रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 536, कुल 735 में से
संदर्भ में पढ़ेंचतुर्दशः सर्गः ४७७
स इति । लोकत्रयगीतकीर्तिस्त्रैलोक्ये प्रथितयशा यथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः स रामो निदेशे स्थितमाज्ञाकारिणं लक्ष्मणं विलोक्य ‘हे सौम्य ! सुभग ! इत्याभाष्य च पृथग्भरतशत्रुघ्नाभ्यां विनाकृत्यादिदेशाज्ञापयामास ।
भाषार्थ— तीनों लोकों में प्रसिद्ध यशस्वी यथार्थवक्ता और लक्ष्मण के बड़े भाई राम ने जब देखा कि केवल लक्ष्मण उनकी आज्ञा मानने को तत्पर हैं तब उन्होंने लक्ष्मण से कहा—हे सौम्य ! कहकर उन्हें एकान्त में ले जाकर कहा ॥ ४४ ॥
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।
स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ ४५ ॥
अन्वयः— दोहदशंसिनी ते प्रजावती तपोवनेषु स्पृहयालुः एव । सः त्वं रथी ( सन् ) तद् व्यपदेशनेयाम् एनां वाल्मीकिपदं प्रापय्य त्यज ।
प्रजावतीति । दोहदो गर्भिणीमनोरथः तच्छंसिनी ते प्रजावती भ्रातृजाया । ‘प्रजावती भ्रातृजाया’ इत्यमरः । तपोवनेषु स्पृहयालुरेव सस्पृहैव । ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्’ इत्यनेनालुच्प्रत्ययः । स त्वं रथी सन् तद्व्यपदेशेन दोहदमिशेण नेयां नेतव्यामेनां सीतां वाल्मीकेः पदं स्थानं प्रापय्य गमयित्वा । “विभाषापः” इत्ययादेशः । त्यज ।
भाषार्थ— गर्भिणी तुम्हारी भाभी सीता तपोवन देखना चाहती है इसलिए तुम इसे इसी बहाने रथ पर ले जाकर वाल्मीकि जी के आश्रम तक पहुँचा कर छोड़ आओ ॥ ४५ ॥
स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् ।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया ॥ ४६ ॥
अन्वयः— पितुः नियोगात् भार्गवेण मातरि द्विषद्वत् प्रहृतं शुश्रुवान् । सः तत् अग्रजशासनं प्रत्यग्रहीत् । हि गुरूणाम् आज्ञा अविचारणीया ( अस्ति ) ।
स इति । पितुर्जमदग्नेर्नियोगाच्छासनाद्भागर्वेण जामदग्न्येन कर्त्रा । “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इत्यनेन षष्ठीप्रतिषेधः । मातरि द्विपतीव द्विषद्वत् । ‘तत्र तस्येव” इति वतिप्रत्ययः । प्रहृतं प्रहारं शुश्रुवाञ्छ्रुतवान् । “भाषायां सदवसश्रुवः” इति क्वसुप्रत्ययः । स लक्ष्मणस्तदग्रजशासनं प्रत्यग्रहीत् । हि यस्मात् गुरूणामाज्ञाऽविचारणीया ।
भाषार्थ— लक्ष्मण ने सुन रखा था कि पिता की आज्ञा पाकर परशुराम ने अपनी माता को निर्दयता पूर्वक शत्रु के समान मार डाला था इसलिए उन्होंने