रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 509, कुल 735 में से
संदर्भ में पढ़ें४५० रघुवंशमहाकाव्ये
ऋतु के उन बादलों के समान जान पड़ती हैं जिनके बीच-बीच में नीला आकाश झांक रहा हो। कहीं भस्म लगाये हुए शिवजी के उस शरीर के समान दिखाई दे रही हैं जिस पर काले-काले सर्प लिपटे हों। इस प्रकार यमुना की लहरों से मिली गंगाजी सुन्दर लग रही हैं ॥ ५४, ५५, ५६, ५७ ॥
समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात्।
तत्त्वावबोधेन विनाऽपि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ ५८ ॥
**अन्वयः—**अत्र समुद्रपत्ल्योः सन्निपाते अभिषेकात् पूतात्मनां तत्त्वावबोधेन विना अपि तनुत्यजां भूयः शरीरबन्धः नास्ति ।
समुद्रेति। अत्र समुद्रपत्न्योर्गङ्गायमुनयोर्जलसंनिपाते सङ्गमेऽभिषेकात्स्नानात्पूतात्मनां शुद्धात्मनां तत्त्वावबोधेन तत्वज्ञानेन विनाऽपि तनुत्यजां प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल। अन्यत्र ज्ञानादेव मुक्तिः, अत्र तु स्नानादेव मुक्तिरित्यर्थः ।
**भाषार्थ—**यहाँ गंगा यमुना दोनों नदियों के संगम में जो स्नानकर पवित्र हो जाते हैं, वे तत्त्वज्ञानी न होने पर भी संसार बन्धनों से छूट जाते हैं। फिर शरीर धारण नहीं करते ॥ ५८ ॥
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि ! कामाः फलितास्तवेति ॥ ५९ ॥
**अन्वयः—**निषादाधिपतेः तत् पुरम् इदं यस्मिन् मया मौलिमणिं विहाय जटासु बद्धासु सुमन्त्रः 'हे कैकेयि ! तव कामाः फलिता' इति अरुदत् ।
पुरमिति। निषादाधिपतेर्गुहस्य तत्पुरमिदम्, यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः 'हे कैकेयि ! तव कामा मनोरथाः फलितः सफलाः जाताः' इत्यरुदत् । 'रुदिर् अश्रुविमोचने' इति धातोलुँङ् ।
**भाषार्थ—**यह आगे निषादराज गुह का शृङ्गवेरपुर नामक नगर है जहाँ मैंने अपना मुकुटमणि उतार कर जटा बांधी थी और जिसे देखकर सुमन्त्र यह कहकर रोने लगे थे कि हे कैकेयी ! तेरी इच्छा सफल हो गई ॥ ५९ ॥
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ ६० ॥
**अन्वयः—**पुण्यजनाङ्गनानां पयोधरैः निर्विष्टहेमाम्बुजरेणुः ब्राह्मं सरः यस्याः बुद्धेः अव्यक्तम् कारणम् आप्तवाचः उदाहरन्ति ।
पयोधरैरिति । पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपमुक्तो