भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 533, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 533

४७४ | रघुवंशमहाकाव्ये

स इति। हतौजा निस्तेजस्कः सः रामस्तस्य रामस्य विक्रियादर्शनेन लुप्तहर्षानवरजान्संनिपात्य संगमय्यात्माश्रयं स्वविषयकं कौलीनं निन्दां तेभ्य आचचक्षे । पुनरिदं वाक्यमुवाच च ।

भाषार्थ—उदास मुख से राम ने छोटे भाइयों को बुलाया तो वे भी उनकी दशा देखकर सन्न रह गये । वे अपने विषय में होने वाली निन्दा को उनसे कहकर पुनः यह वचन बोले ॥ ३६ ॥

राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥ ३७ ॥

अन्वयः—रविप्रसूते राजर्षिवंशस्य सदाचारशुचेः मत्तः दर्पस्य पयोदवातात् इव कीदृशः अयं कलङ्कः उपस्थितः ( इति ) पश्यत् ।

राजर्षीति । रवेः प्रसूतिर्जन्म यस्य तस्य राजर्षिवंशस्य सदाचारशुचेः सद्-वृत्ताच्छुद्धान्मत्तो मत्सकाशात् दर्पणस्य पयोदवातादिव । अम्भःकणादित्यर्थः कीदृशोऽयं कलंक उपस्थितः प्राप्तः पश्यत ।

भाषार्थ—यद्यपि मैं सदाचारी होने के कारण निष्कलंक हूँ फिर भी जैसे भाप पड़ने से दर्पण धुंधला हो जाता है । वैसे ही देखो सूर्यवंशी राजाओं के कुल में मेरे कारण कैसा अकल्पनीय कलंक लग रहा है ॥ ३७ ॥

पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलविन्दुम् ।
सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ ३८ ॥

अन्वयः—सः अहं अपां तरंगेषु तैलविन्दुम् इव पोरेषु बहुलीभवन्तं तत्पूर्ववर्णं द्विपेन्द्रः आलानिकं स्थाणुम् इव सोढुं न ईशे ।

पौरेष्विति । सोऽहम् । अपां तरंगेषु तैलविन्दुमिव पौरेषु बहुलीभवन्तं स एवं पूर्वो यस्य स तं तत्पूर्वमवर्णमपवादम् । 'अववर्णाक्षेपनिर्वादपरीवादापवादवत्' इत्यमरः । द्विपेन्द्रः आलानमेवाला निकं । विनयादित्वात्स्वार्थे ठक् । अथवाऽऽलानं बन्धनं प्रयोजनमस्येत्यालानिकम् । “प्रयोजनम्” इति ठक् । स्थाणुं स्तम्भमिव भूतवृक्ष इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम् । सोढुं नेशे न शक्नोमि ।

भाषार्थ—जिस प्रकार पानी के तरङ्गों के ऊपर तेल की बूंद फैल जाती है उसी प्रकार इस समय घर-घर मेरी निन्दा फैल रही है । इस सर्वप्रथम अपयश को उसी प्रकार सहने में असमर्थ हूँ जिस प्रकार गजराज पहले पहल बांधने वाले खूटों को सहने में असमर्थ होता है ॥ ३८ ॥