ १०० ॥
अन्वयः—पतिष्यतः रक्षःकायस्य कण्ठच्छेदपरम्परा वीचिभिन्ना अप्सु बालार्कप्रतिमा इव रराज ।