भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 496, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 496

त्रयोदशः सर्गः । ४३७

त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ २४ ॥

अन्वयः—हे भीरु ! त्वं रक्षसा यतः अपनीता, तं मागं वक्तुं अशक्नुवत्यः एताः लताः आवर्जितपल्लवाभिः शाखाभिः अदर्शयन् ।

त्वमिति । हे भीरु भयशीले ! “ऊङुतः” इत्यूङ् । ततो नदीत्वात्संबुद्धौ ह्रस्वः । त्वं रक्षसा रावणेन यतो येन मार्गेण । सार्वविभक्तिकस्तसिः । अपनीताऽपहृता तं मागं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लतावीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन् । हस्तचेष्टया सूचयन्नित्यर्थः । 'शाखा वृक्षान्तरे भुजे' इति विश्वः । लतादीनामपि ज्ञानमस्त्येव । तदुक्तं मनुना—
"अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विता" इति ।

भावार्थ—हे भीरु प्रिये ! रावण तुम्हें जिस मार्ग से ले गया था उस मार्ग को ये लतायें मुझको बताना चाहती थी पर बोल न सकने के कारण इन्होंने अपनी पत्तों वाली डालियों को ही उधर झुकाकर मुझे तुम्हारा पता बता दिया था ॥ २४ ॥

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ २५ ॥

अन्वयः—दर्भाङ्कुरनिर्व्यपेक्षा मृग्यः उत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः तव अगतिज्ञं मां समबोधयन् ।

मृग्यश्चेति । दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निस्पृहा मृग्यो मृगाङ्गनाश्चोत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं समबोधयन् । दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ।

भावार्थ—हरिणियों ने भी जब देखा कि मुझे तुम्हारे जाने के मार्ग का पता नहीं लग रहा है तब वे अपनी उठी हुई पलकों वाली आँखें दक्षिण की ओर करके मुझे तुम्हारा मार्ग समझाने लगीं ॥ २५ ॥

एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् ।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ २६ ॥

अन्वयः—माल्यवतः गिरेः अम्बरलेखि शृङ्गं एतत् पुरस्तात् आविर्भवति, यत्र घनैः नवं पयः मया त्वद्वियोगाश्रु समं विसृष्टम् ।

एतदिति । माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं शृङ्गं शिखरमेतत्पुरस्तादग्रं आविर्भवति । यत्र शृङ्गे घनैर्मेघैर्नवं पयो मया त्वद्विप्रयोगेन यदश्रु तच्च समं युगपद्विसृष्टं मुक्तम् । मेघदर्शनाद्धर्षातुल्यमश्रु विमुक्तमिति भावः ।

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 496, कुल 735 में से · BharatKosha