रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 497, कुल 735 में से
संदर्भ में पढ़ें४३८ रघुवंशमहाकाव्ये
भाषार्थ—देखो, सामने जो यह माल्यवान् नामक पर्वत की गगनस्पर्शी ऊँची चोटी दिखाई पड़ रही है, वहाँ जब बादलों ने नया जल बरसाना आरम्भ किया था, तब तुम्हारे न रहने से मेरी आँखें भी जल बरसाने लगी। अर्थात् यहाँ बरसते हुए मेघों को देखकर तुम्हारे लिए मैं खूब रोया था ॥ २६ ॥
गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥२७॥
अन्वयः— यस्मिन् धाराहतपल्वलानां गन्ध अर्द्धोद्गतकेसरं कादम्बं च स्निग्धा शिखिनां केकाः त्वया विना मया असह्यानि बभूवुः ।
गन्धश्चेति । यस्मिञ्छृङ्गे धाराभिर्वर्षाधाराभिराहतानां पल्वलानां गन्धश्च अर्धोद्गतकेसरं कादम्बं नीपकुसुमं च स्निग्धाः मधुराः शिखिनां बर्हिणाम् । 'शिखिनो वह्निबर्हिणौ' इत्यमरः । केकाश्च त्वया विना मेऽसह्यानि बभूवुः । "नपुंसकमनपुंसकेन०" इति नपुंसकैकशेषः ।
भाषार्थ— उस समय यहाँ वर्षा के कारण तालाबों से उठी हुई गन्ध, अधखिले केशोंवाले कदम्ब के फूल और मयूरों के मनोहर शब्द तुम्हारे बिना मुझे असह्य हो गये ॥ २७ ॥
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु ! तवोपगूढम् ।
गुहाविसारोण्यतिवाहितानि मया कथञ्चिद्धनगर्जितानि ॥ २८ ॥
अन्वयः— हे भीरु ! यत्र पूर्वानुभूतं कम्पोत्तरं तवोपगूढं स्मरता मया गुहा-विसारीणि घनगर्जितानि कथंचित् अतिवाहितानि ।
पूर्वेति । किंच हे भीरु ! यत्र शृङ्गे पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूह्नं मेघस्तनितश्रवणेन भीरुस्वभावत्वात्त्वया कृतमालिङ्गनमित्यर्थः । स्मरता मया गुहाविसारीणि घनगर्जितानि कथञ्चिदतिवाहितानि । स्मारकत्वेनोद्दीपकत्वात्क्लेशेन गमितानीत्यर्थः ।
भाषार्थ— जब वहाँ बादल गरजते थे और गुफाओं में उसकी प्रतिध्वनि होने लगती थी तब तुम बादलों के भयंकर गर्जन से डरकर काँपती हुई मुझसे लिपट जाती थी । उन दिनों को स्मरण करके मैंने उन्हें बड़े कष्ट से बिताया है ॥ २८ ॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ २६ ॥
अन्वयः— यत्र विभिन्नकोशैः नवकन्दलैः आसारसिक्तक्षितिबाष्पयोगात् विडम्ब्यमाना ते विवाहधूमारुणलोचनश्रीः माम् अक्षिणोत् ।