भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 510, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 510

त्रयोदशः सर्गः ४५१

हेमाम्बुजरेणुर्यस्य तत् तत्र ताः क्रीडन्तीति व्यज्यते। ब्रह्मण इदं ब्राह्मम्। "नस्तद्धिते" इति टिलोपः। ब्राह्मं सरो मानसाख्यं यस्या सरय्वाः बुद्धेर्महत्त्वस्याव्यक्तं प्रधानमिव कारणम्। आसस्य वाच आसवाचो वेदाः, यद्वा बहुव्रीहिणा मुनयः उदाहरन्ति प्रचक्षते।

**भाषार्थ—**जिस प्रकार ऋषि लोग कहते हैं कि अव्यक्त से बुद्धि उत्पन्न हुई है, उसी प्रकार यह सरयू नदी भी उस मानसरोवर से निकली है जिसके स्वर्ण कमलों का पराग यक्षों की स्त्रियां अपने स्तनों में लगाती हैं ॥ ६० ॥

जलानि या तीरनिखातयूपा बहत्ययोध्याममु राजधानीम् ।
तुरङ्गमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ ६१ ॥

**अन्वयः—**तीरनिखातयूपा या तुरंगमेधावभृथावतीर्णैः इक्ष्वाकुभिः पुण्यतरीकृतानि जलानि अयोध्यां राजधानीं अनु वहति ।

जलानीति । यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः, तीरनिखातयूपा या सरयूस्तुरङ्गमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णैरवरूढैरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः । तद्राजत्वादणो लुक् । पुण्यरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानीं नगरीमनु समीपे तया लक्षितयेत्यर्थः । अनुशब्दस्य "लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यन्वः' इत्यनेन कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । वहति प्रापयति ।

**भाषार्थ—**यह नदी इक्ष्वाकुवंशी राजाओं की राजधानी अयोध्या से लगी बहती है उसके तट पर जहाँ-तहाँ यज्ञों के स्तम्भ गड़े हुए हैं। अश्वमेध यज्ञ के अन्त में सूर्यवंशी राजाओं के स्नान करने से इसका जल परम पवित्र हो गया है ॥ ६१ ॥

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे सम्भावयत्युत्तरकोसलानाम् ॥ ६२ ॥

**अन्वयः—**यां मे मानसं सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानां उत्तरकोसलानां सामान्यधात्रीम् इव सम्भावयति ।

यामिति । यां सरयूम् । मे मानसं कर्तृ सैकतं पुलिनं तदेवोत्सङ्गं तत्र तत्सुखं तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । परिवर्धितानां पुष्टानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्रीं साधारणमातरमिव । 'धात्री जनन्यामलकी वसुमत्युपमातृषु' इति विश्वः ।

**भाषार्थ—**मैं इस नदी का बड़ा आदर करता हूँ क्योंकि यह उत्तर कोसल

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 510, कुल 735 में से · BharatKosha