रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 530, कुल 735 में से
संदर्भ में पढ़ेंचतुर्दशः सर्गः । ४७१
कादिदानं बलिः। संबद्धाः कृतसम्बन्धाः कृतसख्या वैखानसानां कन्यका येषु तानि कुशवन्ति भागीरथीतीरतपोवनानि भूयः पुनरपि गन्तुमियेषाभिलाष ।
भाषार्थ—सीताजी ने कहा, मैं गङ्गा के तट के उन तपस्वियों को देखना चाहती हूँ जहां के हिंसक जन्तु मांस न खाकर नीवार ही खाते हैं, जहां मेरी सखियां तपस्वियों की कन्यायें रहती हैं और वहां कुशा की पर्णकुटियां चारों ओर खड़ी हैं ॥ २८ ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥ २९ ॥
अन्वयः—रघुप्रवीरः तस्यै तत् ईप्सितं प्रतिश्रुत्य पार्श्वचरानुयातः ( सन् ) मुदितां अयोध्यां आलोकयिष्यन् अभ्रंलिहं प्रासादम् आरुरोह ।
तस्या इति । रघुप्रवीरो रामस्तस्यै सीतायै तत्पूर्वोक्तमीप्सितं मनोरथं प्रतिश्रुत्य पार्श्वचरैस्तत्कालोचितैरनुयातः सन्मुदितां तामयोध्यामलोकयिष्यन् अभ्रं लेढीत्यभ्रंलिहमभ्रङ्कषं प्रासादमारुरोह । “वहाभ्रे लिहः” इति खश्प्रत्ययः । “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः ।
भाषार्थ—रामजी ने कहा—अच्छी बात है हम तुम्हें तपोवन में अवश्य भेजेंगे, वे वहांसे उठ कर अपने सेवकों के साथ सुन्दर अयोध्या की छटा देखने के लिए गगनचुम्बी अपने राजभवन की छतपर जा चढ़े ॥ २९ ॥
ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ ३० ॥
अन्वयः—सः ऋद्धापणं राजपथं नौभिः विगाह्यमानां सरयूञ्च पश्यन् पौरैः विलासिभिः अध्युषितानि पुरोपकण्ठोपवनानि रेमे ।
ऋद्धापणमिति । स रामः ऋद्धाः समृद्धा आपणाः पण्यभूमयो यस्मिंस्तं राजपथम् । नौभिः समुद्रवाहिनीभिर्विगाह्यमानां सरयूं च, पौरैर्विलासिभिरध्युषितानि पुरोपकण्ठोपवनानि च पश्यन्रेमे । विलासिन्यश्च विलासिनः । “पुमान्स्त्रिया” इत्येकशेषः ।
भाषार्थ—वहां से उन्होंने देखा कि राजमार्ग की दुकानें धन-धान्य से भरी हुई हैं, सरयू में नावें चल रही हैं और अयोध्या के उद्यानों में विलासी पुरवासी प्रसन्न होकर विलास कर रहे हैं ॥ ३० ॥
स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः ।
सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ ३१ ॥