रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 489, कुल 735 में से
संदर्भ में पढ़ें| ४३० | रघुवंशमहाकाव्ये |
|---|
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६ ॥
अन्वयः—युगान्तोचितयोगनिद्रः पुरुषः लोकान् संहृत्य नाभिप्ररूढाम्बुरुहासनेन प्रथमेन धात्रा संस्तूयमानः (सन्) अमुम् अधिशेते ।
नाभीति । युगान्ते कल्पान्त उचिताः परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य । पुरुषः सो विष्णुर्लोकान् भूर्भुवादीन्संहृत्य नाभ्यां प्ररूढं यदम्बुरुहं पद्म तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्ट्रा पितामहेन संस्तूयमानः सन् अमुमधिशेते । अमुष्मिञ्छेते इत्यर्थः । कल्पान्तेऽप्यस्तीति भावः ।
भाषार्थ—प्रलयकाल में जब आदि पुरुष भगवान् विष्णु संसार का संहार कर चुकते हैं तब यहीं आकर योगनिद्रा में सोते हैं और उनके नाभि कमल से निकले हुए ब्रह्मा सदा स्तुति किया करते हैं। अर्थात् यह प्रलयकाल में भी नष्ट नहीं होता ॥ ६ ॥
पक्षच्छिदा गोत्रभिदात्तगन्धः शरण्यमेनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ ७॥
अन्वयः—पक्षच्छिदा गोत्रभिदा आत्तगन्धा महीध्राः शतशः शरण्यं एनं परेभ्यः उपप्लविनः धर्मोत्तरं मध्यमं इव आश्रयन्ते ।
पक्षेति । पक्षच्छिदा गोत्रभिदेन्द्रेण । उभयत्र “सत्सूद्विषु” इत्यादिना क्विप् । आत्तगन्धा हतगर्वाः । अभिभूता इत्यर्थः । 'गन्धो गन्धक आमोद लेशे संबन्धगर्वयोः' इति विश्वः । 'आत्तगन्धोऽभिभूतः स्यात्' इत्यमरः । महीं धारयन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः । शतं शतं शतशः शरण्यं रक्षणासमर्थमेनं समुद्रं परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यम मध्यभूपालमिव आश्रयन्ते । 'अरेरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः' इति कामन्दकः । आर्तबन्धुरिति भावः ।
भाषार्थ—जिस प्रकार शत्रुओं से आक्रान्त हो कर राजा लोग किसी धर्मात्मा और शरणागतरक्षक राजा का आश्रय लेते हैं उसी प्रकार उन सैकड़ों पहाड़ों ने इसकी शरण ली थी जिनके पंखों को काटकर उनका अभिमान चूर कर दिया था ॥ ७ ॥
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव ॥ ८ ॥